जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 355, कुल 588 में से
संदर्भ में पढ़ेंखेटोपयाते लघुबिन्दुराशौ तत्तुल्यमायान्ति तदन्यसंख्याः । पूर्वं त्रिकोणं परिशोध्य पश्चादेकाधिपत्यस्य ततः प्रकल्प्याः ॥ ४२ ॥ अधुना एकाधिपत्यशोधनविधिमाह—कण्ठीरवमित्यादिभिः । तत्र सूर्यचन्द्रमसावेकै- कराशीशौ । सूर्यः सिंहस्य, चन्द्रः कर्कस्य । अन्ये भौमादयः पञ्च ग्रहा द्विराशिका इति विदां स्फुटमेव । तेषां पञ्च-( कुजादिक ) ग्रहाणां स्वस्वराशियुगले त्रिकोणशोधनानन्तरं यद्यत्फलमवशिष्टं तत्तदेकाधिपत्यशोधनेन शुद्धं कुर्यात् । तत्कथमित्युच्यते । कण्ठीरवं = सिंहं ( सूर्यगृहम् ), कटकभं = कर्कं ( चन्द्रभवनम् ), विना, एतद्राशिद्वयं विहाय, कुजादिकानां पञ्चग्रहाणामावासराशियुगलं ( आत्मभवनद्वयम् ) उपगता यास्त्रिकोणशोधनावशिष्टबिन्दुसङ्- ख्यास्तत्तुल्यशून्याः, विषमाः = वैषम्यमुपगताः, अग्रहाः = ग्रहरहिताः, सग्रहाः = ग्रहसहि- ताः, इत्याद्या-( बिन्दुसङ्ख्याः ) स्तु एकाधिपत्यपरिशोधितशेषिताः स्युः । एतदुक्तं भवति- भौमादेः प्रत्येकग्रहस्य स्वं स्वं राशिद्वयं तुल्यबिन्दुकं विषमबिन्दुकं, सग्रहं ग्रहरहितं वा सर्वं वक्ष्यमाणविधिना शोधनेन शेषितं स्यादिति ॥ शोधनप्रकारमाह—राशिद्वयमिति । राशिद्वयं यदि सद्युचरं = ग्रहयुक्तं स्यात् तदा न शोधयेत्, तत्रैकाधिपत्यशोधनं न कुर्यादिति । यथा पूर्वोदाहरणे वृष-तुले सग्रहेऽत- स्तत्र त्रिकोणशोधनफलमेव क्रमेण १, २ स्थाप्यम् । द्वयोः राश्योर्मध्ये एकं यदि शून्यभं = त्रिकोणशोधनफलरहितं स्यात् तदा तदप्यशोधयेत् । तत्रापि शोधनं न कार्यमुत यथा- स्थितमेव भवतीति । यथा मकरकुम्भयोः, कुम्भः फलहीन इति, तत्रापि मकरे ३, कुम्भे शून्यमेव स्थाप्यम् । फलाधिके खेटयुते परं त्यजेत् । एकत्र राशौ फलमधिकं ग्रहोऽपि भवेदन्धस्तु न्यूनफलं ग्रहरहितं स्यात्तदा तन्न्यूनफलमेव परित्यजेत् । यथा कल्प्यते— मेषवृश्चिकयोः मेषः सग्रहस्तत्र फलं च ४, वृश्चिको ग्रहरहितस्तत्र फलं १, अतस्तत्र वृश्चिकफलं त्याज्यमिति, मेषाधः ४ यथावदेव, वृश्चिकाधः ० स्थाप्यमिति । तुल्यानभोगद्वितयं परित्यजेत् । स्थानद्वयं तुल्यफलकं ग्रहरहितं च भवेत्तदा द्वयमपि परित्यजेदर्थादुभयत्रापि शून्यमेव स्थाप्यम् । यथा मिथुनकन्ये ग्रहरहिते, उभयत्र फलं ०, ० अत उभयत्र शून्य- मेव रक्षितं स्यात् । यदि उभयत्र फलं ३, ३, वा ४, ४, वा २, २, भवेत्तदाऽपि ०, ० एव स्थाप्यमिति ॥ सखेचराखेचरबिन्दुसाम्ये = एको राशिः सग्रहोऽन्यो ग्रहहीन उभयत्र त्रिकोणशोधन- फलं तुल्यं च स्यात्तदा अग्रहबिन्दुसङ्ख्यां विशोधयेत् । सग्रहराशौ यथास्थितं फलं, ग्रहरहिते राशौ शून्यं स्थाप्यमित्यर्थः । विखेटराशिद्वयबिन्दवो ये न्यूनाधिकाः । एको राशिन्यूनफलः, अन्योऽधिकफलः, उभयत्र ग्रहाभावश्च भवेत्तदा, न्यूनसमा विधेयाः = अधिकफलबिन्दुतो न्यूनफलबिन्दवो विशोध्याः । यथा धनुषि फलं ४, मीने फलं १, उभयत्र ग्रहाभावोऽतो धनुषि ३, मीने १, स्थाप्यम् । खेटोपयाते लघुबिन्दुराशौ = एको राशिर्ग्रहयुक्तो लघुबिन्दुकश्च भवेत्तस्मिन् , तदन्य- सङ्ख्याः = अन्यराशिसङ्ख्याः = अन्यो राशिः फलाधिको ग्रहहीनश्च स्यात्तदा तत्सङ्ख्याः, तत्तुल्यमायान्ति = लघुबिन्दुसङ्ख्यातुल्यमूनत्वं यान्ति । यथा कल्प्यते वृषो ग्रहयुक्त ऊन २ फलकश्च, तुला ग्रहरहिता फलाधिका ५ चातो विशोधनेन वृषाधः २, तुलाधः ३, फलं स्थाप्यमिति । अथैतदेकाधिपत्यशोधनं त्रिकोणशोधनानन्तरं कुर्यादित्याह—पूर्वमिति । प्रथमं त्रिकोणं परिशोध्य ततः पश्चात् एकाधिपत्यस्य शोधनाः प्रकल्प्याः । एतत्त्रिकोणैकाधि-