भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 339, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 339

मान्द्यब्दादिफलाध्यायः ॥९॥ ३१३ जिसका वृश्चिकके द्वादशांशमें जन्म हो वह मारनेकी इच्छा रखनेवाला, धूर्त्त-चोरोंका स्वामी हो। धनुके द्वादशांशमें उत्पन्न हो तो पिता-देवता-ब्राह्मणका भक्त हो। मकरके द्वादशांशमें जन्म हो तो सख्यादि युक्त और दूतवाला हो। कुम्भके द्वादशांशवाला खल हो। मीनके द्वादशांशवाला धनी, और पण्डित होवे ॥ १२२ ॥ अथ त्रिंशांशफलम् । त्रिंशांशे धरणीसुतस्य चपलः काठिन्यवाक् क्रूरधी- र्मन्दस्याटनतत्परो मलिनधीर्जीवांशके वित्तवान् । सौम्यांशे गुरुदेवभक्तिनिरतः साधुप्रियो बन्धुमान् कामी कान्तवपुः सुखी च भृगुजत्रिंशांशके जायते ॥ १२३ ॥ इदानीं त्रिंशांशफलमुच्यते। तत्काललग्ने यस्य ग्रहस्य त्रिंशांशे जन्म भवेत्तदुक्तं फलं तस्य जातकस्य वाच्यमिति । श्लोकः स्पष्टार्थ एव । होरा-द्रेष्काण-नवांश-द्वादशांश-त्रिं- शांशानां ज्ञानप्रकारस्तु पूर्वमेव दशवर्गनिरूपणे प्रोक्त इति ॥ १२३ ॥ मङ्गलके त्रिंशांशमें जन्म हो तो चपल, कठिन वचन बोलनेवाला, क्रूरबुद्धि हो । शनिके त्रिंशांशमें घूमनेवाला और मलिनबुद्धि हो। वृहस्पतिके त्रिंशांशवाला धनी हो। बुधके त्रिंशांशवाला गुरु-देवभक्तिमें निरत, साधुप्रिय और बन्धुमान् हो। शुक्रके त्रिंशांशमें उत्पन्न हो तो कामी, सुन्दरशरीर और सुखी होवे ॥ १२३ ॥ अथ वेलाफलम् । वाग्मी शिष्टाचारधर्मस्तपस्वी नित्योत्साही निर्मलो दानशीलः । तेजोविचारूपवान् सत्यवादी वीतारातिः सत्त्ववेलाप्रजातः ॥ १२४ ॥ रजोवेलाजातः सुखधनयशोरूपबलवान् जितारातिः कामातुरमतिरबन्धुप्रियमनाः । तमोवेलाजातः परधनवधूको गतसुखः शठस्वामी बन्धुद्विजगुरुविरोधी चपलधीः ॥ १२५ ॥ तमः सत्त्वरजोवेलास्तमः सत्त्वं रजस्तमः । भवन्त्यर्कदिनादीनामर्धयामैरनुक्रमात् ॥ १२६ ॥ इदानीं वेलाफलानुच्यन्ते । तत्र का नाम वेलेत्युच्यते । अर्कदिनादीनां = सूर्यादिवा- सराणामर्द्धयामैरर्द्धप्रहरप्रमितैरनुक्रमात् = क्रमेण तमः, सत्त्वं, रजः, तमः, सत्त्वं, रजः, तमः इति वेला भवन्ति । प्रतिदिनं षोडश षोडश । रविवासरे तम आरभ्य तमः, सत्त्वं, रजः, तमः, सत्त्वं, रज इत्येवं प्रकारेण षोडश । चन्द्रवासरे सत्त्वं, रजः, तमः, सत्त्वमेवं क्रमेण षोडश । एवं प्रतिवारमुक्तक्रमेण ज्ञेयाः । प्रतिखण्डं प्रहरार्द्धमितमेवमष्टप्रहरेषु षोडश भवन्ति । यथा चक्रम्—

वाराः१०१११२१३१४१५१६
रविःतमःसत्त्वरजःत.स.र.त.स.र.त.स.र.त.स.र.त.
चन्द्रःसत्त्वंर.त.स.र.त.स.र.त.स.र.त.स.र.त.स.
मङ्गलःरजःत.स.र.त.स.र.त.स.र.त.स.र.त.स.र.
बुधःत.स.र.त.स.र.त.स.र.त.स.र.त.स.र.त.
वृह.स.र.त.स.र.त.स.र.त.स.र.त.स.र.त.स.
शु.र.त.स.र.त.स.र.त.स.र.त.स.र.त.स.र.
श.त.स.र.त.स.र.त.स.र.त.स.र.त.स.र.त.
जन्मकाले या वेला भवेत्तदुक्तं फलं तस्य वाच्यमिति । फलं सर्वं स्पष्टमेव ॥ १२४-१२६ ॥
२७ जा०