भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 283, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 283

राजयोगाध्यायः ॥७॥ २५७ ३ भेद हैं। ३।६।१० तथा ३।७।११ और ४।८।१२ भावोंमें सब ग्रह हों तो हल योग होते हैं ॥ [कुण्डली १: शकटम् — १म: मं. र. शु. बु. | ७म: चं. मं. बृ.] [कुण्डली २: विहगः — १म: ल. | ४र्थ: र. बु. बृ. शु. | १०म: श. मं. चं.] [कुण्डली ३: शृङ्गाटकम् — १म: र. बु. शु. | ५म: मं. श. | ९म: चं. बृ.] [कुण्डली ४: हलम् — १म: ल. | २य: बृ. श. | ४र्थ: र. बु. शु. | ६ठ: मं. चं.] इदानीं वज्र-यव-कमल-वापीति योगचतुष्टयमाह— शकटाण्डजवच्छुभाशुभैर्वज्रन्तद्विपरीतगैर्यवः । कमलं तु विमिश्रसंस्थितैर्वापी तद्यदि केन्द्रबाह्यतः ॥ १६६ ॥ शकटेति । शकटाण्डजवच्छुभाशुभैः = शकटयोगवच्छुभैर्व्यवस्थितैरण्डज ( विहग )- योगवदशुभैर्व्यवस्थितैः वज्रं स्यात् । अत्रेदमवधेयम् । लग्नसप्तमयोः शुभग्रहाः, चतुर्थ- दशमयोः पापग्रहाश्च भवेयुस्तदा वज्रयोगो भवति । तद्विपरीतगैर्यवः । चतुर्थदशमयोः शुभग्रहाः, लग्नसप्तमयोः पापग्रहाश्च भवेयुस्तदा यवयोगः स्यादिति । कमलं तु विमिश्र- संस्थितैः = तैरेव सौम्यासौम्यैः विमिश्रसंस्थितैः ( चतुर्ष्वपि केन्द्रेषु व्यवस्थितैः ) कमलयोगो भवति । वापी तद्यदि केन्द्रबाह्यतः । तत्कमलं यदि केन्द्रबाह्यतः स्यादर्थात्पणफरे वा आपोक्लिमे भवेत्तदा वापी स्यात् । सर्वैरेव ग्रहैः पणफरेषु, आपोक्लिमेषु वा संस्थितैः वापी योगो ज्ञेयः । [कुण्डली ५: वज्रम् — १म: बु. शु. | ४र्थ: श. मं. | ७म: बृ. चं. | १०म: सू.] [कुण्डली ६: यवः — १म: मं. श. | ४र्थ: बृ. चं. | ७म: सू. | १०म: बु. शु.]