भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 312, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 312

२८६ सटीकजातकपारिजाते- यदि शत्रुस्थानमें गुलिक हो तो बहुत शत्रुओंके मारनेवाला, भूतविद्यामें विनोदी और पराक्रमी हो । सप्तम स्थानमें गुलिक हो तो कलह करनेवाला, दुष्टा स्त्रीवाला, सब जनों का विरोधी, मन्द बुद्धि और कृतघ्न होता है ॥ ४ ॥ अष्टम स्थानमें गुलिक हो तो विकल नेत्र और मुखवाला तथा छोटा देहवाला हो । नवममें हो तो गुरुजन तथा पितरोंको मारनेवाला नीचकर्मा हो । दशम स्थानमें गुलिक हो तो सैकड़ों अशुभ कर्म से युक्त, निजकुलके हितकारी-आचरणसे रहित, बिना मानवाला होवे ॥ ५ ॥ यदि गुलिक ११ वें भावमें हो तो जातक बहुत सुखी, धनी, तेजस्वी, सुन्दर हो तथा अपने ज्येष्ठ भाईको मारनेवाला होवे । यदि द्वादश स्थानमें गुलिक हो तो विषयसे रहित वेष, दीन वचनमें प्रवीण और सबका धन हरनेवाला होता है ॥ ६ ॥ मान्दित्रिकोणोपगते विलग्ने तद्द्वादशांशे यदि वा नवांशे । मान्द्यन्विता मान्दियुतर्क्षनाथाः सर्वे सदाऽनिष्टकरा भवन्ति ॥ ७ ॥ मान्दिर्गुलिको यत्र तिष्ठति तस्मात् त्रिकोणे ( ५।९ ) उपगते विलग्ने = जन्मलग्ने, अथवा तद्द्वादशांशे मान्दिद्वादशांशे वा नवांशे स्थिता ग्रहाः, मान्द्यन्विता गुलिकसहिता ग्रहाः, मान्दियुतर्क्षनाथाः = मान्दिर्यस्मिन् राशौ भवति तद्राशिपतयश्चैते सर्वे सदा जातस्या- निष्टकरा भवन्ति ॥ ७ ॥ गुलिकसे त्रिकोण गत लग्नमें जो ग्रह हों, उसके द्वादशांश वा नवांशमें जो ग्रह हों, गुलिकसे युक्त ग्रह, गुलिक स्थित राशिका स्वामी ये सब सदा अनिष्ट करनेवाले होते हैं॥७॥ अथ ग्रहयुक्तमान्दिफलम् । संयुक्ते यदि भास्करेण गुलिके जातः पितृद्वेषको मातृक्लेशकरस्तु शीतरुचिना भौमेन वीतानुजः ॥ सोन्मादः शशिजेन देवगुरुणा पाखण्डको दूषकः शुक्रेण प्रमदाकृतामयहतो नीचाङ्गनावल्लभः ॥ ८ ॥ जातः सौख्यरतस्तु मन्दतनये मन्देन युक्ते यदा सर्पेणैव विषप्रदस्तु शिखिना वह्निप्रदो जायते । भिक्षुः स्याद्विपनाडियुक्तगृहगे भूपालकोऽपि ध्रुवं जातस्योपखगान्विता गगनगाः कुर्वन्त्यनिष्टं फलम् ॥ ६ ॥ इदानीं ग्रहयोगान्मान्दिफलान्युच्यन्ते—संयुक्ते इति । भास्करेण-सूर्येण संयुक्ते गुलिके यदि जन्म स्यात्तदा जातः पितृद्वेषकः-पित्रा सह द्वेषकरो भवति । शीतरुचिना = चन्द्रेण संयुक्ते गुलिके मातृक्लेशकरो भवति । भौमेन=मङ्गलेन संयुक्ते वीतानुजो भ्रातृहीनो भवति । शशिजेन = बुधेन संयुक्ते सोन्मादः=उन्मादेन सहितो ( पागलः ) भवति । देवगुरुणा जीवेन संयुक्ते पाखण्डको नास्तिको दूषकोऽन्यदोषदर्शी च भवति । शुक्रेण संयुक्ते प्रमदा- कृतेन=स्त्रीकृतेनामयेन=रोगेण ( प्रमेहादिना ) हतो भवति, तथा नीचाङ्गनायाः=कुलहीनायाः स्त्रिया वल्लभो भवति ॥ ८ ॥ मन्देन = शनिना युक्ते मन्दतनये = गुलिके जातो नरः सौख्यरतो भवति । सर्पेणैव = राहुणा युक्ते विषप्रदोऽन्येषां गरलदाता भवति । शिखिना = केतुना युक्ते वह्निप्रदोऽन्येषां वेश्मप्रदीपको भवति । अथ विपनाडिकायुक्तगृहगे गुलिके भूपालकोऽपि = नृपवंशजातोऽपि ध्रुवं=निश्चयेन भिक्षुर्भिक्षाशी भवति ( विपनाडिकाविवरणं ५ अ. १२ श्लोकटीकायां द्रष्टव्यम् ) उपखगैरुपग्रहैर्धूमादिभिरन्विताः सहिता गगनगाः = ग्रहा जातस्यानिष्टं = प्रतिकूलं फलं कुर्वन्ति । गुलिकयुक्ताः सर्व एव भावाः खेटाश्चानिष्टकरा एव भवन्ति । तथोक्तञ्च—