जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 287, कुल 588 में से
संदर्भ में पढ़ेंराजयोगाध्यायः ॥७॥ २६१ द्वितीय भावसे बारहवें भावोंके बीचमें यदि एक २ स्थान छोड़ कर ( २।४।६।८।१०।१२ ) में सब ग्रह हों तो "समुद्र" योग और लग्नसे ११ पर्यन्त इसी प्रकार एक एक भाव छोड़ कर ( १।३।५।७।९।११ ) में सब ग्रह हों तो "चक्र" योग होता है । इस प्रकार आचार्यों ने आकृति योगका संग्रह किया है ॥ १७२ ॥ अधुना सङ्ख्यायोगानाह— सङ्ख्यायोगाः सप्त सप्तर्क्षसंस्थैरेकापायाद्वल्लकीदामपाशाः । केदाराख्यः शूलयोगो युगं च गोलश्चान्यान् पूर्वमुक्तान्विहाय ॥ १७३॥ सङ्ख्येति । सप्तर्क्षसंस्थैः=येषु तेषु सप्तसु भावेषु व्यवस्थितैः सप्तभिर्ग्रहैरेकापायादेक- मेकं पूर्वस्मात्पूर्वस्माद्विहाय वल्लकी-( वीणा ) प्रभृति-सप्त सङ्ख्यायोगाः स्युः । इदमुक्तं भवति । येषु तेषु सप्तसु भावेषु सप्त ग्रहा भवेयुस्तदा वल्लकी ( वीणा ) योगः । षट्सु भावेषु सर्वैर्ग्रहैर्द्दामिनी (दाम) योगः । पञ्चसु भावेषु सर्वैर्ग्रहैः पाशः । चतुर्षु केदारः । त्रिषु शूलः । द्वयोः युग्मम् । एकस्मिन्नेव भावे सप्त ग्रहाः स्युस्तदा गोलो योगो भवतीति । पर- मैते योगाः पूर्वमुक्तानन्यान्योगान् विहाय सम्भवन्ति । अत्रेदं चिन्त्यम् । पूर्वोक्तानामाकृति- योगानां मध्याद्यदि कस्मादपि संख्यायोगस्य सादृश्यं भवति तदा अमी सङ्ख्यायोगा न स्वीकार्याः । तदानीमाकृतियोगा एवाङ्गीकर्त्तव्या इति ॥ १७३ ॥ संख्या योग सात प्रकार का होता है। किसी भी सात स्थानोंमें सात ग्रह हों तो "वल्लकी" योग होता है । छः स्थानोंमें सातों ग्रह हों तो "दामिनी" योग । पाँच स्थानों में हों तो 'पाश' योग । चार स्थानोंमें हों तो 'केदार' योग । तीन स्थानोंमें हों तो "शूल" योग । दो स्थानोंमें सब ग्रह हों तो "युग" योग होता है। एक स्थानमें सब ग्रह हों तो 'गोल' योग होता है । इस प्रकार संख्या योगोंको कहे हैं । जिस जगह संख्या योगकी प्राप्तिमें पूर्वोक्त योगोंकी भी प्राप्ति हो वहां वे योग ही फल देते हैं, संख्यायोग फल नहीं देते । संख्यायोग वहां ही फल देगा जहां पूर्वोक्त आश्रय योगोंकी प्राप्ति नहीं हो ॥ १७३ ॥ अथ आश्रयदलयोगफलम् । ईर्ष्युर्विदेशनिरतोऽध्वरतश्च रज्ज्वाम् ,मानी धनी च मुसले बहुभृत्यसक्तः । व्यङ्गः स्थिराढ्यनिपुणो नलजः खगुत्थो, भोगान्वितो भुजगतो बहुदुःखभाजः ॥ अथ गदादियोगफलम् । यज्वाऽर्थभाक् सततमर्थरुचिर्गदायां, तद्वृत्तिभुक् शकटजः सरुजः कुदारः । दूतोऽटनः कलहकृद्द्विहगे प्रदिष्टः, शृङ्गाटके चिरसुखी कृषिकृद्धलाख्ये ॥१७५॥ वज्रेऽन्यपूर्वासुरतः सुभगोऽतिशूरः, शौचान्वितोऽपि च यवे सुखितो वयोऽन्तः । विख्यातकीर्तिमितसौख्यगुणाश्च पद्मे वाप्यां तनुस्थिरसुखी निधिपोऽन्नदाता ॥ त्यागात्मवान् क्रतुवरैर्यजते च यूपे हिंस्रोऽथ गुप्त्यधिकृतः शरकृच्छराख्ये । नीचोऽलसः सुखधनैर्वियुतश्च शक्तौ दण्डे प्रियैर्विरहितः पुरुषोऽन्यवृत्तिः १७७ छत्रे चाद्यन्तसौख्यस्तुलधनबलवान् नौभवस्तोयजीवी चक्रे राजा यशस्वी जलधिभवनरस्तोयवृत्तिः क्षितीशः । अर्धेन्दौ भोगशाली गिरिविपिनचरः क्रूरकर्मा च कूटे चापे जाता मनुष्या यदि गहनचराश्चौर्यनिष्ठा निकृष्टाः ॥ १७८ ॥ वीणायां सकलक्रियासु निपुणः सङ्गीतनृत्यप्रियो- दामिन्यामुपकारकस्त्वपटुमतिः प्रख्यातविद्याधनी । पाशे शीलधनार्जनेऽतिचतुरो वाचालकः पुत्रवान् केदारे कृषिवित्तवानलसधीर्बन्धूपकारी भवेत् ॥ १७६ ॥