भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 354, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 354

३२८ सटीकजातपारिजाते- लघुतरसमशून्याः प्रत्येकत्रिकोणगतबिन्दुभ्यः शोधिता बिन्दवः भवन्ति एतदुक्तं भवति । प्रत्येकस्य ग्रहस्याष्टकवर्गे कथितेषु चतुर्ष्वपि त्रिकोणेषु प्रत्येकराशित्रये यः सर्वाल्पबिन्दुकः स राशित्रयस्थबिन्दुभ्यः शोध्यः । शेषमिता बिन्दवस्त्रिकोणशोधनजाता भवन्ति । यथा कल्पितोदाहरणे भौमाष्टकवर्गे ( ३-८ श्लो० टी० चक्रं विलोक्यम् ) मेषे बिन्दुत्रयं, सिंहे बिन्दुपञ्चकम् , धनुषि बिन्दुद्वयं वर्त्तते । अत्र स्थानत्रये सर्वाल्पबिन्दु- र्धनुर्गतो द्वितय इति स्थानत्रये शोधिते मेषे एकम् , सिंहे त्रयम् , धनुषि शून्यं चावशिष्ट- म् । अथ वृषे बिन्दुत्रयं, कन्यायां बिन्दुद्वयं, मकरे बिन्दुपञ्चकं विद्यते, अत्र सर्वाल्पं त्रिषु शोधितं तदा वृषे एकम् , कन्यायां शून्यं मकरे बिन्दुत्रयमवशिष्टम् । एवं मिथुने बिन्दुत्रयं, तुलायां पञ्च, कुम्भे त्रयमिति । सर्वाल्पं त्रयं त्रिषु शोधितं मिथुने शून्यं, तुला- यां द्वयं, कुम्भे च शून्यमवशिष्टम् । एवमेव-कर्कटे बिन्दुचतुष्टयं वृश्चिके एकः मीने त्रय- मिति सर्वाल्पं त्रिषु संशोध्य कर्के त्रयं, वृश्चिके शून्यं, मीने बिन्दुद्वयमवशिष्टमिति । एवं भौमाष्टकवर्गे त्रिकोणशोधनेन द्वादशराशौ बिन्दुफलं जातम्—

मे.वृ.मि.क.सिं.कं.तु.वृ.ध.म.कुं.मी.राशयः
बिन्दवः
त्रिकोणशुद्धाबिन्दवः
अथ त्रिकोणशोधने विशेषमाह—प्रत्येकत्रिकोणे सर्वाल्पबिन्दुकं त्रिषु शोधितं तत्सर्वा-
ल्पबिन्दुको बिन्दुरहितो भवति तस्मादितरौ (५।९) अल्पबिन्दुरहितौ शेषबिन्दुकौ भवतः ।
त्रिकोणे ( भावत्रये ) कश्चिदेको यदि शून्यबिन्दुको भवेत्तदा तत्रेतरावपि यथास्थानेवार्थान्
तत्र शून्यमिते सर्वाल्पशोधनेऽविकृत एव भवति, न तदानीं शोधनं कार्यमिति भावः । यदि
स्थानत्रयेऽपि तुल्यसङ्ख्या बिन्दवः स्युस्तदा सर्वं शोधयेत् । तदानीं स्थानत्रयेऽपि शून्य-
मेव भवति, सर्वत्र तुल्यशोधनादिति । तथा पाराशरीये—
त्रिकोणेषु च यन्न्यूनं तत्तुल्यं त्रिषु शोधयेत् ।
एकस्मिन् भवने शून्ये तत् त्रिकोणं न शोधयेत् ॥
समत्वं सर्वगेहेषु सर्वं संशोध्यतेत्तदा ॥ इति ॥ ३६-३८ ॥
पूर्व पश्चिम ५ रेखा और ५ तिरछी रेखा बना