जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 322, कुल 588 में से
संदर्भ में पढ़ें२६६ सटीकजातकपारिजाते- अथ गण्डान्तताराः । मूलावासवयोधर्मघाभुजगयोः पौष्णाश्वयोः सन्धिजं गण्डान्तं प्रहरप्रमाणमधिकानिष्टप्रदं प्राणिनाम् ॥ ज्येष्ठादानवतारसन्धिघटिका चाभुक्तसंज्ञा भवेत् तन्नाडीप्रभवाङ्गनासुतपशुप्रैष्याः कुलध्वंसकाः ॥ ४५ ॥ उक्तेषु केषुचिन्नक्षत्रेषु केचिद्भागा गण्डान्तशब्देनोच्यन्ते । तेऽत्रोच्यन्ते । मूलावासव- } योर्मूलज्येष्ठयोः, मघाभुजगयोर्मघाश्लेषयोः, पौष्णाश्वयोः = रेवत्यश्विन्योः नक्षत्रयोः सन्धिजं प्रहरप्रमाणं सार्द्धसप्तघटीप्रमाणम् । एतदुक्तं भवति । ज्येष्ठान्ते पादोनं घटिकाचतुष्टयं मूलादौ घटिकाचतुष्टयं पादोनञ्चेति संमिश्रणेन प्रहरप्रमाणं सार्द्धसप्तघटीमितं ( ७।३० ) गण्डान्तं= गण्डान्ताख्यः कालः स्यात् । तद्गण्डान्तं प्राणिनामधिकानिष्टप्रदमत्यशुभदं भवतीति । तथोक्तं गण्डान्तं रामाचार्येण, परं घटिकाचतुष्टयमेव— "ज्येष्ठापौष्णभसार्पभान्त्यघटिकायुग्मं च मूलाश्विनीपित्र्यादौ घटिकाद्वयं निगदितं तद्गस्य गण्डान्तकम्" इति । अथाभुक्तघटिकोच्यते—ज्येष्ठादानवतारयोः = ज्येष्ठामूलनक्षत्रयोः सन्धिघटिका ( ज्येष्ठान्त्यमूलादिभवमेकघटिकात्मकमिति ) अभुक्तसंज्ञा भवेत् । तस्यामभुक्तसंज्ञानाड्यां प्रभवाः = जायमानाः अङ्गनाः = कन्याः, सुताः पुत्राः, पशवश्चतुष्पदाः, प्रैष्याः भृत्याश्च कुल- ध्वंसकाः, अर्थात्स्मिन्कुले जायन्ते तत्कुलस्य नाशका भवन्तीति । अत्राभुक्तघटीविषये मुहू- र्त्तचिन्तामणौ रामाचार्यः- अभुक्तमूलं घटिकाचतुष्टयं ज्येष्ठान्त्यमूलादिभवं हि नारदः । वशिष्ठ एकद्विघटीमितं जगौ बृहस्पतिस्त्वेकघटीप्रमाणकम् ॥ अथोचुरन्ये प्रथमाष्टमीमथो मूलस्य शाक्रान्तिमपञ्चनाड्यः । जातं शिशुं तत्र परित्यजेद्वा मुखं पिताऽस्याष्टसमा न पश्येत् ॥ तन्नाभुक्ते जातस्य दोषशान्त्यै तस्य परित्याग एवोत्कृष्टः पक्षः । अशक्तौ पिता तस्य पुत्रस्य वा कन्याया मुखमष्टवर्षपर्यन्तन्नावलोकयेत् । तथाह नारदः— अभुक्तमूलजं पुत्रं पुत्रीमपि परित्यजेत् । अथवाऽष्टाब्दकं तातस्तन्मुखं न विलोकयेत् ॥ इति॥ मूल-ज्येष्ठाकी, मघा-श्लेषाकी, रेवती-अश्विनीकी सन्धिमें प्रहर प्रमाण पर्यन्त गण्डान्त होता है, यह प्राणियोंको अधिक अनिष्टकारक होता है। ज्येष्ठा-मूलकी सन्धिकी १ घटिका अभुक्तसंज्ञक है। उस अभुक्त नाडीमें उत्पन्न कन्या, पुत्र, पशु और नौकर कुलका नाश करते हैं ॥ ४५ ॥ अथ ज्येष्ठाफलानि । विभक्ता दशभिर्ज्येष्ठानक्षत्राखिलनाडिकाः । आद्यंशे जननीमाता द्वितीये जननीपिता ॥ ४६ ॥ तृतीये जननीभ्राता यदि माता चतुर्थके । पञ्चमे जाततनयः षष्ठे गोत्रविनाशकः ॥ ४७ ॥ सप्तमे चोभयकुलं त्वष्टमे वंशनाशनम् । नवमे श्वशुरं हन्ति सर्वं हन्ति दशांशके ॥ ४८ ॥ भौमवासरयोगेन ज्येष्ठाजा ज्येष्ठसोदरम् । भानुवासरयोगेन मूलजा श्वशुरं हरेत् ॥ ४६ ॥ ज्येष्ठाद्यपादेऽग्रजमाशु हन्याद् द्वित्तीयपादे यदि तत्कनिष्ठम् । तृतीयपादे पितरं निहन्ति स्वयं चतुर्थे मृतिमेति जातः ॥ ५० ॥