जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
खेटोपयाते लघुबिन्दुराशौ तत्तुल्यमायान्ति तदन्यसंख्याः । पूर्वं त्रिकोणं परिशोध्य पश्चादेकाधिपत्यस्य ततः प्रकल्प्याः ॥ ४२ ॥ अधुना एकाधिपत्यशोधनविधिमाह—कण्ठीरवमित्यादिभिः । तत्र सूर्यचन्द्रमसावेकै- कराशीशौ । सूर्यः सिंहस्य, चन्द्रः कर्कस्य । अन्ये भौमादयः पञ्च ग्रहा द्विराशिका इति विदां स्फुटमेव । तेषां पञ्च-( कुजादिक ) ग्रहाणां स्वस्वराशियुगले त्रिकोणशोधनानन्तरं यद्यत्फलमवशिष्टं तत्तदेकाधिपत्यशोधनेन शुद्धं कुर्यात् । तत्कथमित्युच्यते । कण्ठीरवं = सिंहं ( सूर्यगृहम् ), कटकभं = कर्कं ( चन्द्रभवनम् ), विना, एतद्राशिद्वयं विहाय, कुजादिकानां पञ्चग्रहाणामावासराशियुगलं ( आत्मभवनद्वयम् ) उपगता यास्त्रिकोणशोधनावशिष्टबिन्दुसङ्- ख्यास्तत्तुल्यशून्याः, विषमाः = वैषम्यमुपगताः, अग्रहाः = ग्रहरहिताः, सग्रहाः = ग्रहसहि- ताः, इत्याद्या-( बिन्दुसङ्ख्याः ) स्तु एकाधिपत्यपरिशोधितशेषिताः स्युः । एतदुक्तं भवति- भौमादेः प्रत्येकग्रहस्य स्वं स्वं राशिद्वयं तुल्यबिन्दुकं विषमबिन्दुकं, सग्रहं ग्रहरहितं वा सर्वं वक्ष्यमाणविधिना शोधनेन शेषितं स्यादिति ॥ शोधनप्रकारमाह—राशिद्वयमिति । राशिद्वयं यदि सद्युचरं = ग्रहयुक्तं स्यात् तदा न शोधयेत्, तत्रैकाधिपत्यशोधनं न कुर्यादिति । यथा पूर्वोदाहरणे वृष-तुले सग्रहेऽत- स्तत्र त्रिकोणशोधनफलमेव क्रमेण १, २ स्थाप्यम् । द्वयोः राश्योर्मध्ये एकं यदि शून्यभं = त्रिकोणशोधनफलरहितं स्यात् तदा तदप्यशोधयेत् । तत्रापि शोधनं न कार्यमुत यथा- स्थितमेव भवतीति । यथा मकरकुम्भयोः, कुम्भः फलहीन इति, तत्रापि मकरे ३, कुम्भे शून्यमेव स्थाप्यम् । फलाधिके खेटयुते परं त्यजेत् । एकत्र राशौ फलमधिकं ग्रहोऽपि भवेदन्धस्तु न्यूनफलं ग्रहरहितं स्यात्तदा तन्न्यूनफलमेव परित्यजेत् । यथा कल्प्यते— मेषवृश्चिकयोः मेषः सग्रहस्तत्र फलं च ४, वृश्चिको ग्रहरहितस्तत्र फलं १, अतस्तत्र वृश्चिकफलं त्याज्यमिति, मेषाधः ४ यथावदेव, वृश्चिकाधः ० स्थाप्यमिति । तुल्यानभोगद्वितयं परित्यजेत् । स्थानद्वयं तुल्यफलकं ग्रहरहितं च भवेत्तदा द्वयमपि परित्यजेदर्थादुभयत्रापि शून्यमेव स्थाप्यम् । यथा मिथुनकन्ये ग्रहरहिते, उभयत्र फलं ०, ० अत उभयत्र शून्य- मेव रक्षितं स्यात् । यदि उभयत्र फलं ३, ३, वा ४, ४, वा २, २, भवेत्तदाऽपि ०, ० एव स्थाप्यमिति ॥ सखेचराखेचरबिन्दुसाम्ये = एको राशिः सग्रहोऽन्यो ग्रहहीन उभयत्र त्रिकोणशोधन- फलं तुल्यं च स्यात्तदा अग्रहबिन्दुसङ्ख्यां विशोधयेत् । सग्रहराशौ यथास्थितं फलं, ग्रहरहिते राशौ शून्यं स्थाप्यमित्यर्थः । विखेटराशिद्वयबिन्दवो ये न्यूनाधिकाः । एको राशिन्यूनफलः, अन्योऽधिकफलः, उभयत्र ग्रहाभावश्च भवेत्तदा, न्यूनसमा विधेयाः = अधिकफलबिन्दुतो न्यूनफलबिन्दवो विशोध्याः । यथा धनुषि फलं ४, मीने फलं १, उभयत्र ग्रहाभावोऽतो धनुषि ३, मीने १, स्थाप्यम् । खेटोपयाते लघुबिन्दुराशौ = एको राशिर्ग्रहयुक्तो लघुबिन्दुकश्च भवेत्तस्मिन् , तदन्य- सङ्ख्याः = अन्यराशिसङ्ख्याः = अन्यो राशिः फलाधिको ग्रहहीनश्च स्यात्तदा तत्सङ्ख्याः, तत्तुल्यमायान्ति = लघुबिन्दुसङ्ख्यातुल्यमूनत्वं यान्ति । यथा कल्प्यते वृषो ग्रहयुक्त ऊन २ फलकश्च, तुला ग्रहरहिता फलाधिका ५ चातो विशोधनेन वृषाधः २, तुलाधः ३, फलं स्थाप्यमिति । अथैतदेकाधिपत्यशोधनं त्रिकोणशोधनानन्तरं कुर्यादित्याह—पूर्वमिति । प्रथमं त्रिकोणं परिशोध्य ततः पश्चात् एकाधिपत्यस्य शोधनाः प्रकल्प्याः । एतत्त्रिकोणैकाधि-
३३० सटीकजातकपारिजाते- पत्यशोधनानन्तरमष्टकवर्गः शुद्धो भवतीति चिन्त्यम् । एवमेवाह पराशर एकाधिपत्य- शोधनम्— एवं त्रिकोणं संशोध्य पश्चादेकाधिपत्यता । क्षेत्रद्वयं फलानि स्युस्तदा संशोषयेद् बुधः ॥ क्षीणेन सह चान्यस्मिन् शोधयेद्ग्रहवर्जिते । ग्रहयुक्ते फले हीने ग्रहाभावे फलाधिके ॥ अनेन सह चान्यस्मिन् शोधयेद्ग्रहवर्जिते । फलाधिके ग्रहैर्युक्ते चान्यस्मिन् सर्वमुत्सृजेत् ॥ उभयोर्ग्रहसंयुक्ते न संशोध्यः कदाचन । उभयोर्ग्रहहीनाभ्यां समत्वे सकलं त्यजेत् ॥ समग्रहाग्रहतुल्यत्वात् सर्वं संशोध्यमग्रहात । कुलीरसिंहयो राश्योः पृथक्क्षेत्रं पृथक् फलम् ॥ बारह राशिमें सिंह और कर्क राशिके एक २ स्वामी है, अन्य १० राशियोंमें दो दो राशिके एक २ स्वामी हैं। अतः सिंह कर्कके अतिरिक्त राशि मंगलादि ग्रहोंकी राशि हैं। एक ग्रह की दो दो जो राशि हैं उन में दोनों राशिकी बिन्दुसंख्या उसके समान शून्य विषम अग्रह सहग्रहादि को एकाधिपत्य शोधनकर शोषित करे ॥ ३९ ॥ दोनों राशिमें ग्रह हों तो शोधन नहीं करे। यदि दोनोंमें एक राशि फलरहित हो तो भी शोधन न करे। यदि एकराशिमें अधिक फल और ग्रह भी हो तो दूसरेका फल उसमें घटावे। यदि दोनोंमें फल बराबर और ग्रह नहीं हों तो दोनोंको घटावे, दोनोंको शून्य कर दे ॥ ४० ॥ एक राशिमें ग्रह हो दूसरी राशि ग्रहहीन हो दोनोंमें फल बराबर हो तो ग्रहहीन राशिको शून्य बनावे। यदि दोनों राशि ग्रह हीन और न्यूनाधिक बिन्दुवाली हों तो न्यूनके समान अधिकमें से घटावे ॥ ४१ ॥ एकराशिमें थोड़े फल और ग्रह भी हो दूसरीमें अधिक फल और ग्रह न हो तो थोड़े फलके बराबर अधिक फलमें घटावे। पहले त्रिकोण शोधन करके पीछे एकाधिपत्य शोधन करे ॥ ४२ ॥ Notes—पूर्वोदाहतभौमाष्टकवर्गे त्रिकोणशोधनावशेषमेव फलमेकाधिपत्यशोधनादपि भवतीति विविच्य प्रतीतिः कर्त्तव्या ॥ ३६-४२ ॥ भौमाष्टकवर्गोदाहरणम् ।
+-------------------------------------------------------------+
| ११ | | ९ | |
| ०००।।।। | मं. १० | ००।।।।।। | ८ |
| १२ ल. | ०००००।।। | | ०।।।।।।|
| ०००।।।। | | | |
| शु. \ | / | \ | |
|----------\-------+------/--------+---------\-------+--------|
| \ १ सू. / \ ७ श. / |
| \ ०००।।।। / \०००००।।/ |
| \ / \ / |
| \ / ४ बृ. \ / ६ |
| २ बु. चं. \ / ००००।।।। \ / ००।।।।।।|
| ०००।।।। \ / X |
| \/ / \ |
| \ ३ / \ ५ |
| \ ०००।।।। / \०००००।।|
| \ / \ |
+-------------------------------------------------------------+
त्रिकोणैकाधिपत्यशोधनोदाहरणम् ।
| राशयः | मे. | वृ. | मि. | क. | सिं. | कं. | तु. | वृ. | ध. | म. | कु. | मी. |
|---|---|---|---|---|---|---|---|---|---|---|---|---|
| ग्रहाः | सू. | बु. चं. | • | बृ. | • | • | श. | • | • | मं. | • | ल. शु. |
| बिन्दवः | ३ | ३ | ३ | ४ | ५ | २ | ५ | १ | २ | ५ | ३ | ३ |
| त्रि. शो. वि. | १ | १ | ० | ३ | ३ | ० | २ | ० | ० | ३ | ० | २ |
| ए.अ.शो.वि. | १ | १ | ० | ३ | ३ | ० | २ | ० | ० | ३ | ० | २ |
अष्टकवर्गाध्यायः ॥ १० ॥ ३३१ शोध्यावशिष्टानि गुणीकृतानि मेषादिमानैर्गुणकं हि भानाम् । सूर्यादिकास्ते गुणिताः स्वमानैरेषां ग्रहाणां गुणकं वदन्ति ॥ ४३ ॥ शैलाशावसुसागराम्बरशरैः शैलाहिगोसायकै- रीशद्वादशभिश्च राशिगुणकैर्मेषादिभानां क्रमात् । बाणैः पञ्चभिरष्टकैः शरनभःशैलेषुभिर्भास्वरा- देवं व्योमतलाधिवासगुणकैरायुर्विधानोदितैः ॥ ४४ ॥ इदानीं गुणकपिण्डं गुणकाङ्कांश्चाह—शोध्यावशिष्टानीति । त्रिकोणैकाधिपत्यशोधना- च्छेषफलानि, मेषादिमानैः = मेषादिराशीनां यानि पृथक्पृथक् मानानि ( गुणकाङ्काः ) पठितानि तैः, गुणीकृतानि = गुणितानि, तदा तद्गुणनफलैक्यं, भानां = राशीनां हि गुणकं वदन्ति । एवं प्रत्येकस्य ग्रहस्याष्टकवर्गे राशीनां गुणकपिण्ड उत्पद्यते । ग्रहगुणकपिण्डमाह— सूर्यादिका ग्रहास्ते स्वमानैः गुणिताः । अत्रेदं चिन्त्यम् । सूर्यादयो ग्रहा यत्र यत्र राशौ भवेयुस्तत्तद्राशेरधःस्था ये शोध्यावशेषाङ्कास्ते सूर्यादीनां स्वस्वगुणकमानैर्गुणिताः कार्याः । तेषां योगो ग्रहगुणकपिण्डो जायते । अथ राशीनां गुणकाङ्काः—मे ० = ७ । वृ ० = १० । मि ० = ८ । क ० = ४ । सिं ० = १० । कं ० = ५ । तु ० = ७ । वृ ० = ८ । ध ० = ९ । म ० = ५ । कुं ० = ११ । मी ० = १२ । ग्रहाणां गुणकाङ्काः—सू ० = ५ । चं ० = ५ । मं ० = ८ । बु ० = ५ । वृ ० = १० । शु ० = ७ । श ० = ५ । एवमाह पराशरः— शोध्यावशेषं संस्थाप्य राशिमानेन वर्द्धयेत् । ग्रहयुक्तेऽपि तद्राशौ ग्रहमानेन वर्द्धयेत् ॥ गोसिंहौ दशगुणितौ वसुभिर्मिथुनालिनौ । वणिङ्मेषौ तु मुनिभिः कन्यकामकरौ शरैः ॥ शेषाः स्वमानगुणिता राशिमाना इमे क्रमात् । जीवारशुकसौम्यानां दशवसुमुनीन्द्रियैः क्रमाद् गुणकाः । बुधस्य सङ्ख्या शेषाणां ग्रहगुणंर्गुणयेत पृथक् कार्याः ॥ अथ राशिगुणकोदाहरणम्—प्रदर्शितोदाहृतौ मेषाधःफलं १, मेषगुणेन ७ गुणितं जातं = ७ । वृषाधः फलं १, वृषगुण-१० गुणितं जातं = १० । एवं कर्के ३ × ४ = १२ । सिंहे ३ × १० = ३० । तुलायां २ × ७ = १४ । मकरे ३ × ५ = १५ । मीने २ × १२ = २४ । एषामैक्यं ( ७ + १० + १२ + ३० + १४ + १५ + २४ = ) राशि- गुणकपिण्डः = ११२ । एवं सूर्यो मेषे, मेषस्य फलं १, सूर्यगुणेन ५ गुणितं जातम् = ५ । चन्द्रो वृषे, वृष- फलं १, चन्द्रगुणेन ५ गुणितं = ५ । भौमो मकरे, मकरफलं ३, भौमगुणेन ८ गुणितं = २४ । बुधो वृषे वृषफलं १ बुधगुणेन ५ गुणितं = ५ । गुरुः कर्कटे, कर्कफलं ३, गुरुगुणेन १० गुणितं = ३० । शुक्रो मीने, मीनफलं २, शुक्रगुणेन ७ गुणितं = १४ । शनिस्तुलायां, तुलाफलं २, शनिगुणेन ५ गुणितं = १० । एषां योगः ( ५ + ५ + २४ + ५ + ३० + १४ + १० = ) ग्रहगुणकपिण्डः = ६३ । अथ राशिग्रहगुणकैक्यम् = ११२ + ९३ = २०५ = योगपिण्ड इति भौमाष्टकवर्गे जातं पिण्डमानम् = २०५ । एवमेव सर्वेषामष्टकवर्गे पिण्डानयनं कार्यमिति ॥ ४३-४४ ॥ शोधन करने पर जो शेष फल हों उन्हें मेष आदि राशिके गुणकसे गुणे, उनका योग
३३२ सटीकजातकपारिजाते- राशिगुणक पिण्ड होता है। एवं ग्रहोंको भी अपने २ गुणकसे गुणे उनका योग ग्रहगुणक पिण्ड होता है। यहां गुणकों को कहते हैं- मेषादि राशियोंके गुणक क्रमसे ७।१०।८।४।१०।५।७।८।९।५।११।१२ हैं। सूर्यादि ग्रहोंके ५।५।८।५।१०।७।५ ये क्रमसे आयु साधनार्थ गुणक हैं ॥ ४४ ॥ तद्राशिखेटगुणकैक्यफलानि हृत्वा त्रिंशद्द्भिरब्दचयमासदिनादिकाः स्युः । तद्द्वादशाधिकसमा यदि राशिमानैराहत्य तत्समतयाऽनुहरेत्तदायुः ॥ ४५ ॥ इदानीं ग्रहाणामष्टकवर्गशुद्धायुरानयनमाह—तदिति । तद्राशिखेटगुणकैक्यफलानि = पूर्वप्रदर्शितानां राशिगुणपिण्डानां ग्रहगुणपिण्डानाञ्चैक्यफलानि (योगपिण्डमानानीति यावत्) त्रिंशद्भिः (३०) हृत्वा = भक्त्वा, फलम् अब्दचयमासदिनादिकाः = वर्ष-मास-दिन-नाडी- प्रभृतयो भवेयुः । तत्र वर्षमाने द्वादशाधिके सति राशिमानैर्द्वादशभिराहत्य विभज्य, तत्सम- तया = लब्धमितवर्षैस्तत्तद्ग्रहाणामष्टकवर्गजनितमायुर्व्यवह्रियते । यथा हि—प्रदर्शितोदाहरणे योगपिण्डः २०५, त्रिंशद्भक्तो जातं वर्षादिकमायुः = २०५÷३० = ६ व., १० मा. । एवं सर्वेषां पिण्डमानादायुरानयेमिति ॥ ४५ ॥ राशि गुणपिण्ड-ग्रहगुणपिण्डोंके योगमें ३० से भाग देनेसे वर्ष, मास, दिन होंगे। वर्ष १२ से अधिक हो तो १२ से भाग देकर शेष वर्ष ग्रहण करने चाहियें। वही उस ग्रहकी आयु होगी ॥ ४५ ॥ उच्चं गतस्य द्विगुणं तदीयं नीचं गतस्यास्तगतस्य चार्द्धम् । अतोऽन्तराले त्वनुपात्यमायुरारस्य वक्रे द्विगुणीकृतं स्यात् ॥ ४६ ॥ मूलत्रिकोणनिजमित्रगृहोपगानां तुङ्गादिवर्गशुभयोगनिरीक्षितानाम् । उक्तप्रकारगणितागममायुरेव पापारिवर्गसहितस्य त्रिपादमायुः ॥ ४७ ॥ इदानीं गणितागतायुषि वैशिष्ट्यमाह—उच्चमिति । उच्चं = स्वकीयोच्चराशिं गतस्य ग्रहस्य, तदीयं = तस्य गणितागतं यदायुस्तद् द्विगुणं कुर्यादिति शेषः । नीचं गतस्य सूर्येण सहास्तं गतस्य च ग्रहस्य अर्द्धमायुः क्षीयतेऽर्द्धमेवावशिष्टं भवति । अतोऽन्तराले त्वनुपा- तमायुरिति । उच्चे द्विगुणं नीचेऽर्द्धमिति राशिषट्के आयुषोऽर्द्धस्य त्रिगुणितस्य चयापचयौ भवतस्तदा नीचादुच्चाद्वाऽभीष्टान्तरे विद्यमाने ग्रहे आयुषः कियानुपचयोऽपचयो वा भवे- दित्यनुपातेनायुषः स्पष्टीकरणं स्यादिति । आरस्य = भौमस्य, वक्रे = विलोमगमने, द्विगुणी- कृतं तदायुः ग्राह्यमिति । ये ग्रहाः स्वकीयमूलत्रिकोणे, स्वमित्रगृहे, स्वोच्चादिवर्गे वा स्थिता भवेयुस्तथा शुभ- ग्रहेण युक्ता निरीक्षिताश्च भवेयुस्तेषामुक्तप्रकारगणितागतमेवायुर्ग्राह्यम् । न तेषामायुषि चया- पचयौ कुर्यादित्यर्थः । अथ च यो ग्रहः पापग्रहस्य शत्रुग्रहस्य वा वर्गगतो भवति तस्य त्रिपादमायुः=पादेन ( चतुर्थांशेन ) रहितं=चतुर्थांशोनं गणितागतायुर्ग्राह्यमिति ॥४६-४७॥ उच्च राशिमें ग्रह हो तो दूनी, नीचराशिमें हो वा अस्त हो तो आधी आयु होती है। इसके बीच में अनुपात द्वारा आयु निश्चय करे, मंगल वक्री हो तो आयु को दूनी करे ॥४६॥ मूल त्रिकोण, अपनी उच्च राशि, अपने गृहमें प्राप्त ग्रहोंकी और उच्चादि वर्ग शुभ दृष्ट ग्रहोंकी उक्त प्रकारसे गणित की हुई आयु होती है। पापादि वर्गमें स्थित ग्रहकी चतुर्थांशोन आयु होती है ॥ ४७ ॥ रविमुख्यनभोगदत्तसंख्याः परमायुः शरदस्तु मानवानाम् ॥ सविलग्नसमाश्च केचिदाहुर्गुरुमूलात्समुपैति तुल्यमायुः ॥ ४८ ॥ इदानीमष्टवर्गसिद्धं परमायुःप्रमाणमाह—रवीति । रविमुख्याः सूर्यादयो ये नभोगा ग्रहास्तैर्दत्तसंख्याः, शरदः = वर्षाणि, मानवानां परमायुर्भवति । अष्टकवर्गवशात्सूर्यादिसप्त-
अष्टकवर्गाध्यायः ॥ १०॥ ३५३ ग्रहाणां यदायुःप्रमाणं सिद्ध्यति तदेव परमायुर्भवति जातकस्येति । अत्र केचिदाचार्याः ( पराशरादयः ) लघ्निलमसमाः = लग्नायुर्वर्षसहिताः सूर्यादिग्रहायुर्वर्षसङ्ख्याः परमायुर्भवती- त्याहुः । तदुक्तं ( पराशरोक्तं ) लग्नशुभस्थानम्— १. आर्किज्ञशुक्रगुरुवाराः, २. सौम्यदेवेज्यभार्गवाः । ३. हित्वा सौम्यगुरू शेषाः, ४. सूर्येज्यभृगुसूर्यजाः ॥ ५. तथा जीवभृगू बुद्धौ, ६. सर्वे शुक्नं विना क्षते । ७. जीव एफस्तथा द्यूने, ८. मृतौ सौम्यभृगू तथा ॥ ९. धर्मे गुरुक्षितौ, सर्वे १०. खे चाये, ११. शुक्रमन्तरा । १२. सूर्यचन्द्रौ तथा रिष्फे स्थानं लग्नस्य कीर्त्तितम् ॥ प्रथमादिद्वादशभावे उक्तानां ग्रहाणामवस्थितौ लग्नस्य बिन्दवो ( शुभचिह्नानि ) जायन्ते । तन् उक्तवल्लग्नायुरप्यानेयमिति । तल्लग्नायुर्वर्षसहितं सूर्यादिसप्तग्रहायुर्मानं पर- मायुरुक्तम् । अथ सर्वत्रैव गुरुमूलात् = गुरु महन्मूलमानयनप्रकारो यस्य तस्माद् बृहद् ( सूक्ष्म ) गणितप्रकारेणेति यावत्, यदायुः सिद्ध्यति तत्तुल्यमायुः जातः समुपैतीति ॥ ४८॥
अथ लग्नाष्टवर्गस्थानचक्रम्
| भावाः | १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ |
|---|---|---|---|---|---|---|---|---|---|---|---|---|
| सू. | ० | ० | ० | ० | ० | ० | ||||||
| चं. | ० | ० | ० | ० | ० | |||||||
| मं. | ० | ० | ० | ० | ० | |||||||
| बु. | ० | ० | ० | ० | ० | ० | ० | |||||
| बृ. | ० | ० | ० | ० | ० | ० | ० | ० | ||||
| शु. | ० | ० | ० | ० | ० | ० | ० | |||||
| श. | ० | ० | ० | ० | ० | ० | ||||||
| ल. | ० | ० | ० | ० |
सूर्यादि ग्रहोंकी आयुःसंख्याके योग तुल्य मनुष्योंकी परमायु होती है। किसीका मत है कि उसमें लग्नायुको भी जोड़नी चाहिये । यहां निष्कर्ष यह है कि सूक्ष्म गणितसे जो आयु हो वही लेनी चाहिये ॥ ४८ ॥ केन्द्रादन्यगते चन्द्रे सखेढे चाष्टवर्गजम् । आयुरेव नभःस्थाने शुभपापयुतेऽथवा ॥ ४६ ॥ इदानीमष्टवर्गायुर्ग्रहणस्थितिमाह - केन्द्रादिति । चन्द्रे केन्द्रा ( १।४।७।१० ) दन्य- गते सखेढे = केनचित्कैश्चिद्वा ग्रहेण ग्रहैर्वा सहिते च अष्टवर्गवशाज्जातमेवायुर्ग्राह्यम् । एतदुक्तं भवति । यस्य जन्मकाले चन्द्रः केन्द्रगतो न भवेद्ग्रहयुक्तश्चान्यत्र स्थितः स्यात्तदा तस्य जातस्याष्टकवर्गायुुरेव ग्रहीतव्यम् । अथवा नभः स्थाने = लग्नाद्दशमे गृहे शुभपापयुते = शुभपापग्रहाभ्यां सहिते अष्टवर्गजमेवायुः साध्यम् । उक्तलक्षणद्व- येऽन्यतरस्य प्राप्तौ अष्टवर्गजमायुरेव ग्राह्यमर्याद्वैतयोरभावेऽन्यदायुः साधनप्रकारोक्त- मायुः ग्राह्यमिति ॥ ४९ ॥ ग्रह सहित चन्द्रमा केन्द्रातिरिक्त स्थानमें हो, अथवा दशम भाव पापग्रह शुभ ग्रहसे युक्त हो तो वही ( अष्टवर्गायु ) आयु ग्राह्य है ॥ ४९ ॥ रव्यादिखेटात्स्थितराशियाताः स्वकीयवर्गोपगबिन्दुसंख्याः । वेधाष्टवर्गप्रभवायुरब्दा भवन्ति सर्वे हरणक्रियाश्च ॥ ५० ॥
३६४ सटीकजातकपारिजाते- रव्यादयो ग्रहा यत्र यत्र स्थिता भवन्ति तत्तद्राशियातास्तेषां स्वस्वाष्टवर्गोपगता बिन्दुसङ्ख्याः यास्ताभ्यः सर्वे वेधाष्टवर्गप्रभवायुरब्दाः (भिन्नाष्टवर्गजनितायुर्वर्षाणि) हरणक्रियाश्च पूर्ववद्भवन्ति ॥ ५० ॥ सूर्य आदि ग्रह जिस २ राशिमें हों उस २ राशिमें उसके अष्टवर्ग वाले जितने बिन्दु हों उनके भिन्नाष्टवर्गोत्पन्न आयु और सभी हरण क्रियायें पूर्ववत् होती हैं ॥ ५० ॥ तत्तत्कारकभावबिन्दुगुणितं शोध्यावशिष्टं फलं विंशत्या सह सप्तभिश्च विहृतं तच्छेषताराशनौ । तातस्तज्जननी सहोदरजनो बन्धुः सुतः स्त्री स्वयं तत्तुल्या विलयं प्रयान्ति विपुलश्रीनाशहेतुश्च वा ॥ ५१ ॥ इति भिन्नाष्टवर्गः । इदानीम् अष्टकवर्गवशाच्छनिकर्तृकानिष्टनक्षत्राण्याह-तत्तदिति। शोध्यावशिष्टम्=अष्ट- वर्गे त्रिकोणेकाधिपत्यशोधनाच्छेषं फलं तत्तत्कारकभावबिन्दुगुणितं = यस्य यस्य भावस्य विचारः क्रियते तत्तद्भावस्य यो यो ग्रहः कारकस्तत्तद्भावस्थिते भावे यद्विन्दुफलं तेन गुणितं कार्यम् । यथा पितृभावस्य विचारे समुपस्थिते पितृकारकः सूर्यः, अतः सूर्याष्टक- वर्गे शोध्यावशेषं यत् फलं तत् सूर्यान्नवमभावगतबिन्दुमानेन गुणितं कार्यमिति । तत् विंशत्या सह सप्तभिरर्थात्सप्तविंशति(२७)भिः विहृतं = भक्तं, तच्छेषताराशनौ = शेषमिते नक्षत्रे गतवति शनैश्चरे-तातः, तज्जननी, सहोदरजनः, बन्धुः, सुतः, स्त्री, स्वयंश्च विलयं प्रयान्ति = म्रियन्ते । अर्थात्सूर्यात्तातः = जातस्य पिता । चन्द्राज्जननी = जातस्य माता । भौमात्सहोदरः । बुधाद्वन्धुः = मित्रम् । गुरोः सुतः । शुक्रात्स्त्री । शनेः जातः स्वयमेव नाश- म्रियात् । अथवा तत्तुल्याः = पितृतुल्यः, मातृतुल्यः, भ्रातृतुल्य इत्यादिः म्रियते । वा तेषां मरणाभावे विपुलश्रीनाशहेतुर्भवति । उदाहरणम्-उक्तोदाहरणे भ्रातृविचारे कर्तव्ये भ्रातृकारको भौमो मकरे विद्यते तस्य शोध्यावशिष्टं फलम्=१५। भौमात्तृतीये मीने फलं = २ । अतः तयोः १५, २ गुणनफले- ३० ऽस्मिन्सप्तविंशतिभक्ते शेषं=३ कृत्तिकानक्षत्रगतः कृत्तिकागते शनैश्चरे तस्य भ्रातुर्भ्रातृ- तुल्यस्य वा नाशं ब्रूयादेवं सर्वत्र विचिन्त्यमिति ॥ ५१ ॥ जिसका विचार करना हो उसके कारकसे उतनी राशिमें जो बिन्दु हो उससे उस कारकके शोधनावशेष बिन्दुको गुणकर २७ से भाग लेने पर जो शेष हो उसमें जब शनि हो तो क्रमसे उसके पिता-माता-भाई-बन्धु-पुत्र-स्त्री और स्वयं नाशको प्राप्त होते हैं, विपुल लक्ष्मीका भी वही नाश होनेका कारण है ॥ ५१ ॥ इति भिन्नाष्टकवर्गः । -:००:००:- अथ समुदायाष्टकवर्गः । ततः समालिख्य भूगोलचक्रं समस्तबिन्दुस्थितराशिकोष्ठम् । रव्यादिकानामजपूर्वकाणां बिन्दूपगस्थानफलं वदामि ॥ ५२ ॥ आपञ्चविंशति फलान्यफलान्यसत्यमात्रिशदक्षसहितानि सममध्यमानि । त्रिंशत्पराणि सुखवित्तयशस्कराणि तद्भाववृद्धिफलदानि च समुदाये ॥ ५३ ॥ इदानीं समुदायाष्टकवर्गं सफलमाह-तत इत्यादिभिरेकविंशतिभिः श्लोकैः । तत्र तावत् पूर्वोक्तप्रकारैः प्रतिराशि प्रत्येकस्य ग्रहस्याष्टकवर्गे प्रसाध्य शुभाशुभबिन्दुरेखात्मकं ज्ञानं कृत्वा तत्सङ्कलनमेव पृथक् पृथक् ग्रहस्य सर्वाष्टकवर्गजातं ( समुदायाष्टकवर्गोत्पन्नम् )
शुभमशुभं वा विजानीयादिति । तदेव तावदुच्यते । सर्वेषामेव ग्रहाणां पृथक् पृथक् भगोलचक्रं = अष्टकवर्गविचारणीयकोष्ठकं समालिख्य ततोऽनन्तरं समस्तबिन्दुस्थितराशि- कोष्ठं = प्रत्येकग्रहस्य प्रतिराशि बिन्दुसङ्ख्यामवगम्य च तेषां पृथक् पृथगुच्यमानं फलं विजानीयात् । अथ च रव्यादिकानां = सूर्यादिसप्तग्रहाणां ( सलग्नानाम् ) अजपूर्वकाणां = मेषादीनां द्वादशराशीनां विन्दूपगस्थानफलं = सर्वेषां ग्रहाणां द्वादशसु राशिषु ये बिन्द- वस्तेषां फलं वदामि । समुदाये = समुद्रायाष्टकवर्गे आपञ्चविंशतिफलानि = सर्वाष्टकवर्गजाता बिन्दवो यदि पञ्चविंशतिमिताः स्युस्तदा तानि अफलानि = असत्फलानीति । त्रिंशदक्षसहितानि = पञ्चविंशतिमारभ्य त्रिंशद्यावत् बिन्दवः, समध्यमनि = मध्यफलानीति । त्रिंशत्पराणि = त्रिंशद्भ्योऽधिका बिन्दवश्चेत् तदा तानि सुखवित्तयशस्कराणि = उत्तमफलकानि भवन्ति, तद्भाववृद्धिफलदानि च = यद्भावसम्बन्धिनस्ते बिन्दवस्तद्भावस्य पोषकाश्च भवन्तीति । Notes—जन्मकाले यो ग्रहो यद्भावे स्थितो यद्भावकारको वा भवति तस्य भावस्य शुभाशुभं फलमुक्तप्रकारेण ग्रहाष्टकवर्गोत्पन्नबलाबलवशाद्विविच्यं तदेव सूक्ष्मं स्यादिति५२-५३ फिर भगोल चक्रको अच्छे प्रकारसे लिखकर सूर्यादि ग्रहोंका, मेषादि राशियोंका समस्त बिन्दुस्थिति राशि कोष्ठ बिन्दु प्राप्त फलको कहता हूं ॥ ५२ ॥ समुदायाष्टवर्गमें एकसे २५ तक बिन्दु अफल असत्य हैं २५ से ३० पर्यन्त ५ मध्यम हैं, ३० के बाद सुख-वित्त-यश करने वाले उस भावकी वृद्धि फल देते हैं ॥ ५३ ॥ इदानीमष्टकवर्गवशाच्छुभस्थानादिगता अप्यशुभा अशुभस्थानगता अपि शुभदा- भवन्तीत्याह— ये तुङ्गराशिश्वसुहृद्गृहस्था ये कोणकेन्द्रोपचयस्थिताश्च । ये सौम्यवर्गादिवलोपयातास्ते नाशदा लाघवबिन्दुकाश्वेत् ॥ ५४ ॥ ये चावसानरिपुरन्ध्रतुरङ्गभानां ये नीचपापरिपूखेचरवर्गयुक्ताः । ये मान्दिराशिप॑तिना सह बोधकाश्च ते सर्वमुख्यफलदास्त्वधिबिन्दुकाश्वेत् ॥ ५५ ॥ ये तुङ्गराशीति । ये ग्रहाः, स्वस्वतुङ्गराशिगताः, स्वमित्रराशिगताः केन्द्रे ( १।४।७। १० ) वा कोणे ( ५।९ ) स्थिताश्च भवेयुः, अपि च शुभवर्गादिगता बलशालिनश्च भवेयु- स्तेऽपि चेद्यदि अष्टकवर्गे लाघवबिन्दुकाः = अल्पशुभचिह्नकाः स्युस्तदा ते नाशदाः = अशुभफलदा एव भवन्ति । अथ ये ग्रहाः अवसाने = द्वादशे, रिपौ = षष्ठे, रन्ध्रे = अष्टमे, तुरङ्गे = सप्तमे भावे वा स्थिता भवेयुः, ये च नीचराशौ, पापग्रहस्य-शत्रुग्रहस्य च वर्ग- गता भवेयुरपि च ये गुलिकराशीशेन सह स्थिताः तत्सम्बन्धिनश्च भवेयुस्तेऽपि यदि अष्टक- वर्गे अधिबिन्दुकाः = अधिकशुभचिह्नकाः स्युस्तदा ते सर्वमुख्यफलदाः = निखिलशुभफल- सूचका भवन्ति । अत्रैतदुक्तं भवति । अष्टकवर्गे शुभा अशुभा अपि ग्रहा यदि अधिक- बिन्दुयुक्ताः स्युस्तदा शुभफलदा लघुबिन्दुका अशुभफलदा भवन्ति । न तत्र केवलं शुभा- शुभपरत्वेन शुभाशुभं फलं भवतीति विज्ञेयम् ॥ ५४-५५ ॥ जो उच्च राशि-मित्रगृही और जो। केन्द्र, कोण, उपचयमें स्थित हैं जो शुभवर्गमें हैं बलवान् हैं वे भी थोड़ी बिन्दुओंसे नाशक हैं ॥ ५४ ॥ जो ग्रह नीच पापग्रहके वर्गमें युक्त हों जो गुलिक राशिके स्वामीके साथ हों वे विशेष 23 बिन्दुके हों तो सब कालमें फलके देनेवाले हैं ॥ ५५ ॥
३३६ सटीकजातकपारिजाते- इदानीं सर्वाष्टकवर्गे केषुचिद् भावेषु शुभस्थितिमाह— मानस्थिताल्लाभगृहे बहुत्वे लाभाल्लघुत्वे यदि रिष्फराशौ । रिष्फोपयातादधिके विलग्ने जातः सुखी वित्तयशोबलाढ्यः ॥ ५६ ॥ मानस्थितादिति । मानस्थितात्=दशमभावस्थबिन्दुमानात् लाभगृहे=एकादशे भावे बहुत्वे ( दशमभावापेक्षया लाभभावे यद्यधिका बिन्दुसङ्ख्या भवेत्तदेति ), लाभात्=एका- दशभावतः रिष्फराशौ = द्वादशे भावे लघुत्वे = अल्पमानके, तथा च रिष्फोपयातात् = द्वादशभावगतबिन्दुमानात् विलग्ने अधिके सति जातः सदा सुखी, वित्तवान्, यशस्वी, बली च भवेदिति । तथोक्तमपि बलभद्रेण— “मध्यात् फलाधिके लाभे लाभात् क्षीणतरे व्यये । यस्य व्ययाधिके लग्ने भोगवानर्थवान् भवेत्” इति ॥ ५६ ॥ दशममें स्थित विन्दुसे लाभगृहमें बहुत हो, लाभसे बारहवेंमें कम हों, बारहवेंसे विशेष लग्नमें हो तो जातक सुखी, यश-धनसे बली हो ॥ ५६ ॥ इदानीं भावानां खण्डत्रयपरिकल्पनया वयसः प्रथमे-मध्य-चरमे त्र्यंशे शुभाशुभ- फलमाह— खण्डत्रयं शफरकर्कटकीटकाद्यं तत्तच्चतुष्टयगृहोपगबिन्दुयुक्तम् । आद्यं च मध्यमवसानमिति प्रयुक्तं केचिद्व्ययादिकमिति प्रवदन्ति लोके ॥५७॥ खण्डत्रयमिति । शफरकर्कटकीटकाद्यं = मीन-कर्क-वृश्चिकाद्यं खण्डत्रयं कृत्वा तत्त- च्चतुष्टयगृहोपगबिन्दुयुक्तं = तत्तद्राशिचतुष्कमुपगता ये समुदायाष्टकवर्गबिन्दवस्तत्सङ्कलनं, क्रमेण आद्यम्, मध्यम्, अवसानं च खण्डमाद्यैः प्रयुक्तम् । एतदुक्तं भवति । मीनादि- राशिचतुष्के ( मी. मे. वृष. मि. ) प्रथमखण्डोपगबिन्दुसंख्याम् आद्यसंज्ञाम् । कर्कादि- राशिचतुष्के ( क. सिं. कं. तु. ) द्वितीयखण्डोपगबिन्दुसङ्ख्यां मध्यसंज्ञाम् । वृश्चिकादि- राशिचतुष्के ( वृश्चि. ध. म. कु. ) तृतीयखण्डोपगबिन्दुसंख्याम् अन्त्यसंज्ञां प्रकल्य तस्माद्वयसः प्रथमादित्र्यंशे शुभाशुभफलं निर्दिशेत् । यस्मिन्भागेऽधिकबिन्दवो भवन्ति तत्र वयसि सुखादिकमधिकमेवं यस्मिन् भागेऽल्पबिन्दवस्तत्र वयसि दुःखादिकं वाच्यमिति । तथाहि जातकादर्शे— मीनेन्द्वालयवृश्चिकप्रभृतिकं खण्डत्रयं कल्पये- द्यांऽक्षाधिकतादिमे तु वयसस्त्र्यंशे विदध्यात्सुखम् । मध्ये मध्यवयस्यथान्तिमवयस्त्र्यंशेऽन्त्यखण्डे हि सा हीनांक्षस्तु वयस्त्रिभाग इह योऽत्र व्याधिदुःखोद्भवः ॥ इति । केचिदिति । व्ययादिकम् = द्वादशभावादिकमुक्तक्रमेण खण्डत्रयं भवतीति केचिदपरे आचार्याः लोके प्रवदन्ति । अर्थात् द्वादश-प्रथम-द्वितीय-तृतीयांत प्रथमम्, चतुर्थ- पञ्चम-षष्ठ-सप्तमेति द्वितीयम् , अष्टम-नवम-दशम-लाभेति तृतीयं खण्डं केषांचिन्मते विज्ञेयमिति ॥ ५७ ॥ तीन खण्ड हैं मीनसे चार राशिका एक खण्ड, कर्कसे चार राशिका दूसरा खण्ड और वृश्चिकसे चार राशिका तीसरा खण्ड । एक खण्डका बिन्दु योग करे । उन खण्डोंको आदि, मध्य, अन्त्य खण्ड कहते हैं। कोई व्ययादिक खण्ड कहते हैं ॥ ५७ ॥ इदानीं पूर्वोक्तखण्डत्रये केषांचिन्मते भेदमाह— बिन्दुं त्यक्त्वा रिष्फरन्ध्रोपयातं शिष्टं खण्डं केचिदिच्छन्ति सन्तः । तुल्यस्वल्पाधिक्यबिन्दुक्रमेण मिश्रं दुःखं संपदः स्युर्नराणाम् ॥ ५८ ॥
अष्टकवर्गाध्यायः ।।१०।। ३३७ बिन्दुमिति । केचिदपरे सन्तः=विद्वांसः पूर्व-( ५७ तमश्लोके ) परिभाषितखण्डत्र- ये रिष्फरन्ध्रोपयातं=द्वादशेऽष्टमे च भावे स्थितं बिन्दुं त्यक्त्वा शिष्टम्=उर्वरितं खण्डं प्रथमं, द्वितीयं, तृतीयं च इच्छन्ति = स्वीकुर्वन्ति । इदं विचिन्त्यम् । केचिद् व्ययादिकमि- त्युक्तप्रकारे अष्टमो द्वादशो भावो यत्र यत्र खण्डे निपतति तत्र तत्राष्टमोपगता द्वादशो- पगताश्च बिन्दवो न ग्राह्या इति । परमेतन्न वैद्यनाथाभिमतं केचिदिति पदोपादानात् । अथ सिद्धबिन्दुवशात्फलमाह—तुल्येति । प्रथमादि-खण्डत्रये यदि तुल्या एव बि- न्दवो भवेयुस्तदा निखिले वयसि मिश्रं ( सुखदुःखादिकं ) फलं वाच्यम् । यत्र खण्डे स्वल्पाः=अत्यल्पा बिन्दवो भवेयुस्तत्र वयसि दुःखं = कष्टादिकं विनिर्दिशेत् । यत्र खण्डे अधिका बिन्दवो भवेयुस्तत्र वयसि नराणां=जनिमतां सम्पदः=सुखैश्वर्याणि विनिर्दिशेत् ॥५८॥ बारहवें आठवेंमें प्राप्त बिन्दुका त्याग करे ऐसा कोई २ सन्त कहे हैं, तुल्य, स्वल्प, अधिक बिन्दुके क्रमसे मिश्रफल, दुःख तथा धन होते हैं । तुल्य बिन्दुमें मिश्र फल, अल्प- बिन्दुमें दुःख, अधिक बिन्दुमें धन ॥ ५८ ॥ इदानीं पूर्वोक्तखण्डत्रये ग्रहयोगफलमाह— सौम्याक्रान्तं यदि सुखकरं मिश्रदं मिश्रयोगं खण्डं पापद्युचरसहितं क्लेशयोगाकरं स्यात् । बिन्दुस्वल्पे यदि निजमनस्तापवान् पापवादी बिन्दाधिक्ये वयसि विपुलः श्रीसमेतः प्रजातः ॥ ५६ ॥ सौम्याक्रान्तमिति । सौम्याक्रान्तं = शुभग्रहसंयुक्तं खण्डं यदि स्यात्तदा जातस्य खण्ड- समे वयसि सुखकरं भवति । मिश्रयोगं = पापेन शुभेन च संयुक्तं खण्डं मिश्रदं = शुभं, अशुभं च फलं करोति तत्तुल्ये वयसि । पापद्युचरसहितं = केवलं पापग्रहेण युक्तं खण्डं तत्तुल्ये वयसि जातस्य क्लेशयोगाकरं = अतीव दुःखजनकं भवति । अथ बिन्दुपरत्वेन खण्डफलमाह—बिन्दुस्वल्प इति । यदि खण्डे बिन्दुस्वल्पे = अ- त्यल्पबिन्दुयुक्ते सति तत्तुल्ये वयसिभागे जातो निजमनस्तापवान्, पापवादी च भवेत् । बिन्दाधिक्ये वयसि = यत्र खण्डे अधिकबिन्दवः स्युस्तत्तुल्ये वयसि प्रजातो विपुलश्रीसमेतः = अतीव सम्पदादियुक्तो भवेदिति ॥ ५९ ॥ यदि शुभग्रहसे आक्रान्त ( युक्त ) हो तो शुभफल देनेवाला, मिश्रित ग्रहसे आक्रान्त हो तो मिश्र फल देनेवाला, पापग्रहसे युक्त हो तो क्लेशप्रद होये । यदि थोड़ी बिन्दु हो तो अपने मनको ताप पहुंचाने वाला पापी हो, अधिक बिन्दुमें अधिक अवस्थामें विद्वान्, अधिक लक्ष्मीवान् होवे ॥ ५९ ॥ इदानीं कस्मिंश्चिद्विशिष्टयोगे सति लग्नगतबिन्दुसंख्याफलमाह— यावद्बिन्दुर्लग्नगस्तावदीयसङ्ख्यातीते वत्सरे राजयानम् । वित्तं पुत्रं चातिविद्यामुपैति जातः सम्पद्योगशाली नरश्चेत् ॥ ६० ॥ यावदिति । लग्नराशौ यावन्तः सर्वाष्टकवर्गजाता बिन्दवो भवेयुस्तत्तुल्येऽतीते वत्सरे= बिन्दुसङ्ख्यामितगताब्दे जातो नरो राजयानम्, वित्तम्, पुत्रम्, अतिविद्यां च उपैति प्राप्नोति । चेद्यदि स जातः सम्पद्योगशाली नरः स्यात् = तस्य जन्मकाले यदि कश्चित् सुखादिविशिष्टो योगः स्यात्तदैव । नान्यथा केवलं लग्नगतबिन्दुवशादुक्तव्यमिति भावः ॥६०॥ जितने बिन्दु लग्नमें हों उतने उसके वर्ष बीतने पर राज यान ( सवारी ) प्राप्त हो । धन, पुत्र, विशेष विद्या प्राप्त होती है यदि वह मनुष्य संपत्ति योग वाला हो तो ॥ ६० ॥ २५ जा०
३३८ सटीकजातकपारिजाते- इदानीं योगविशिष्टे आयुःप्रमाणमाह- रिःफाधीशे मन्दगेहोदयस्थे होरारन्ध्रस्वामिनौ दुर्बलौ च । लग्ने यावद्विन्दुसंख्यास्तदीया जातस्यायुर्वत्सराः सम्भवन्ति ॥ ६१ ॥ रिःफाधीश इति । रिःफाधीशो द्वादशेशस्तस्मिन् मन्दगेहोदयस्थे = मकरकुम्भान्य- तरराशिलग्ने व्यवस्थिते ( मकरः कुम्भो वा लग्नं तस्मिन् द्वादशेशः स्यादिति ) होरार- न्ध्रस्वामिनौ = लग्नेशाष्टमेशौ च दुर्बलौ भवेतां तदाऽस्मिन् योगे लग्ने यावन्तः सर्वाष्टक- वर्गजा बिन्दवः स्युस्तत्सङ्ख्यास्तस्य जातस्यायुर्वत्सराः सम्भवन्ति । उक्तलक्षणे योगे लग्ने यावन्तो बिन्दवस्तावन्ति वर्षाणि बातको जीवतीति भावः । Notes—अत्र मन्दगेहोदये रिःफाधीशो गुरुः शनिरपि भवितुमर्हः । मकरलग्ने गुरु रिःफेशः, कुम्भोदये शनिरेव रिःफेशः । तथा लग्नेशो हि शनिरेव । अष्टमेशः सूर्यः, बुधश्च भवितुमर्ह इति विविच्यम् । परञ्च कुम्भो राशि शनेर्मूलत्रिकोणमतो मन्यते ‘मन्द- गेहोदये’ इत्यत्र मकरराशिलग्नमेव ग्राह्यम् । तदा लग्नेशः शनिः, अष्टमेशः सूर्यः, रिःफेशो गुरुः स्यादिति ॥ ६१ ॥ द्वादश भावका स्वामी शनिकी राशिमें हो, और लग्न अष्टमका स्वामी निर्बल हों तो लग्नमें जितनी बिन्दु हों उतने वर्षकी जातककी आयु होती है ॥ ६१ ॥ इदानीं ग्रहयोगवशाद्विन्दुफलान्याह- यानाधीशे लग्नगे वाहनस्थे लग्नाधीशे तद्ग्रहोपेतराश्योः । त्रिंशत्संख्या बिन्दवः सत्रयस्त्रिंशज्जाता राजश्रीनिदाना नरेशाः ॥ ६२ ॥ यानाधीश इति । यानाधीशे = चतुर्थभावेशे लग्नगे, लग्नाधीशे = लग्नस्वामिनि वाह- नस्थे = चतुर्थभावमुपगते सति तद्ग्रहोपेतराश्योः = लग्नचतुर्थभावयोः यदि सत्रयस्त्रिंश- त्सङ्ख्याः ३३ बिन्दवश्चेद्वेवेयुस्तदा ते जाता नरा राजश्रीनिदानाः = राजैश्वर्यप्रधाना नरेशाः = भूपाला भवन्ति । अत्रेदमुक्तं भवति । लग्नेशश्चतुर्थे, चतुर्थेशो लग्ने च भवे- त्तथा लग्नचतुर्थभावयोर्योगबिन्दवस्त्रयस्त्रिंश ३३ न्मिताः स्युस्तदा जातो विविधसम्प- द्युतो भवतीति ॥ ६२ ॥ चतुर्थका स्वामी लग्नमें और लग्नेश चतुर्थमें हो तो उन दोनों राशिमें यदि ३३ बिन्दु हों तो राजलक्ष्मीयुक्त राजा होवे ॥ ६२ ॥ होराबन्धुप्राप्तिभावत्रयेषु त्रिंशन्मानाधिक्यबिन्दूपगेषु । जातस्तेजःश्रीबहुत्वं च राज्यं चत्वारिंशद्वत्सरादूर्ध्वमेति ॥ ६३ ॥ होरेति । होरा = लग्नम्, बन्धुः = चतुर्थभावः, प्राप्तिः = एकादशभावः इत्येषु भाव- त्रयेषु त्रिंशन्मानाधिक्यविन्दूपगेषु = प्रथम-चतुर्थ-लाभभावानां समुदायाष्टकवर्गबिन्दवो मिलिता यदि त्रिंशदधिकाः स्युस्तदा जातो नरः चत्वारिंशद्वत्सरादूर्ध्वं तेजः, श्रीबहुत्वं राज्यं च एति = प्राप्नोति । अस्मिंल्लक्षणे जातो ४० चत्वारिंशद्वर्षादूर्ध्वं भाग्यवान् भवतीति भावः ॥ ६३ ॥ लग्न चतुर्थ लाभ इन तीन स्थानमें तीससे अधिक बिन्दु हों तो जातक तेजस्वी, बहुत बड़ा धनी हो और उसको ४० वर्षके ऊपर राज्य मिले ॥ ६३ ॥ यत्पञ्चविंशतिमुखास्त्रिदशान्तसंख्या बन्धुस्थिता नवमराशिकबिन्दवश्च । यद्यष्टकेन सह विंशतिवत्सराणामन्ते परे शरदि वा नरवाहनाढ्यः ॥ ६४ ॥ यदिति । यदि बन्धुस्थिताः = चतुर्थभावगताः, नवमराशिकबिन्दवश्च सम्मिलिता पञ्चविंशतिमुखाः = पञ्चविंशतिमारभ्य त्रिदशान्तसङ्ख्याः = त्रिः दश त्रिगुणिता दश अन्त-
सङ्ख्या येषां, त्रिंशदित्यर्थः । एतदुक्तं भवति । चतुर्थनवमभावयोः, समुदायकबिन्दवो यदि पञ्चविंशति-त्रिंशदन्तर्गता भवेयुस्तदा अष्टकेन सह विंशतिवत्सराणामष्टाविंशतिवर्षा- णामन्ते वा ततः परे शरदि = वर्षे जातो नरः नरवाहनाढ्यो भवेत् ॥ ६४ ॥ यदि २५ से ३० तक बिन्दु संख्या चतुर्थ और नवम राशिमें हों तो २८ वर्षके बाद वह मनुष्य नरवाहन (तामदान या पालकी) से युक्त हो अर्थात् यात्रा करे ॥ ६४ ॥ देवाचार्ये वाहनस्थे स्वतुङ्गे चत्वारिंशद्विन्दुसङ्ख्यासमेते । मेषागारे लग्ने वास्रेशे जातो राजा लक्षसंख्याश्वनाथः ॥ ६५ ॥ देवाचार्य इति । देवाचार्यों गुरुस्तस्मिन् वाहनस्थे = चतुर्थभावमुपगते स्वतुङ्गे = निजो- च्चराशौ (कर्क) विद्यमाने, तत्र च चत्वारिंशद्विन्दुसङ्ख्या-४० समेते, अपि च वास- रेशे = सूर्ये मेषागारे लग्नगे = मेषराशिलग्ने व्यवस्थिते सति जातो राजा, लक्षसङ्ख्याश्व- नाथः = लक्षघोटकपतिश्च भवेत् ॥ ६५ ॥ अपनी उच्च ४ राशिके बृहस्पति चतुर्थ स्थानमें ४० बिन्दुसे युक्त हो, सूर्य मेष राशिमें लग्न पर हो तो वह मनुष्य राजा हो तथा लक्ष घोड़ोंको अपने पास रक्खे ॥ ६५ ॥ चत्वारिंशद्विन्दुयुक्ते विलग्ने चापे जीवे भार्गवे मीनराशौ । स्वोच्चे भौमे कुम्भगे भानुपुत्रे जातः सर्वश्रीधरः सार्वभौमः ॥ ६६ ॥ चत्वारिंशदिति । विलग्ने=जन्मकालीनलग्ने ( यत्तद्राशिलग्ने ) चत्वारिंशद्विन्दुयुक्ते, जीवे = बृहस्पतौ चापे = धनुराशौ (स्वमूलत्रिकोणे ) भार्गवे=शुक्रे मीनराशौ ( स्वोच्चे ), भौमे = मङ्गले स्वोच्चे = मकरराशौ, भानुपुत्रे = शनैश्चरे कुम्भगे = स्वमूलत्रिकोणे च गतवति जातः सर्वश्रीधरः = विविधसम्पदैश्वर्ययुक्तः सार्वभौमः = चक्रवर्त्ती राजा स्यात् ॥ ६६ ॥ चालिस बिन्दुसे युक्त लग्न हो, धनुमें गुरु, मीनमें शुक्र हो, अपने उच्च स्थानमें मङ्गल और कुम्भ राशिमें शनि हो तो जातक सर्व लक्ष्मीसे युक्त सार्वभौम राजा होवे ॥ ६६ ॥ क्रियादिराशित्रितयोपयाता भवन्ति पूर्वादिचतुर्दिशश्च । फलाधिकं यद्दिशि तत्प्रदेशे धनादिवृद्धिं समुपैति जातः ॥ ६७ ॥ क्रियादीति । क्रियो मेषस्तदादिराशित्रितयमुपगता पूर्वादिचतुर्दिशो भवन्ति । एव- दुक्तं भवति । मेष-वृष-मिथुनाः पूर्वे, कर्क-सिंह-कन्या याम्ये, तुला-वृश्चिक-धनुर्धराः प्रतीच्यां, मकर-कुम्भ-मीना उदीच्यामवगम्याः । प्रयोजनमुच्यते फलाधिकमिति । यद्दिशि फलाधिकं भवेदर्थात् समुदायाष्टकवर्गवशादुक्तचतुर्दिशां मध्ये यद्दिशि सर्वाधिक- बिन्दवो भवेयुस्तत्प्रदेशे = तद्दिग्भागे धनादिवृद्धिं जातो नरः समुपैति । एतदुक्तवि- धिना दिक्फलं विविच्य धनादिवृद्धिमिच्छुता पुरुषेण तद्दिशि प्रयतितव्यम् ॥ ६७ ॥ मेषादि तीन २ राशिमें पूर्बादि चारो दिशासं (मे० वृ० मि० में पूर्व, कर्क सिंह कन्यामें दक्षिण, तु० वृ० ध० में पश्चिम, म० कु० मी० में उत्तर) अधिक बिन्दुवाली राशिकी दिशामें धनादिकी वृद्धि होती है ॥ ६७ ॥ इदानीं रोगज्ञानमाह- लग्नादिशून्यन्तगतं तुरङ्गैः सङ्गुण्य ताराहृतलब्धयाते । रव्यादिपापे यदि कोणगे वा रोगादिपीडाविपुलं नराणाम् ॥ ६८ ॥ मन्दादिलग्नान्तफलं च तद्वल्लग्नान्तमारादुदयात्कुजान्तम् । शुभैक्यसंख्यागततारकायां शुभग्रहे सौख्यफलं वदन्ति ॥ ६६ ॥ लग्नादीति । लग्नादिशून्यन्तगतं = लग्नराशिमारभ्य शनिस्थितराशिपर्यन्तं ये सर्वाष्टकवर्गजातबिन्दवस्तान् तुरङ्गैः = सप्तभिः सङ्गुण्य ततस्ताराहृतलब्धयाते = तारा नक्षत्राणि (सप्तविंशतिः) तैर्हृते यल्लब्धं तावन्मिते नक्षत्रमुपगते रव्यादिपापे = रविभौ-
३४० सटीकजातकपारिजाते- मशनीनामन्यतमे वा कोण- (५।९) गे ग्रहे सति अत्रेदं विचिन्त्यम्। लग्नमारभ्य शनिपर्यन्तेषु राशिषु यावन्तो बिन्दवस्तान् सप्तभिः सङ्गुण्य सप्तविंशतिभिर्भागमहरेत्तदा यल्लुब्धं तावन्मिते नक्षत्रे यदि रविर्भौमो वा शनिः (पापग्रहः) अथवा कोणस्थितः कश्चिद्ग्रहो भवेत्तदा, नराणां विपुला = महती रोगादिपीडा स्यादिति मूलशब्दार्थः । अथात्र मन्त्रेश्वरेण लब्धतुल्यगताब्दे तथोक्तम्— लग्नात्प्रभृतिमन्दान्तमेकीकृत्य फलानि वै । सप्तभिर्गुणयेत्पश्चात् सप्तविंशहतात्फलम् ॥ तत्समानगते वर्षे दुःखं वा रोगमाप्नुयात् एवं मन्दादिलग्नान्तं भौमराहोस्तथा फलम् ॥ इति ॥६८॥ मन्दादीति । मन्दं=शनिमारभ्य लग्नान्तं यावद्राशिषु फलं=समुदायाष्टकबिन्दु- सङ्ख्या, वा आरात् = मङ्गलात् लग्नान्तमथवा, उदया॑त् = लग्नात् कुजान्तं फलं तद्वत् सप्तभिः सङ्गुण्य सप्तविंशतिभिः २७ भक्तं कृत्वा लब्धमिते नक्षत्रे रव्यादिपापे गतवति तद्वत्=रोगादिपीडा वाच्या । अथ च शुभैक्यसङ्ख्यागततारकायां—शुभग्रहाणां यावन्तो बिन्दवस्तेषामैक्यवशाद्य- क्तव्यता तारा, अर्थात् लग्नादितो मन्दान्तगतं मन्दादितो लग्नान्तगतमित्यादि यथा प्रदर्शितं तथैव लग्नादिशुभग्रहान्तं फलं सप्तभिः सङ्गुण्य सप्तविंशतिभिः भक्तं कुर्यात्, लब्धमिते नक्षत्रे गतवति शुभग्रहे सौख्यफलं ब्रूयादिति । अत्रापि लब्धतुल्ये वर्षे तत्तदुक्तं फलमुक्तं जातकादेशकारेण । तथा तद्वचनम्— लग्नादारभ्य सूर्यात्मजगतभवनाक्षान्तमेकत्र युक्त्वा ७ २७ सुध्ने तस्मिन् सुखाप्ते गतवति फलतुल्याब्दके रोगशोकाः । मन्दादालग्नमेवं क्षितिसुतगभावाच्चादिलग्नं विलग्ना- दाभौमं त्वेति कृत्वा विधिमशुभमतिर्बादिशोचोदिताब्दे ॥ इति ॥ अत एव श्लोकद्वयेऽपि तदुक्तलक्षणे लब्धसंख्यामिते गताब्दे तत्तदुक्तं शुभाशुभ- फलं वाच्यमिति सिद्धान्तः ॥ ६९ ॥ लग्नसे शनि पर्यन्तकी बिन्दुसंख्याको ७ से गुणाकर २७ के भाग देनेसे जो लब्धि प्राप्त हो उसमें सूर्यादि पापग्रह या कोणस्थ ग्रह प्राप्त हो तो मनुष्योंको बड़ी रोगादि पीड़ा हो ॥६८॥ शनिसे लग्नान्त जो फल उसी प्रकार मङ्गलसे लग्न पर्यन्त तथा लग्नसे मङ्गल पर्यन्त विचारे । शुभ संख्याकी एकत्रताकी संख्यामें शुभग्रह सौख्य फल देनेवाले हैं, ऐसा आचार्य कहते हैं ॥ ६९ ॥ शोध्यं राशिषुचरणगुणकैः संगुणय्यैतदैक्यं हत्वा शैलैरुडुगणहृतं लब्धमब्दादिकं स्यात् । मानाधिक्ये विशातमशते तारकायुर्वराङ्गैः सङ्गुण्याप्तं दिवसनिचयैर्भानुभिः शुद्धमायुः ॥ ७० ॥ शोध्यमिति । शोध्यं = त्रिकोणैकाधिपत्यशोधनजातं फलं राशेषु चरस्य (ग्रहस्य) च गुणकैः ४४ श्लोकोक्तैः सङ्गुण्य (तत्तद्ग्रहस्य पृथक् पृथगिति) एतेषामैक्यं विधाय तच्छैलैः ७ हत्वा (संगुण्य) उडुगणैः २७ हतं = भक्तं सद्यल्लब्धं तदब्दादिकं = वर्षा- दिकं स्यात् । तस्मिन् वर्षादौ मानाधिक्ये = शताधिक्ये समागते सति तद्विशतं = शतोर्न्नितं कार्यं, अशते = शताल्पे सति तदेव ग्राह्यं, तद्देतारकायुः = नक्षत्रायुः कथ्यते । अथ तदायुः वराङ्गैः = ३२४ भिः हत्वा = सङ्गुण्य, दिवसनिचयैः दिनसमूहैः (वर्षान्तःपातिभिः)
मातुलैः = ३६५ प्रमितैः भक्तं कुर्यात् तदा लब्धं शुद्धं आयुः स्यात् । एतद्धि शुद्धाष्टक- वर्गजनितं ज्ञेयमिति । अत्र यदुक्तं मानाधिक्ये विशतमिति तदाह जातकादेशकारः— अष्टवर्गं समुद्धृत्य ग्रहाणां राशिवमण्डले । प्राग्वत् त्रिकोणं संशोध्य पश्चादेकाधिपत्यताम् ॥ एकस्मिन् मण्डलाधिक्यं शोधयेच्चक्रमण्डलम् । द्वादशैव तु गृह्णीयादेवं सर्वेषु राशिषु ॥ पूर्वोक्तं गुणकारैस्तु वर्धयेच्च पृथक् पृथक् । एकीकृत्य ततः सर्वं सप्तभिर्गुणयेत् पुनः । सप्तविंशतिहृल्लव्धं आयुःपिण्डं प्रदृश्यते । द्वादशादिगुणाल्लव्धं मासादिघटिकास्ततः ॥ शतादूर्ध्वं तु तत्पिण्डं मण्डलं शोधयेच्च तम् । शतमेव तु गृह्णीयाद्दीर्घायुर्योगसम्भवे ॥ तद्विधं सकलं कृत्वा वराङ्गेन ३२४ विवर्धितम् । मातङ्ग-३६५ हतलब्धायुर्मातङ्गाब्दं प्रदृश्यते ॥ अत्राष्टकवर्गे शतमेवोत्तमायुर्गृहीतमित्यवगन्तव्यम् ॥ ७० ॥ शुद्धावशेष बिन्दुको राशि ग्रहके गुणकसे गुणाकरके ७ से गुणे फिर २७ का भाग देने से जो फल मिले वह वर्षादि होता है । शताधिक्य होने पर १०० में शोधकर वरांग ३२४ से गुणाकर मातंग ३६५ से भाग देने पर शुद्ध आयु होती है ॥ ७० ॥ इदानीं साधितमायुः कदा यथात्वमुपयातीत्याह— स्वल्पमध्यबहुमानवत्सरा मण्डलोनयुतकर्मकल्पिताः । तुल्यकालमुपयान्ति सर्वतः सद्गुणोदयकटाक्षवीक्षणात् ॥ ७१ ॥ स्वल्पेति । उक्तप्रकारैः साधिताः स्वल्पमध्यबहुमानवत्सराः = अल्पायुर्मध्यायुर्दीर्घायुषां वर्षभेदाः मण्डलोनयुतकर्मकल्पिताः ( मानाधिक्येत्यादिकर्मकृताः ) सद्गुणोदयकटाक्षवी- क्षणात्=सद्गुणविशिष्टानां ग्रहाणामुदये लग्ने यत् कटाक्षवीक्षणम्=सदवलोकनं तस्मादर्थात् यदि लग्ने सद्गुणयुक्तानां ग्रहाणां दृष्टिः स्यात्तदा सर्वतो भावेन तुल्यकालमुपयान्ति । यदि लग्ने सद्ग्रहाणां दृष्टिर्न स्यात्तदा तदागतमायुर्न याथातथ्येन परिणमतीति भावः ॥७१॥ लग्नमें सद्गुण ग्रहकी कटाक्षदृष्टिसे स्वल्प मध्य बहुवत्सर मण्डलमें हीन युत कर्म- कल्पनासे सब तरहसे समान समय आते हैं ॥ ७१ ॥ श्रीवैद्यनाथकृतजातकपारिजाते पराशरादिफलसाररसोपयाते । प्रस्तारभिन्नसमुदायकबिन्दुशीलः संकीर्तितस्तु सकलद्युचरप्रसादात् ॥ ७२ ॥ इति दशमोऽध्यायः । सरलार्थेन श्लोकेनानेनाध्यायमुपसंहरतीति ॥ ७२ ॥ पारिजाते सुधा टीका कपिलेश्वरनिर्मिता । दशमे चाष्टवर्गाख्येऽध्यायेऽस्मिन् पूर्णतां गता ॥ १० ॥ पराशर आदि मुनियोंके ग्रन्थके फलके सार भागसे उत्पन्न श्रीवैद्यनाथजी कृत जातक- पारिजातमें सब ग्रहोंकी कृपासे अष्टवर्गके प्रस्तारके भेदोंका वर्णन किया ॥ ७२ ॥ इति जातकपारिजाते दशमेऽध्याये 'विमला' हिन्दी टीका समाप्ता ॥ १० ॥
" anything else? Wait, why does L5 look like "तत्तद्भावोद्भव्वानि"? Because in Sanskrit grammar, after 'र्' or in some styles, double consonants are written: no, 'द्भव' has no 'र्'. Wait, look at L5 and L9: Does it say "तत्तद्भावोद्भव्वानि" or "तत्तद्भावोद्भूतानि" or "तत्तद्भावोद्भवानि"? Let's look at the image of L5 again, very closely at the pixel level: त (ta) त्त (tta) द्भा (dbhā) वो (vo) द्भू (dbhū) or द्भ (dbha) Wait, look at the letter between वो and नि: Wait, look at the word: तत्तद्भावोद्भव्वानि? Wait, there is: द् (d) भा (bhā) वो (vo) द् (d) भ (bha) va? Wait, look at L5: तत्तद्भावोद्भव्वानि Wait, is that a 'व' with another 'व'? No, look at L5: "तत्तद्भावोद्भव्वानि" - wait, look at L9: "तत्तद्भावोद्भव्वानि" - wait, in L9 it's spelled the EXACT same way! Wait, look at the letter: Could
प्रथमद्वितीयभावफलाध्यायः ॥११॥ ३४३ यद्भावनाथो रिपुरिफ्फरन्ध्रे दुःस्थानपो यद्भवनेस्थितस्तु । तद्भावनाशं कथयन्ति तज्ज्ञाः शुभेक्षितश्चेत् फलमन्यथा स्यात् ॥४॥ यदिति । यस्य भावस्य स्वामी, रिपुरिफ्फरन्ध्रे = षष्ठद्वादशाष्टमानामन्यतमे भवति, वा दुःस्थानपः = षष्ठद्व्ययेशानामन्यतमो ग्रहो यस्मिन् भवने ( भावे ) स्थितो भवति, तस्य भावस्य नाशं तज्ज्ञाः = तद्विदः ( भावफलवेत्तारः ) कथयन्ति । अथ चेदसौ भावः केनचित् कैश्चिद्वा शुभग्रहेण शुभग्रहैर्वा ईक्षितः = निरीक्षितः स्यात् तदा फले अन्यथाऽर्था- त्तद्भावनाशो न स्यादुत तद्भाववृद्धिरेव वाच्येति ॥ ४ ॥ जिस भावका स्वामी षष्ठ, द्वादश या अष्टम स्थानमें प्राप्त हो, एवं दुःस्थान (६।८।१२) का स्वामी जिस भावमें हो उस भावका नाश होता है ऐसा विद्वान् लोग कहते हैं। यदि उसे शुभग्रह देखते हों तो अन्यथा फल होता है अर्थात् उस भावका नाश नहीं होता है ॥ ४ ॥ यद्भावपे केन्द्रगते विलग्नात्त्रिकोणगे वा यदि सौम्यदृष्टे । तुङ्गादिवर्गोपगते बलाढ्ये तद्भावपुष्टिं फलमाहुरायाः ॥ ५ ॥ यद्भावप इति । यस्य भावस्य स्वामी विलग्नात् = जन्मलग्नात्, केन्द्रे (१।४।७।१०) वा कोणे (५।९) स्थितः यदि सौम्येन ( शुभग्रहेण ) दृष्टो भवेत्तथा तुङ्गादिवर्गोपगतः = स्वकीयोच्चादिराशौ स्ववर्गे च स्थितः बलाढ्यः = पूर्वोक्तैर्बलैर्युक्तो वा भवेत् तदा तद्भावपुष्टि- फलं तद्भावस्य वृद्धिरेव फलम् आर्या आहुः ॥ ५ ॥ लग्नसे जिस भावका पति केन्द्रमें हो वा त्रिकोणमें हो उसे शुभग्रह देखते हों उच्चादि वर्गमें प्राप्त होकर बलवान् हो तो श्रेष्ठ विद्वानोंके मतसे उस भावकी पुष्टि होती है ॥ ५ ॥ तत्तद्भावत्रिकोणे सुखमदनगृहे वाऽऽस्पदे सौम्ययुक्ते पापानां दृष्टिहीने भवनपसहिते पापखेटैरयुक्ते । भावानां पुष्टिमाहुः सकलशुभकरं चान्यथा चेत्प्रणाशं मिश्रं मिश्रग्रहेन्द्रैरखिलमपि तथा मूर्तिभावादिकानाम् ॥ ६ ॥ तत्तदिति । तत्तद्भावात् = विचारणीयभावतः, त्रिकोणे ( ५।९ ) सुखमदनगृहे ( ४।७ ), ˙ वा आस्पदे ( १० ) सौम्ययुक्ते = शुभग्रहेण शुभग्रहैर्वा सहिते, तस्मिन् पापानां दृष्टिहीने = पापग्रहैरनवलोकिते सति, भवनपसहिते स्वराशिपत्तिना युक्ते, तथा पापखेटैरयुक्ते, ईदृग्ल- क्षणलक्षितानां भावानां पुष्टिं = वृद्धिं विद्वांस आहुः । यस्मिंस्तस्मिन् भावे ईदृगलक्षणं तद्भा- बजातं सकलशुभकरं भवति । अस्मादन्यथा चेद्भवति तदा तद्भावस्य प्रणाशं करोति । अथ मिश्रग्रहेन्द्रैः = तत्तद्भावात्त्रिकोणे सुखमदने आस्पदे वा पापैः शुभैश्च सहिते, पापैः शुभैश्चावलोकिते सति, मूर्त्तिभावादिकानां = लग्नादिद्वादशभावानाम् अखिलमपि फलं = सकल- मेव तत्तद्भावजातं फलं मिश्रं साधारणं ( शुभमशुभञ्च ) वाच्यमिति ॥ ६ ॥ लग्नादि प्रत्येक भावोंके उस २ भावसे त्रिकोण, चतुर्थ, सप्तम या दशम गृहमें शुभग्रह वा उसका पति युक्त हो वहां पापग्रहोंकी दृष्टि तथा योग न हो तो भावोंका समस्त शुभ- फल तथा पुष्टि कहे। यदि ऐसा न हो तो उस २ भावका नाश होता है। यदि उक्त स्थान मिश्रग्रहसे युक्त हों तो सब मिश्रफल होते हैं ॥ ६ ॥ नाशस्थानगतो दिवाकरकरच्छन्नस्तु यद्राशिपो नीचारातिगतोऽथवा यदि शुभैः खेटैरयुक्तेक्षितः । तद्भावस्य विनाशनं मुनिगणाः शंसन्ति खेटैर्युतो यद्यत्रापि फलप्रदो नहि तथा मूर्त्यादिभानां क्रमात् ॥ ७ ॥
३४४ सटीकजातकपारिजाते- नाशस्थानगत इति । यद्राशिपः = यस्य भावस्य पतिः, नाशस्थानगतः = अष्टमभावग- तः, दिवाकरकरच्छन्नः = सूर्यस्य किरणैर्लुप्तद्युतिदस्तङ्गत इत्यर्थः, अथवा नीचारातिगतः = स्वकीयनीचराशौ, शत्रुगृहे च स्थितः, यदि शुभैः खेटैः = बुधगुरुशुकैः, अयुक्तेक्षितः = युक्तो दृष्टश्च न भवति, तदा तद्भावस्य = यद्भावपतिरीदृल्लक्षणयुतो भवति तस्य भावस्य विना- शनं मुनिगणाः = गर्गपाराशरादयो महर्षयः, शंसन्ति = कथयन्ति । अथ यदि अत्रोक्तसं- स्थायां यद्राशिपः खेटैरितरप्रहैर्यतोऽपि भवेत्तदा मूर्त्तिप्रभृतिभावानां क्रमात् तथा फलप्रदो नहि भवति ॥ ७ ॥ लग्नादि जिस भावका स्वामी सूर्यके किरणसे आक्रान्त हो, अष्टम स्थानमें प्राप्त हो, नीच वा शत्रु गृहमें प्राप्त हो, यदि शुभग्रहसे युक्त न हो उस भावका विनाश मुनि लोग कहते हैं। अर्थात् ये भाव फलप्रद नहीं होते हैं ॥ ७ ॥ दुःस्थाने वाऽरिगे मूढे दुर्बले भावनायके । भावस्य सम्पदं कर्तुं न शक्ता भावमाश्रिताः ॥ ८ ॥ दुःस्थान इति । भावनायके = विचारणीयभावपतौ, दुःस्थाने = षडष्टव्ययानामन्यतमे भावे वा अरिगे = शत्रुगृहे विद्यमाने, मूढे = सूर्येण सहास्तङ्गते, दुर्बले = निर्वीर्ये सति भावमा- श्रिताः = तद्भावमुपगता अन्ये ग्रहा अपि तस्य भावस्य सम्पदं = वृद्धिं, कर्तुं, शक्ताः = दक्षा न भवन्ति । भावस्य शुभफलहेतवे आवेशेन शुभभावगतेन बलिना चावश्यमेव भवित- व्यमिति ॥ ८ ॥ यदि भावका स्वामी दुःस्थानमें शत्रुभवनमें हो अस्त हो वा दुर्बल हो तो भावाश्रित ग्रह भावको सम्पन्न करनेमें समर्थ नहीं होते हैं ॥ ८ ॥ दुष्टस्थितो वापि यदा नभोगः पापोऽरिनीचांशकसंयुतो यः । स्वतुङ्गमित्रांशकराशियुक्तः शुभेक्षितो वा यदि शोभनः स्यात् ॥ ६ ॥ दुष्टस्थित इति । यः कश्चित्, नभोगः = ग्रहः, यदा दुष्टस्थितः = असद्भावगतः, अपि वा अरिनीचांशकसंयुक्तः = शत्रुराशेर्नीचस्य वा नवांशे स्थितो भवति, स पापः = पापफलदो भवति । अथ स्वतुङ्गस्य, मित्रस्य च नवांशे राशौ च युक्तो ग्रहः, शुभग्रहेक्षितो वा यदि भवेत्तदा शोभनः शुभफलदः स्यात् ॥ ९ ॥ यदि जो कोई ग्रह दुष्ट स्थानमें स्थित हो वा शत्रुगृह वा नीचांशसे संयुक्त हो वह अशुभ फल देता है। यदि अपने उच्च वा मित्रके नवांश वा राशिमें शुभग्रहसे दृष्ट हो तो शुभ होता है ॥ ९॥ आवेशाक्रान्तराशीशे दुःस्थे भावस्य दुर्बलम् । स्वोच्चमित्रस्वराशिस्थे भावपुष्टिं वदेद् बुधः ॥ १० ॥ आवेशेति । भावेशाक्रान्तराशीशे = यस्य भावस्य फलं विचार्यते तद्भावेशेनाक्रान्तो यो राशिस्तदीशे ( विचारणीयभावेशाधिष्ठितराशिपतितादित्यर्थः) दुःस्थे = षडष्टव्ययाना- मन्यतमे गते भावस्य दुर्बलं फलं वाच्यम् । अथ च तस्मिन् भावेशाक्रान्तराशीशे ग्रहे स्वोच्चे, स्वमित्रराशौ, स्वकीयराशौ वा स्थिते सति भावपुष्टिं बुधो वदेदिति ॥ १० ॥ जिस किसी भावका स्वामी जहाँ बैठा हो उसका पति दुष्टस्थानमें हो तो उस मूल भावको दुर्बल करता है। यदि वह अपने उच्च, मित्र राशि, स्वराशिमें स्थित हो तो उस भावकी पुष्टि करता है, ऐसा पंडित लोग कहते हैं। सु० ज्ञा० कार० ॥ १० ॥ यद्भावलाभधनविक्रमराशियाता यद्भावनाथसुहृदश्च तदुच्चनाथाः । तद्भावपुष्टिबलमम्बरचारिणस्ते कुर्वन्ति मूढरिपुनीचविवर्जिताश्चेत् ॥ ११ ॥
प्रथमद्वितीयभावफलाध्यायः ॥११॥ ३४५ यदिति । यस्य तस्य भावस्याधिपतेः मित्रग्रहाः, तदुच्चनाथाः = भावपतीनां ये उच्च- राशयस्तत्पतयश्च यत्तद्भावात् लाभ-[ ११ ) धन-( २ ) विक्रम-( ३ ) राशियाता भवे- युस्तदा तद्भावस्य पुष्टिफलं तेऽम्बरचारिणो ग्रहाः कुर्वन्ति । चेद्यदि ते ग्रहा मूढरिपुनीचवि- वर्जिताः = अस्तं गताः, शत्रुराशिगताः, नीचराशिगता वा न भवेयुस्तदेति । एतदुक्तं भवति । यस्य तस्य विचारणीयराशेर्योऽधिपस्तस्य मित्राणि तदुच्चपतिश्चैतेषामन्यतमो ग्रहो मूढशत्रुनीचराशिवर्जितः सन् तत्तद्भावात् लाभधनविक्रमान्यतमगतो भवति तदा तद्भावस्य पुष्टिं कुरुते ॥ ११ ॥ जिस भावसे ११।२।३ स्थानमें गत ग्रह उस भावेशके मित्र या उसके उच्च स्थानके स्वामी हों और यदि वे ग्रह अस्तङ्गत, शत्रुराशिगत या नीचगत न हों तो वे ग्रह उस भावको पुष्ट और बलवान् बनाते हैं। (सु० शा० कार
३४६ सटीकजातकपारिजाते- ग्रहस्य यादृक्फलुः, यत्स्वरूपं, यादृगाकृतिश्च वर्तते तथैव तस्य जातस्यापि वाच्यमित्यर्थः । अथ वर्णमाह—वर्णमिति । चान्द्रनवांशनाथात् = चन्द्रो यस्मिन्नवांशे स्थितो भवेत्तन्न- वांशराशिपतेः वर्णं जातस्य वदेदिति । यस्य ग्रहस्य यो वर्णः ( २ अ० १९ श्लो० ) उक्तः स एव वर्णो जातकस्येति । विलग्नभात् सर्वशुभाशुभानि = लग्नाद्द्वादशभावराशयः कालपुरुषाङ्गे यत्र यत्रावस्थितो विद्यते ( १ अ० ८ श्लो० ) तन्न तत्राङ्गे जातस्य शुभा- शुभग्रहपरत्वेन शुभाशुभानि फलानि वाच्यानि । अत्र ३ अ० ७६ श्लोको द्रष्टव्यः ॥१५॥ शरीरके स्वरूप-आकृति लक्षणोंको लग्नके नवांशपतिसे वा तत्कालमें सर्वाधिक बलवान् ग्रहसे कहे । चन्द्रमाके नवांशके स्वामीसे शरीरका वर्ण कहे, और समस्त शुभ अशुभको लग्नसे कहे ॥ १५ ॥ त्रिकोणकेन्द्रे यदि लग्ननाथे शुभान्विते शोभनवीक्षिते वा । शुभग्रहागारगते बलाढ्ये चतुःसमुद्रान्तयशः समेति ॥ १६ ॥ त्रिकोणेति । शुभग्रहेण युक्तो दृष्टो वा लग्नेशः, त्रिकोणे केन्द्रे ( ५।९।१।४।७।१० ) वा गतः स्यात् , एवं शुभग्रहाणां राशिगतो बलाढ्यदा भवेत्तदा जातो नरः चतुस्समुद्रान्तं यशः = प्रतिष्ठां समेति प्राप्नोति ॥ १६ ॥ यदि लग्नेश त्रिकोण या केन्द्रमें स्थित हो शुभग्रहसे युक्त हो, वा शुभग्रहसे देखा जाता हो, वा बलवान् होकर, शुभग्रहकी राशिमें हो तो चारो समुद्र पर्यन्त ( भूमंडल ) में उसका यश होवे ॥ १६ ॥ होराधिनाथे रिपुरन्ध्ररिष्फे पापान्विते पापनिरीक्षिते वा । पापग्रहाणां भवनोपयाते जातोऽप्रकाशो भवतीह मर्त्यः ॥ १७ ॥ होराधिनाथ इति । होराधिनाथे = जन्मलग्नपतौ । अन्यत्सुगममेवेति ॥ १७ ॥ यदि लग्नेश छठे, आठवें या बारहवें स्थानमें हो पापग्रहसे युक्त हो या देखा जाता हो, वा पापग्रहके गृहमें हो तो इस योगमें मनुष्य यहां नामी नहीं होता है ॥ १७ ॥ कीर्तिस्थानपतौ विलग्नभवने जातः स्वयं कीर्तिमान् । वित्तस्थे तु विशेषकीर्तिसहितः स्वोच्चादिवर्गान्विते । दुःस्थे चञ्चलयात्रया हततनुर्जातोऽथवा दुर्जनः केन्द्रे कोणगते शुभग्रहयुते यात्रासुखं जायते ॥ १८ ॥ कीर्तिस्थानपताविति । कीर्तिस्थानपतौ = नवमभावाधिपतौ ग्रहे, विलग्नभवने = जन्म- कालीनलग्ने गते सति जातो नरः स्वयं कीर्तिमान् भवति । तस्मिन् कीर्तिस्थानपतौ, वि- त्तस्थे = द्वितीयभावमुपगते स्वकीयोच्चादिवर्गयुते च जातो विशेषकीर्तिसहितः = तडागारा- मदेवायलपुस्तकादिचिरस्थायिकीर्तिमान् भवति । तस्मिन्नेव कीर्तिपतौ दुःस्थे = षडष्टव्यय- गते सति जातः चञ्चलयात्रया ( तीव्रगतियानादिनिपातः ) हततनुः = नष्टशरीरः, अथवा दुर्जनः दुःशीलो भवति । तस्मिन्नेव कीर्तिपतौ केन्द्रे कोणे वा गते शुभग्रहयुते च जातस्य यात्रासुखं जायते ॥ १८ ॥ कीर्तिभावेश ( नवमेश ) लग्नमें हो तो जातक स्वयं कीर्तिमान् हो। यदि वही उच्चा- दिवर्गसे युक्त धन भावमें हो तो विशेष कीर्ति वाला हो। यदि दुष्ट स्थानमें हो तो चंचल यात्रासे शरीरका नाश हो, वा दुर्जन हो। यदि वही केन्द्र या कोणमें हो शुभग्रहसे युक्त हो तो यात्रामें सुख प्राप्त होवे ॥ १८ ॥ होरास्वामिनि पञ्चमे यदि सुतस्थानेशायुक्तेऽथवा भाग्ये वा यदि भाग्यपेन सहिते लग्ने यशस्वी पिता । भ्रातृस्थानपतौ विलग्नगृहगे तत्कारकभ्रातृपा- वेकस्थौ बलशालिनौ च यदि वा तत्सोदरः कीर्तिमान् ॥ १९ ॥
प्रथमद्वितीयभावफलाध्यायः ॥११॥ ३४७ होरास्वामिनीति । होरास्वामिनि = जन्मलग्नेशे यदि पञ्चमे गते, अथवा सुतस्थानेश- युक्ते = पञ्चमेशेन सहिते भाग्ये = नवमे भावे गतवति, यदि वा भाग्यपेन = नवमेशेन स- हिते लग्ने विद्यमाने सति जातस्य पिता यशस्वी = कीर्तिमान् भवति । भ्रातृस्थानपतौ = तृतीयभावेशे, विलग्नगृहे = जन्मलग्नमुपगते, तत्कारकभ्रातृपौ = भ्रातृकारकः (भौमः) भ्रातृपः (तृतीयेशः) चैकस्थौ (यत्र तत्रैकराशिगतौ) बलशालिनौ च यदि भवेतां तदा तत्सोदरः = तस्य जातस्य सोदरो भ्राता कीर्तिमान् भवतीति ॥ १९ ॥ यदि पंचमेशसे युक्त लग्नेश पंचम भावमें हो वा नवममें हों, वा नवमेशके साथ लग्नमें हो तो जातकका पिता यशस्वी होवे । यदि तृतीय भावका स्वामी लग्नमें हो अथवा उसका कारक और तृतीयेश दोनों एक राशिमें हों बलवान् हों तो उसका सहोदर भाई कीर्तिमान होवे ॥ १९ ॥ विद्याधिपे वा यदि चन्द्रसूनौ लग्ने सुखे लग्नपसंयुते वा । बलान्विते पापद्दशा विहीने विद्यायशस्वी भवति प्रजातः ॥ २० ॥ विद्याधिप इति । विद्याधिपे = विद्यास्थानपतौ = द्वितीयेशे (द्वितीयभावाद् विद्याविचारः क्रियते, ४९ श्लोको द्रष्टव्यः) वा चन्द्रसूनौ = बुधे, लग्ने = जन्मलग्ने, वा लग्नपसंयुते = लग्नेशेन समन्विते, बलान्विते, सुखे = चतुर्थभावे, पापद्दशा विहीने च सति प्रजातः = ईदृग्लक्षणोपलक्षिते काले जायमानो नरः, विद्यायशस्वी भवति ॥ २० ॥ यदि द्वितीयेश, वा बुध लग्नमें वा लग्नेशके साथ चौथेमें हो बलवान् हो पाप ग्रहकी दृष्टिसे रहित हो तो जातक विद्यामें यशस्वी हो ॥ २० ॥ धर्मोदयेशौ नवमोदयस्थौ धर्मोदयेशौ तनुधर्मगौ वा । सुरेन्द्रवन्द्येक्षितसंयुतौ चेत् समेति जातश्चिरकालभाग्यम् ॥ २१ ॥ धर्मोदयेशाविति । धर्मोदयेशौ = नवमेशलग्नेशौ क्रमेण नवमोदयस्थौ (नवमेशो नवमगतो लग्नेशो लग्नगतश्च) भवेताम्, वा धर्मोदयेशौ तनुधर्मगौ (धर्मेशो लग्ने, लग्नेशो धर्मे च गतः) भवेतां तथा भूतौ चेद्यदि सुरेन्द्रवन्द्येन = गुरुणा, ईक्षितौ संयुक्तौ वा भवेतां तदा जातो नरः चिरकालभाग्यं समेति यावज्जीवनं भाग्यवान् भवतीत्यर्थः ॥ २१ ॥ धर्मेश और लग्नेश क्रमसे नवम और लग्नमें हों (नवमेश ९ वें, लग्नेश लग्नमें) वा लग्नेश और नवमेश क्रमसे ९ वें और लग्नमें हों (नवमेश लग्नमें लग्नेश ९ वें) दोनों बृहस्पतिसे देखे जाते हों या युक्त हों तो जातक बहुत समय तक भाग्यवान् रहे ॥ २१ ॥ लग्नाधिपस्य व्ययगे तदुच्चमित्रे सुहृत्तुङ्गखगोक्षिते वा । तद्राशिगे वा यदि मित्रखेते तस्य स्थितिर्जन्मवसुन्धरायाम् ॥ २२ ॥ लग्नाधिपस्येति । लग्नाधिपस्य = जन्मलग्नपतेः, व्ययगे = द्वादशे भावे, तदुच्चमित्रे = तस्य लग्नाधिपस्योच्चे मित्रगृहे वा सति तस्मिन् सुहृत्तुङ्गखगेक्षिते लग्नेशस्य मित्रग्रहेण तुङ्गगतग्रहेण चेक्षिते. वा तद्राशिगे = लग्न इत्यर्थः, मित्रखेते = लग्नेशस्य मित्रग्रहे सति तस्य जातस्य स्थितिः, जन्मवसुन्धरायां = यत्र भूमौ जन्म जातं तस्यां (जन्मभूमावेव तस्यावस्थानं) भवतीत्यर्थः ॥ २२ ॥ लग्नेशसे १२ वें उसके उच्च स्थान या मित्र राशि हो मित्र या उच्च ग्रहसे देखा जाता हो वा लग्नेशका मित्रग्रह उसके राशिमें हो तो उसकी स्थिति जन्म-भूमिमें हो ॥ २२ ॥ लग्नेशाद्व्ययपे विलग्नपरिपौ नीचेऽथवा दुर्बले जातो याति विदेशमिष्टदनुजाचार्येण दृष्टे यदि । तत्रैव स्थितिरन्यपे रविकरच्छन्ने विलग्नाधिपा- दल्पग्रामचरो बलिन्यपि घनग्रामाधिवासो भवेत् ॥ २३ ॥
३४८ सटीकजातकपारिजाते- लग्नेशादिति । लग्नेशाद्व्ययपे = लग्नपतिर्यत्र तिष्ठति तस्माद्यो द्वादशो भावस्त- द्धीरो ( लग्नेशाधिष्ठितराशेर्व्ययेश इत्यर्थः ) विलग्नपतिरिपौ = लग्नेशस्य शत्रुग्रहे सति, नीचे = नीचराशिगते, अथवा दुर्बले बलहीने सति, तस्मिन्यदि इष्टदनुजाचार्येण = मित्रत्व- मुपगतेन शुक्रेण दृष्टे सति जातो नरो विदेशमन्यदेशं याति । अथ तस्मिन्नेव विलग्ना- धिपाल्लग्नेशादन्त्यपे = द्वादशेशग्रहे, रविकरच्छन्ने = सूर्येण सहास्तङ्गते सति तत्रैव जन्म- भूमावेव स्थितिर्भवति, तथा अल्पग्रामचरः = लघुग्रामवासी भवति । अथ तस्मिन्नेव विल- ग्नाधिपादन्त्यपे बलिनि = सबले सति धनग्रामाधिवासः = विविधधनधान्ययुक्तस्य ग्रामस्य ( नगरस्य ) निवासी भवतीति ॥ २३ ॥ लग्नेशसे बारहवें स्थानका स्वामी लग्नेशका शत्रु हो और यदि वह नीचमें हो वा दुर्बल हो और यदि उसे शुक्र देखता हो तो जातक विदेशमें जाय । यदि लग्नाधिपसे द्वादश स्थानका स्वामी सूर्यके किरणोंसे लुप्त हो तो उसी जगह स्थित हो और छोटे ग्रामोंमें निवास करे । यदि वह बलवान् हो तो शहरोंमें उसका निवास होवे ॥ २३ ॥ होरेशाद्व्ययपे विलग्नभवनात् केन्द्रत्रिकोणस्थिते मित्रस्वोच्चगृहोपगे शुभयुते पार्श्वद्वये मानवः । चेतोरम्यमहीचरो दिविचराचार्येन्दुशुक्रेक्षिते दिव्यक्षेत्रमुपैति जन्मधरणीवासस्तदर्थे रिपौ ॥ २४ ॥ होरेशादिति । होरेशाद् व्ययपे = लग्नेशे यत्र तिष्ठति तस्माद् व्ययभावस्य पतितस्त- स्मिन्, विलग्नभवनात् = जन्मलग्नराशेः केन्द्रत्रिकोणे (१।४।७।१०।५।९) स्थिते, तथा सति स्वकीयमित्रराशिश्वराशिस्वकी- योच्चराशीनामन्यतममुपगते पार्श्वद्वये = तस्मादुभयत्र द्वितीये द्वादशे च शुभयुते शुभग्रहे विद्यमाने सति जातो मानवः चेतोरम्यमहीचरः = मनोरमभूमिचरो (अ- तीवसुन्दरस्थलवासी ) भवति ।
उदाहरणम्—
+---------------+---------------+
| \ ४ / \ २ /
| \ / \ /
| ५ \ / ३ ल. \ / १ बृ.
| \ / \ /
|-----------+---------------+-----------|
| ६ | | मं. १२ |
| | | |
|-----------+---------------+-----------|
| ७ | | ११ |
| / \ / \
| ८ / \ ९ बु. / \ १०
| / \ / \
| / ८ \ / \
+---------------+---------------+
अत्रोदाहरणे-कल्प्यते मिथुनलग्नपतिर्बुधो धनुषि सप्तमे भावे विद्यते, तस्माद् व्ययो वृश्चिकस्तत्पतिर्भौमो मीने लग्नाद् दशमे (केन्द्रे) मित्रराशिस्थो वरीवर्ति, तस्मादुभयत्र गुरुशुक्रौ मेषकुम्भस्थौ विद्येते इति उक्तयोगलक्षणं घटत इति । अथ तस्मिन्नेव लग्नेशा- द् व्ययपे, दिविचराचार्येन्दुशुक्रेक्षिते = गुरुचन्द्रशुकदृष्टे सति, दिव्यक्षेत्रं = देवादितीर्थस्थानं प्राप्नोति ( तीर्थादौ वासं करोतीत्यर्थः ) । अथ तदर्थे = लग्नेशाद् व्ययेशग्रहाद् द्वितीयभावे रिपौ = तस्य शत्रुग्रहे विद्यमाने सति जन्मधरणीवासः = यत्र जातस्य जन्म भवति तस्यामेव भूमौ वासकृद्भवति ॥ २४ ॥ लग्नेशसे व्ययाधीश लग्नसे केन्द्र या कोणमें हो, मित्र गृहमें या अपने उच्च भवनमें हो उसके दोनों तरफ शुभग्रह हों तो मनुष्य रमणीय भूमिमें वास करे । यदि उसके दूसरे तथा छठे स्थान पर बृहस्पति, चन्द्रमा और शुक्र की दृष्टि हो तो जातक जन्म भूमिमें वास करे और दिव्य स्थानको प्राप्त हो ॥ २४ ॥ विदेशभाग्यं चरभे विलग्ने चरे तदीशे चरखेटदृष्टे । स्थिते स्वदेशे बहुभाग्ययुक्तः स्थिरग्रहैर्भूरिधनान्वितः स्यात् ॥ २५ ॥