जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 323, कुल 588 में से
संदर्भ में पढ़ेंमान्द्यब्दादिफलाध्यायः ॥६॥ २६७ इदानीं ज्येष्ठाresident ज्येष्ठांशनक्षत्रजातानां फजान्यभिदधाति । ज्येष्ठा नक्षत्रस्याखिलनाडिकाः (अभोगकालमितिः) दशाभिर्भक्ताः कार्याः । एवं भोगमानस्य तुल्यदश-खण्डानि जायन्ते । तेषु आद्यंशे = प्रथमे दशांशे जातस्य जाताया वा जननीमाता = मातामही नाशमुपयाति । द्वितीये दशांशे जननीपिता = मातामहः । तृतीये जननीभ्राता = मातुलः । यदि चतुर्थे दशांशे जन्म भवेत्तदा जातस्य माता नाशमियात् । पञ्चमे दशांशे जाततनयो यस्य जन्म भवति स स्वयमेव म्रियते । षष्ठे दशांशे जातो गोत्रविनाशकः = स्ववंशच्छेदको भवति । न तस्मा- त्पुनः सन्ततिरुत्पद्यते । सप्तमे दशांशे जात उभयकुलं = मातृकुलं पितृकुलं च नाशयति । अष्टमे दशांशे तु वंशनाशनं = स्वकीयवंशस्य नाशं कुरुते । नवमे दशांशे जातो हि स्वश्व- शुरं हन्ति । दशमे दशांशके जायमानः सर्वं = स्वकीयं यत्किञ्चिज्जगद्व्यावहारिकं तत्सर्वमेव हन्ति । तथोक्तं भगवता भरद्वाजेन- ज्येष्ठादौ मातृजननीं मातामहं द्वितीयके । तृतीये मातुलं हन्ति चतुर्थे जननीं तथा ॥ आत्मानं पञ्चमे हन्ति षष्ठे गोत्रक्षयो भवेत् । सप्तमे कुलनाशः स्यादष्टमे ज्येष्ठसोदरम् ॥ नवमे श्वशुरं हन्ति सर्वस्वं दशमे तथा ॥ इति ॥ अत्रोक्तं फलं पुत्रकन्ययोर्द्वयोरेव जन्मनि विज्ञेयम् । अथ भौमवासरयोगेन ज्येष्ठाजा = मङ्गलवासरे ज्येष्टानक्षत्रं स्यात्तस्मिन्द्यदि कन्या जायेत तदा ज्येष्ठसोदरं हरेत् । तथा भानुवासरयोगेन मूलजा = रविवासरसहिते मूलनक्षत्रे जाता श्वशुरं हरेत् । अत्र ज्येष्ठसो- दरेण पतिज्येष्ठसोदरमपि विजानीयात् । 'मूलजा श्वशुरं हन्ति व्यालजा च तदङ्गनाम् । ऐन्द्री पत्यग्रजं हन्ति देवरं तु द्विदैवजा' ॥ इति नारदवचनात् ॥ अथ ज्येष्ठानक्षत्रे चरणवशेन जातस्य फलम् । ज्येष्ठानक्षत्रमानं ( अभोगः ) चतु- र्भक्तं चत्वारः पादास्तस्य भवन्ति । तेषु आद्यपादे = प्रथमचरणे जातोऽग्रजं = स्वज्येष्ठमाशु = शीघ्रमेव हन्यात् । यदि ज्येष्ठाद्वितीयपादे जन्म स्यात्तदा तत्कनिष्ठं = जातः स्वकनिष्ठं पश्चाज्जातं हन्यात् । तृतीयपादे जातः स्वपितरं निहन्ति । चतुर्थे तु जातः स्वयमेव मृति- मेति = म्रियते ॥ ४६-५० ॥ ज्येष्ठाकी सम्पूर्ण नाडी दश भागोंमें विभक्त करे, पहले अंशमें उत्पन्न हो तो माताकी माता ( नानी ) का, द्वितीय भागमें माताका पिता ( नाना ) का, तृतीय अंशमें माताका भाई (मामा) का, चौथे अंशमें माताका, पञ्चममें अपना, छठेमें कुलका नाश करे। सातवां अंश दोनों कुलका नाश करता है। आठवां वंश नाश करता है। नवम अंश श्वशुरका संहार करता है, और दशवां अंश सबका संहार करता है ॥ ४६-४८ ॥ ज्येष्ठा नक्षत्र और मङ्गलवारके योगमें उत्पन्न कन्या ज्येष्ठ भाईका नाश करती है। मूल नक्षत्र और सूर्यवार दोनोंके योगमें कन्या श्वशुरका नाश करतो है ॥ ४९ ॥ ज्येष्ठाके आदि चरणमें उत्पन्न ज्येष्ठ भाईका नाश करता है। यदि दूसरे चरणमें पैदा हो तो छोटे भाईका संहार करता है। तीसरे चरणमें उत्पन्न हो तो पिताका नाश करता है, और चौथे चरणमें उत्पन्न हो तो जातक स्वयं मरता है ॥ ५० ॥ अथ मूलफलानि । मूलाद्यपादे पितरं निहन्याद् द्वितीयके मातरमाशु हन्ति । तृतीयजो वित्तविनाशकः स्याच्चतुर्थपादे समुपैति सौख्यम् ॥ ५१ ॥ मूलर्क्षनिखिला नाड्यस्तिथिसङ्ख्याविभाजिताः । आद्ये पिता पितृभ्राता तृतीये भगिनीपतिः ॥ ५२ ॥