भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 380, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 380

१५४ सटीकजातकपारिजाते- लग्नको शुभग्रह देखता हो तो समस्त शुभ फल होते हैं। यदि पापग्रह देखता हो तो अशुभ फल होते हैं ॥ ४६ ॥ लग्नको दो आदि ग्रह देखते हों तो सुखी होवे, सब ग्रह देखते हों तो राजा हो। लग्नमें तीन शुभग्रह हों तो राजा हो, और तीन पापग्रह हों तो दुःखी हो ॥ ४७ ॥ लग्नाधिपोऽतिबलवानशुभैरदृष्टः केन्द्रस्थितः शुभखगैरवलोक्यमानः । मृत्युं विधूय विदधाति सुदीर्घमायुः सार्द्धं गुणैर्बहुभिरर्जितया च लक्ष्म्या ॥४८॥ लग्नाधिप इति । अतिबलवान् = पूर्वोक्तसकलबलैर्युक्तो लग्नाधिपः = जन्मलग्नपतिः, केन्द्रस्थितः, अशुभग्रहेरदृष्टः शुभखगैः = बुधगुरुशुक्रपूर्णचन्द्रैः, अवलोक्यमानो यदि भवे- तदा मृत्युं = बाल्यारिष्टसूचितं मरणं विधूय = उन्मूल्य सुदीर्घमायुः = चिरायुष्यं विदधाति = करोति । न केवलमसौ दीर्घायुः करोति अपितु बहुभिर्दानजपहोमादिगुणैरर्जितयोपार्जि- तया लक्ष्म्या श्रिया सार्द्धं सुदीर्घमायुः विदधातीति ॥ ४८ ॥ इति तनुभावफलम् । लग्नेश विशेष बली होकर केन्द्रमें हो उसे केन्द्रगत शुभग्रह देखते हों और पापग्रह न देखते हों तो वह अरिष्टका संहार कर बहुत गुणसे उपार्जित राजलक्ष्मी के साथ दीर्घायु करता है ॥ ४८ ॥ अथ द्वितीयभावफलम् । तत्रादौ धनविचारः । वित्तं नेत्रं मुखं विद्या वाक्कुटुम्बाशनानि च । द्वितीयस्थानजन्यानि क्रमाज्ज्योतिर्विदो विदुः ॥ ४६ ॥ अथाधुना द्वितीयभावफलं विवक्षुरनेन श्लोकेन द्वितीयाभावे विचारणीयान्याह । वित्तं ( धनं ), नेत्रं, मुखं, विद्या, वाक् ( वचन ) कुटुम्बाशनानि च ( परिवाराः, भोजनञ्च ) द्विती- यस्थानजन्यानि = द्वितीयभावे चिन्तनीयानि भवन्ति इति ज्योतिर्विदो विदुः। एतेषां विचारो द्वितीयभावात्कर्त्तव्य इत्यर्थः ॥ ४९ ॥ धन, नेत्र, मुख, विद्या, वचन, कुटुम्ब और भोजनका विचार द्वितीयस्थानसे करना ज्योतिषियोंने कहा है ॥ ४९ ॥ वित्तायोदयराशयः पतियुता वित्ताधिको जायते लाभस्थौ धनलाभपौ निजसुहृत्तुङ्गादिगौ चेत्तथा । तद्वल्लाभधनाधिपौ तनुगतावन्योन्यमित्रग्रहौ लग्नेशे धनलाभराशिपुयुते लग्ने बहुद्रव्यवान् ॥ ५० ॥ इदानीं द्वितीयभावफलान्यारभ्यन्ते । वित्तायोदयराशयः = द्वितीयैकादशप्रथमभावाः, चेत् जन्मकाले, पतियुताः=स्वस्वस्वामियुता भवेयुस्तदा जातो वित्ताधिकः = धनैरधिकः ( बहुधनयुतः ) जायते । धनलाभपौ=द्वितीयैकादशेशौ, लाभस्थौ = एकादशभाव- गतौ, निजसुहृत्तुङ्गादिगौ = स्वराशि-मित्रगृह-स्वकीयोच्चराश्यादिगतौ ( आदिशब्देन तत्तद्द्वेष्काणवंशादयो ज्ञेयाः ) भवेतां चेत्तदा, तथा = वित्ताधिको भवति । तद्वदिति । लाभधनाधिपौ=लाभेशधनेशौ, तनुगतौ=जन्मलग्नगतौ, तौ चान्योन्यं=परस्परम्, इष्टग्रहौ = मित्रग्रहौ भवेतां तदा तद्वदर्थाद् वित्ताधिकः जायते । अथ लग्नेशे, धनलाभराशिपुयुते = द्वितीयैकादशभावपतिसहिते, लग्ने गतवति सति ( लग्ने लग्नेश-द्वितीयेश-लाभेशानां संयोग इत्यर्थः ) जातो बहुद्रव्यवान् भवति । अत्र योगचतुष्कमिति ॥ ५० ॥ द्वितीय-लग्न और लाभ भाव अपने २ पतिसे युक्त हों तो जातक खूब धनवान् होवे । ध- नेश और लाभेश निज मित्र स्थानीय या उच्चस्थानीय होकर लाभ स्थानमें हों तो अधिक ।

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक) · पृष्ठ 380, कुल 588 में से · BharatKosha