जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 30, कुल 588 में से
संदर्भ में पढ़ें४ सटीकजातकपारिजाते- स्पष्टार्थं राशिचक्रम् । मीन, अन्त्य, मत्स्य, पृथुरोम और झष, मीनको कहते हैं । चार चार चरणोंके एक एक नक्षत्र होते हैं । अश्विनी आदि नक्षत्रोंके नव २ चरणों से सहित मेषादि बारह राशि चक्र (वृत्त) में रहते हुए आकाशमें घूमा करते हैं और वे ही १२ राशि क्षेत्र, ऋक्ष, राशि, भवन और भ इत्यादि नामसे कहे जाते हैं ॥ ७ ॥ अथ मेषादयो राशयः कालनरस्यावयवा इत्याह— कालात्मकस्य च शिरोमुखदेशवक्षोहृत्कुक्षिभागकटिवस्तिरहस्यदेशाः । ऊरू च जानुयुगलं परतस्तु जङ्घे पादद्वयं क्रियमुखावयवाः क्रमेण ॥ ८ ॥ कालात्मकस्य=काल एवात्मा यस्यासौ कालात्मा स एव कालात्मकस्तस्य (कालपुरुष स्येत्यर्थः) क्रियमुखावयवाः = क्रियमुखा मेषादयोऽवयवा अङ्गानि क्रमेण सन्ति । के तेऽवयवा इति ? शिरोमुखदेशवक्षोहृत्कुक्षिभागकटिवस्तिरहस्यदेशाः, ऊरू च जानु- युगलं परतस्तु जङ्घे पादद्वयमिति । मेषः शिरः, वृषो मुखदेशः, मिथुनं (१)वक्षः, कर्को हृत् = हृदयं, सिंहः कुक्षिभागः = उदरं, कन्या कटिः, तुला वस्तिर्नाभिलिङ्गयोर्मध्यदेशः, वृश्चिको रहस्यदेशः = लिङ्गं, धनुरूरू द्वौ, मकरो जानुयुगलं, कुम्भो जङ्घे द्वे, मीनः पादद्वयं = चरणयुगलमिति । एतत्प्रयोजनञ्च-जन्मादौ शुभग्रहाक्रान्तराश्यङ्गे पुष्टिः, पापाक्रान्तरा- श्यङ्गदेशे वैकल्यञ्च वाच्यमिति । तथोक्तं स्वल्पजातके— “कालनरस्यावयवान् पुरुषाणां चिन्तयेत्प्रसवकाले । सदसद्ग्रहसंयोगात् पुष्टाः सोपद्रवास्ते च” इति ॥ ८ ॥ ( १ ) स्वल्पजातके मिथुनं बाहू , इत्युक्तं “शीर्षमुखबाहूहृदयोदरानि......”