जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 282, कुल 588 में से
संदर्भ में पढ़ें२५६ सटीकजातकपारिजाते- इदानीं प्राक्तनैः कैश्चिदाश्रयदलयोगाः कथं नोक्तास्तस्य कारणमाह— योगा व्रजन्त्याश्रयजाः समत्वं यावाब्जवज्राण्डजगोलकाद्यैः । केन्द्रोपगप्रोक्तफलौ दलाख्यावित्याहुरन्ये न पृथक् फलौ तौ ॥ १६७ ॥ योगा इति । आश्रयजा योगाः-रज्जुर्मुसलो नलश्चेति त्रयो योगाः, यवाब्जवज्राण्डज- गोलकाद्यैर्योगैः समत्वं = तुल्यत्वमुपगच्छन्ति ( कथं समत्वं यान्तीति यवादियोगलक्षणे द्रष्टव्यम् ) अतोऽन्यैर्नोक्ता इति । दलाख्यौ = शक्सर्पौ, केन्द्रोपगप्रोक्तफलौ = केन्द्रेषु व्यवस्थितैर्ग्रहैर्यत्प्रोक्तं फलं तद्वन्तौ । शक् योगस्तु शुभैः केन्द्रगैरुक्तः । सर्पयोगः पापैः केन्द्रगैरुक्तः । केन्द्रत्रिकोणेषु शुभाः प्रशस्तास्तेष्वेव पापा न शुभप्रदाः स्युरिति वचनात्केन्द्रेषु शुभाः शुभं फलं, पापाः पाप फलं ददति, तेन तौ शक्सर्पौ न पृथक्फलौ ( उक्तार्थत्वात् ) इति अन्ये विज्ञा आहुः । पुनरुक्तदोषभयान्नाहुरिति भावः ॥ १६७ ॥ आश्रय (रज्जु-मुसल-नल) योगके फल यव-पद्म-वज्र-पक्षि-गोलक-युग-केदार-शूल योगोंके फलके समान होते हैं, इस लिये अन्य आचायोंने उन्हें नहीं कहे । दल ( शक्- सर्प ) योग केन्द्रगत शुभ और पापग्रहके फलके समान फलवाले हैं इस लिये फलमें कुछ विशेषता नहीं होनेके कारण प्राचीनोंने द्वलयोगको नहीं कहा । (सु० ज्ञा० कार) ॥ १६७ ॥ इदानीं गदाशकटविहगशृङ्गाटकहलान् पञ्च योगानाह— आसन्नकेन्द्रभवनद्वयगैर्गदाख्यस्तन्वस्तगेषु शकटं विहगः खबन्ध्वोः । शृङ्गाटकं नवमपञ्चम लग्नसंस्थैर्लग्नान्यगैर्हलमिति प्रवदन्ति तज्ज्ञाः ॥ १६८ ॥ आसन्नेति । आसन्ने = समीपवर्त्तिनि, केन्द्रभवनद्वये गतैः सकलैर्ग्रहैः गदाह्वयो योगो भवति । एतदुक्तमवधेयम् । लग्नचतुर्थयोः, चतुर्थसप्तमयोः, सप्तमदशमयोः, दशमलग्न- योर्वा इति भेदचतुष्के कस्मिन्नप्येकस्मिन्भेदे सर्वे ग्रहा भवेयुस्तदा गदा योगः भवति । तन्वस्तगेषु = लग्नसप्तमगतेषु सकलग्रहेषु शकटं नाम योगः स्यात् । खबन्ध्वोः = दशम- चतुर्थयोर्गतेषु ग्रहेषु विहगः = पक्षियोगः स्यात् । नवमपञ्चम लग्नसंस्थैः सर्वैर्ग्रहैः शृङ्गाटकं योगं वदन्ति । लग्नान्यगैः = लग्नेतरैरन्योन्यं त्रिकोणगतैः निखिलखेटैः हलं योगमिति तज्ज्ञा होराशास्त्रज्ञाः प्रवदन्ति । अर्थात् द्वितीय-षष्ठ-दशमोपगैः, वा तृतीय-सप्तम-लाभगैः, वा चतुर्थ-रन्ध्र-व्ययगैः सर्वग्रहैः हलयोगः स्यादिति । तथोक्तम्— “लग्नाम्बुगैरम्बुगतैस्तैर्वा सप्तौम्बुगैरम्बुरलग्नसंस्थैः । एवं चतुर्धा कथितो गदाख्यः शुभाशुभैः खेचरकैस्तु सर्वैः । लग्नोस्तगैस्तु शकटं, विहगः सुखखंगैः । लग्नेपञ्चमनन्दस्थैः खगैः शृङ्गाटकं स्मृतम् ॥ द्वितीयषष्ठकर्मस्थैस्त्रिसप्तायगतैः खगैः । बन्धुनेधनरिःफैल्यैस्त्रिधा तु हलसञ्ज्ञकाः ॥ इति १६८॥ सभी ग्रह दो समीपके केन्द्रमें हों तो 'गदा' योग होता है। यह गदा योग चार प्रकार का है-१ लग्न और चतुर्थमें, २ चतुर्थ और सप्तममें, ३ सप्तम और १० में, दशम और लग्नमें सब ग्रह होने से होता है। सब ग्रह लग्न और सप्तममें हों तो “शकट” योग होता है । समस्त ग्रह दशम और चतुर्थमें हो “विहग- योग” होता है । सब ग्रह नवम, पंचम और लग्नमें हों तो शृङ्गाटक योग होता है। लग्न को छोड़कर सबग्रह परस्पर त्रिकोणमें हो तो “हल” योग होता है । हलयोग के
+---------------+---------------+
| | | | |
| | | मं. र. शु. बु.|
| | | | |
+-------+-------+-------+-------+
| | | |
| चं. बृ. रा. | गदा |
| | | |
+-------+-------+-------+-------+
| | | | |
| | | | |
+---------------+---------------+