भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 284, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 284

२५८ सटीकजातकपारिजाते- Notes—अत्र लग्नसप्तमयोः शुभाः, चतुर्थदशमयोः पापाः स्युस्तदा वज्रं, तद्विप- रीते यव इत्यादि यदुक्तं तज्ज्योतिषसिद्धान्तविरुद्धमेव । यतो हि लग्नसप्तमयोः शुभग्रहेषु बुधशुक्रौ लग्नसप्तमौ भवेतां, सूर्यः, पापश्चतुर्थे दशमे वा भवेत्तदा, अथवा चतुर्थे दशमे बुधशुक्रौ, लग्ने वा सप्तमे सूर्य इति तदा सूर्येण सह बुधशुक्रयोरन्तरं राशितुष्टयमिति परममसङ्गतम् । यतो मध्यमौ बुधशुक्रौ सूर्यसमावेव, तथा यदि बुधशुक्रयोः शीघ्रं मन्दं च फलं परममृणं, सूर्यस्य परमं फलं धनमथवा सूर्यस्य परमफलं ऋणं, बुधशुक्रयोः परमं फलद्वयं धनं कल्प्यते तदा स्पष्टयोः सूर्यबुधयोः परममन्तरं स्यात् । तच्च रवेः परममन्द- फलम् = २°।१'।३१"। बुधस्य परमफलयुगलयोगः = २७°।३३'।३७", एतद्वैक्यम् = २°।१'।३१")+ (२७°।३३'।३७") = २९°।३५'।८", इदमेकराशितोऽप्यल्पं सूर्यबुध- योः परमान्तरं भवति । एवं शुक्रस्यापि । तेनैकराशितोऽधिकमन्तरं सूर्ये बुधयोर्न जातु भवितुमर्हति । कथं तर्हि राशितुष्टयेऽन्तरे सति प्राचीनैर्योगाः परिभाषिताः । अत आह 'वराहः पूर्वशास्त्रानुसारेण मया वज्रादयः कृताः । चतुर्थे भवने सूर्यात् ज्ञशुक्रौ भवतः कथम् ? इति ॥ वस्तुतोऽमी योगा न भवन्तीति भावः ॥ १६६ ॥ शकट योगके समान शुभग्रह (१।७ में) हों और अण्डज योगके समान (४।१० में) पापग्रह हों तो "वज्रयोग" होता है। इसके विरीत (१।७ में पापग्रह, ४।१० में शुभग्रह) हों तो "यव" योग होता है । शुभग्रह और पापग्रह सब केन्द्रमें हों, अन्य पणफर आपो- क्लिम में कोई भी न हों तो "कमल" योग होता है । यदि सभी केन्द्रके बाहर हों तो "वापी" योग होता है। उदाहरण चक्रोंमें देखिये ॥ १६९ ॥ इदानीं यूपेषु शक्तिदण्डयोगानाह— कण्टकादिप्रवृत्तैश्च चतुर्गृहगतैर्ग्रहैः। यूपेषुशक्तिदण्डाख्या होराद्यैः कण्टकैः क्रमात् ॥ १७० ॥ कण्टकादीति । होराद्यैः = लग्नाद्यैः, कण्टकैः = केन्द्रैः लग्नकेन्द्रमारभ्य क्रमात्कण्टका- दिप्रवृत्तेश्चतुर्षु गृहेषु गतैर्ग्रहैः यूपेषुशक्तिदण्डाख्याश्चत्वारो योगा भवन्ति । तथा हि— लग्न-द्वितीय-तृतीय-चतुर्थभावगतैः निखिलैर्ग्रहैः यूपयोगः । चतुर्थ-पञ्चम-षष्ठ-सप्तमेषु सर्वैर्ग्रहैरिषुयोगः । सप्तमादिदशमान्तेषु गतैः शक्तियोगः । दशमादिलग्नान्तेषु चतुर्षु सर्वै- र्ग्रहैर्दण्डयोगो भवति । उक्तमपि तथा— 'एकद्वित्रिचतुर्थस्थैः सर्वखेटैस्तु यूपकम् । तुर्यादिसप्तमान्तस्थैरै वं बाणः प्रजायते ॥ सप्ताष्टनन्दकर्मस्थैः खगैः शक्तिरिति स्मृतः। दशादिलग्नपर्यन्तैः सर्वैर्दण्डाभिधानकः' ॥ इति ज्ञानमुक्तावल्याम् ॥ १७० ॥