जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
१५४ सटीकजातकपारिजाते- लग्नको शुभग्रह देखता हो तो समस्त शुभ फल होते हैं। यदि पापग्रह देखता हो तो अशुभ फल होते हैं ॥ ४६ ॥ लग्नको दो आदि ग्रह देखते हों तो सुखी होवे, सब ग्रह देखते हों तो राजा हो। लग्नमें तीन शुभग्रह हों तो राजा हो, और तीन पापग्रह हों तो दुःखी हो ॥ ४७ ॥ लग्नाधिपोऽतिबलवानशुभैरदृष्टः केन्द्रस्थितः शुभखगैरवलोक्यमानः । मृत्युं विधूय विदधाति सुदीर्घमायुः सार्द्धं गुणैर्बहुभिरर्जितया च लक्ष्म्या ॥४८॥ लग्नाधिप इति । अतिबलवान् = पूर्वोक्तसकलबलैर्युक्तो लग्नाधिपः = जन्मलग्नपतिः, केन्द्रस्थितः, अशुभग्रहेरदृष्टः शुभखगैः = बुधगुरुशुक्रपूर्णचन्द्रैः, अवलोक्यमानो यदि भवे- तदा मृत्युं = बाल्यारिष्टसूचितं मरणं विधूय = उन्मूल्य सुदीर्घमायुः = चिरायुष्यं विदधाति = करोति । न केवलमसौ दीर्घायुः करोति अपितु बहुभिर्दानजपहोमादिगुणैरर्जितयोपार्जि- तया लक्ष्म्या श्रिया सार्द्धं सुदीर्घमायुः विदधातीति ॥ ४८ ॥ इति तनुभावफलम् । लग्नेश विशेष बली होकर केन्द्रमें हो उसे केन्द्रगत शुभग्रह देखते हों और पापग्रह न देखते हों तो वह अरिष्टका संहार कर बहुत गुणसे उपार्जित राजलक्ष्मी के साथ दीर्घायु करता है ॥ ४८ ॥ अथ द्वितीयभावफलम् । तत्रादौ धनविचारः । वित्तं नेत्रं मुखं विद्या वाक्कुटुम्बाशनानि च । द्वितीयस्थानजन्यानि क्रमाज्ज्योतिर्विदो विदुः ॥ ४६ ॥ अथाधुना द्वितीयभावफलं विवक्षुरनेन श्लोकेन द्वितीयाभावे विचारणीयान्याह । वित्तं ( धनं ), नेत्रं, मुखं, विद्या, वाक् ( वचन ) कुटुम्बाशनानि च ( परिवाराः, भोजनञ्च ) द्विती- यस्थानजन्यानि = द्वितीयभावे चिन्तनीयानि भवन्ति इति ज्योतिर्विदो विदुः। एतेषां विचारो द्वितीयभावात्कर्त्तव्य इत्यर्थः ॥ ४९ ॥ धन, नेत्र, मुख, विद्या, वचन, कुटुम्ब और भोजनका विचार द्वितीयस्थानसे करना ज्योतिषियोंने कहा है ॥ ४९ ॥ वित्तायोदयराशयः पतियुता वित्ताधिको जायते लाभस्थौ धनलाभपौ निजसुहृत्तुङ्गादिगौ चेत्तथा । तद्वल्लाभधनाधिपौ तनुगतावन्योन्यमित्रग्रहौ लग्नेशे धनलाभराशिपुयुते लग्ने बहुद्रव्यवान् ॥ ५० ॥ इदानीं द्वितीयभावफलान्यारभ्यन्ते । वित्तायोदयराशयः = द्वितीयैकादशप्रथमभावाः, चेत् जन्मकाले, पतियुताः=स्वस्वस्वामियुता भवेयुस्तदा जातो वित्ताधिकः = धनैरधिकः ( बहुधनयुतः ) जायते । धनलाभपौ=द्वितीयैकादशेशौ, लाभस्थौ = एकादशभाव- गतौ, निजसुहृत्तुङ्गादिगौ = स्वराशि-मित्रगृह-स्वकीयोच्चराश्यादिगतौ ( आदिशब्देन तत्तद्द्वेष्काणवंशादयो ज्ञेयाः ) भवेतां चेत्तदा, तथा = वित्ताधिको भवति । तद्वदिति । लाभधनाधिपौ=लाभेशधनेशौ, तनुगतौ=जन्मलग्नगतौ, तौ चान्योन्यं=परस्परम्, इष्टग्रहौ = मित्रग्रहौ भवेतां तदा तद्वदर्थाद् वित्ताधिकः जायते । अथ लग्नेशे, धनलाभराशिपुयुते = द्वितीयैकादशभावपतिसहिते, लग्ने गतवति सति ( लग्ने लग्नेश-द्वितीयेश-लाभेशानां संयोग इत्यर्थः ) जातो बहुद्रव्यवान् भवति । अत्र योगचतुष्कमिति ॥ ५० ॥ द्वितीय-लग्न और लाभ भाव अपने २ पतिसे युक्त हों तो जातक खूब धनवान् होवे । ध- नेश और लाभेश निज मित्र स्थानीय या उच्चस्थानीय होकर लाभ स्थानमें हों तो अधिक ।
प्रथमद्वितीयभावफलाध्यायः ॥११॥ ३५५ धनवान् होवे। उसी प्रकार लाभेश और धनेश लग्नमें हों दोनों परस्पर मित्र हों तो अधिक धनी होवे । लग्नेश-धनेश और लाभेशके साथ होकर लग्नमें स्थित हो तो बहुत धनवाला होवे ॥ ५० ॥ धनोपयातः प्रथमोऽथ दर्शी ग्रहो द्वितीयो धनपस्तृतीयः । तत्पाकभुक्तौ धनलाभमेति क्रमेण तत्कारकवर्गमूलात् ॥ ५१ ॥ धनोपयात इति । प्रथमः धनोपयातः = द्वितीयभावगतो ग्रहः, द्वितीयः अर्थदर्शी = द्वितीयभावद्रष्टा ग्रहः, तृतीयः धनपः = धनभाव-(द्वितीयभाव-) स्वामी ग्रहः, इति त्रयो ग्रहा धनदातृत्वेन गृह्यन्ते । तत्पाकभुक्तौ = एतद्ग्रहत्रयस्य दशाऽन्तर्दशाकाले तत्कारकवर्ग- मूलात् = धनकारको ग्रहो यत्र वर्गे स्थितो भवति तद्राशिमूलान् (तद्वर्गराशिसंबारदेशात्, १ अ०, १०-१२ श्लो०) क्रमेण धनलाभमेति जातक इति ॥ ५१ ॥ द्वितीय भावमें जो ग्रह हो १, जो ग्रह द्वितीय भावको देखता हो २, जो ग्रह द्वितीय भाव का स्वामी हो ३ इन तीनों ग्रहों की दशा और अन्तर्दशामें वे ग्रह जिस भावके कारक हों उसके द्वारा धनका लाभ होता है ॥ ५१ ॥ धनस्थे यदि लग्नेशे निधिमान् बलसंयुते । दुर्बले पापसंयुक्ते वञ्चनादिफलं वदेत् ॥ ५२ ॥ धनस्थितः पापद्दशा समेतः सपत्ननीचार्ककराभितप्तः । तत्पाकभुक्तौ धननाशमाहुः स गोचरे दुष्टबलान्विते वा ॥ ५३ ॥ कुटुम्बभावे बहुखेटयुक्ते धनप्रदव्योमचरे बलाढ्ये । स्वतुङ्गमित्रस्वगृहोपगे वा धनं समेत्यामरणान्तमाहुः ॥ ५४ ॥ धनस्थ इति । स्पष्टार्थाः ॥ ५२-५४ ॥ बलवान् लग्नेश यदि धन भावमें होतो धनी होवे । और वह यदि निर्बल और पापग्रहसे युक्त हो तो ठगैती आदि फल कहे ॥ ५२ ॥ जो ग्रह धन राशिमें स्थित हो उसे पापग्रह देखता हो और वह शत्रु राशिमें नीच भवनमें हो, या अस्त हो तो उसकी दशा अन्तर्दशामें धनका नाश कहे, वा गोचरीय बलवान् दुष्ट ग्रहसे युक्त धनभाव होनेपर धनका नाश कहे ॥ ५३ ॥ धनभाव बहुत ग्रहोंसे युक्त हो, धनप्रद (कारक) ग्रह बलवान् हो, वा अपने उच्चस्थान, मित्रगृहमें प्राप्त हो तो वह जातक मरण पर्यन्त धनसे परिपूर्ण रहे ॥ ५४ ॥ वित्ताधीशो सोदरेशेन युक्ते लग्नस्थे च भ्रातृवित्तं समेति । मातृस्थानस्वामिना मातृवित्तं यद्भावेशेनान्वितस्तद्धनं स्यात् ॥ ५५ ॥ वित्ताधीशो लग्नगे लग्ननाथे वित्तस्थानेऽयत्नतो वित्तमेव । यद्भावस्थौ लग्नवित्तेश्वरौ चेत्तन्मूला तु द्रव्यवृत्तिर्नराणाम् ॥ ५६ ॥ वित्ताधीश इति । धनभावेशो, सोदरेशेन = तृतीयभावेशेन युक्ते लग्नस्थे च सति जातो भ्रातृवित्तं=सोदरधनं समेति = प्राप्नोति । धनेशे, मातृस्थानस्वामिना = चतुर्थेशन संयुक्ते, लग्ने च गते सति, मातृवित्तं = मातृसम्पत्तिं प्राप्नोति । एवं किल धनभावपतिः यद्भावे- शेन युतो भवेत्तद्धनं जातस्य भवतीति सिद्धान्तः । धनेशे लग्नगते, लग्नेशे धनभावगते जातस्यायत्नतः = प्रयासं विनैव (अनायासात् ) वित्तं = धनं भवति । लग्नवित्तेश्वरौ = ल- ग्नेशधनेशौ चेदेकत्र संयुक्तौ यद्भावस्थौ भवेतां, तन्मूला नराणां द्रव्यवृत्तिः = धनप्राप्तिर्भ- वति लग्नेशधनेशौ लग्नगतौ तदाऽऽत्ममूलादेव धनाप्तिः । तृतीयगतौ चेत्तदा भ्रातृमू- लाद्धनाप्तिः । चतुर्थगतौ चेत्तदा मित्रतो मातृत्तो वा धनाप्तिरेवं सर्वत्रैवोच्यमिति ॥५५-५६॥ धनेश तृतीयेशके साथ लग्नमें स्थित हो तो वह जातक भाई का धन प्राप्त करे। यदि
३५६ सटीकजातकपारिजाते- धनेश मातृस्थानेश ( सुखेश ) के साथ लग्नमें हो तो माताका धन पावे । एवं धनेश जिस भाव पतिके साथ होकर लग्नमें हों उसका धन जातक प्राप्त करे ॥ ५५ ॥ यदि लग्नेश धन भावमें हो और धनेश लग्नमें हो तो अनायास ही धन प्राप्त हो । लग्नेश और धनेश जिस भावमें हों उसीके द्वारा मनुष्योंको धन मिले । जैसे तृतीयमें हो तो भाईसे, चतुर्थमें हो तो मातासे इत्यादि प्रकारसे जाने ॥ ५६ ॥ चन्द्रः कुटुम्बभवने शुक्रेण निरीक्षितः प्रदाता च । सौम्ये शुभसंदृष्टे स एव धनवान् सदा ज्ञेयः ॥ ५७ ॥ चन्द्र इति । कुटुम्बभवने=द्वितीयभावे स्थितश्चन्द्रो यदि शुक्रेण निरीक्षितः=दृष्टो भवेत्तदा जातः प्रदाता = अन्येभ्योऽर्थदाता भवति । अत्र चकारात् कारकेनापि शुक्रदृष्टेन भवि- तव्यम् । तत्र कुटुम्बभवने स्थिते सौम्ये=बुधे, शुभसंदृष्टे = गुरुशुक्रयोरन्यतरेण द्वाभ्यां वा दृष्टे स जातः सदैव धनवान् भवेदिति ज्ञेयः । स यावज्जीवनं धनी स्यादित्यर्थः । Notes—उक्तयोगयुगले चन्द्रो बुधश्च यदि स्वराशीमूलत्रिकोणोच्चादिगतौ भवेतां तदोक्तं फलं विशेषेण फलतीति चिन्त्यम् ॥ ५७ ॥ चन्द्रमा द्वितीय स्थानमें हो शुक्रसे देखा जाता हो तथा धन-कारक भी शुक्रदृष्ट हो तो धनी होवे । यदि धनभावगत बुध शुभदृष्ट हो तो वह सदा धनवान् रहे ॥ ५७ ॥ अर्थाधीशो यत्र संस्थो नराणां तस्मिन् काले तत्र वृद्धिविशेषात् । तद्भागे च द्रव्यलाभं करोति वक्रोऽसौ चेद्दिक्षु सर्वार्थसिद्धिः ॥ ५८ ॥ अर्थाधीश इति । अर्थाधीशः = द्वितीयेशः, जन्मकाले यत्र = यस्मिन्भावे, तिष्ठति, त- स्मिन् काले धनेशस्य दशासमये तत्र=तद्भावदिशि, विशेषाद् वृद्धिः भवति। तद्भागे=तद्भा- वदिग्भागे द्रव्यलाभं च करोति । अथासौ धनेशो वक्रगतिश्चेत्तदा दिक्षु = सर्वासु दिक्षु जा- तस्य सर्वार्थसिद्धिरुच्येते । Notes—अत्र भावानां दिक् चक्रानुसारण ज्ञेया । लग्नादित्रयाणां पूर्वा दिक् । चतु- र्थादित्रयाणामुत्तरा, सप्तमादित्रयाणां वारुणी, कर्मादित्रयाणां याम्या दिगिति ज्ञातव्यम् ॥५८॥ जन्मकालमें धनेश जहां स्थित हो उस भाव राशिकी जगहमें मनुष्यों की विशेष वृद्धि होती है। वह राशि जिस दिशाकी हो उस भागमें उसे द्रव्यलाभ होता है। वह यदि वक्री हो तो सब दिशाओंमें अर्थसिद्धि हो ॥ ५८ ॥ धनेशे लाभसंयुक्ते लाभेशे धनलाभगे । तावुभौ केन्द्रगौ वाऽपि धनवान् ख्यातिमान् भवेत् ॥ ५६ ॥ धनेशे व्ययपष्ठस्थे व्ययेशे वित्तगेऽथवा । लाभेशे रिपुरन्ध्रस्थे व्यये वा धननाशनम् ॥ ६० ॥ व्ययभावगते जीवे वित्तेशे बलवर्जिते । शुभैरनीक्षिते लग्ने वित्तनाशं वदेद् बुधः ॥ ६१ ॥ लग्नेशे धनराशिस्थे धनेशे लाभराशिगे । लाभेशे वा विलग्नस्थे निध्यादिधनमाप्नुयात् ॥ ६२ ॥ लग्नायधनभाग्येशाः परमोच्चांशसंयुताः । वैशेषिकांशगा वापि तदा कोटीश्वरो भवेत् ॥ ६३ ॥ दिनेश्वरकरच्छन्ने धनेशे नीचराशिगे । पापषष्ठ्यंशसंयुक्ते ऋणग्रस्तो भवेन्नरः ॥ ६४ ॥ स्पष्टार्थाः किलैते श्लोका इति ॥ ५९–६४ ॥
प्रथमद्वितीयभावफलाध्यायः ॥१९॥ ३५७ धनेश लाभ स्थानमें हो और लाभेश धन स्थान में या लाभमें हो या दोनों केन्द्रमें हों तो धनवान् और विख्यात होवे ॥ ५९ ॥ धनेश द्वादश या षष्ठ स्थानमें हो, व्ययेश धनमें हो, अथवा लाभेश षष्ठ वा अष्टम स्थानमें हो, व्ययमें हो तो तीनों स्थितिमें जातकके धनका नाश कहे ॥ ६० ॥ गुरु व्यय भावमें हो, धनेश निर्बल हो और शुभग्रह लग्नको न देखता हो तो जातकके धनका नाश कहे ॥ ६१ ॥ लग्नेश धन भावमें हो, धनेश लाभ स्थानमें हो, वा लाभेश लग्नमें हो तो निधि आदि धन उस जातकको प्राप्त हो ॥ ६२ ॥ लग्न-एकादश-द्वितीय-नवमके स्वामी परम उच्चांशमें प्राप्त हों वा अपने २ वैशेषि- कांशमें प्राप्त हों तो-करोड़ पति होवे ॥ ६३ ॥ धनेश नीचराशिमें अस्त होवे और पाप षष्ट्यंश में हो तो मनुष्य ऋणसे ग्रस्त होवे ॥६४॥ अथ नेत्रविचारः । शुक्रेन्दुनयनाधीशैरैकस्थ
३५८ सटीकजातकपारिजाते- शन्यनारयोगे गुलिकेन युक्ते नेत्रेश्वरे तत्र तु नेत्ररोगः । नेत्रे यदा पापबहुत्वयोगे यमेन दृष्टे सति रुग्णनेत्रः ॥ ६८ ॥ इदानीं नेत्ररोगमाह—शन्यारेति । नेत्रेश्वरे = द्वितीयभावेशे, गुलिकेन युक्ते, तत्र शन्यनारयोगे = शनिभौमयोर्योगे सति । एतदुक्तं भवति । यत्र गुलिको भवति तत्रैव द्विती- येश-शनि-भौमा भवेयुरिति । तदा जातस्य नेत्ररोगः स्यात् । अथ नेत्रे = द्वितीयभावे, पापबहुत्वयोगे = बहूनां पापग्रहाणामवस्थितौ, यमेन = शनिना दृष्टे च सति जातो रुग्ण- नेत्रः = नेत्ररोगी भवति ॥ ६८ ॥ द्वितीयेश शनि, मङ्गल तथा गुलिकसे युक्त हो तो जातकको नेत्ररोग हो, धन (२) स्थानमें बहुत पापग्रहोंका योग हो उनको शनि देखता हो तो जातक नेत्रका रोगी होवे ॥ ६८ ॥ नेत्रेश्वरे शुभयुते शुभदृष्टियुक्तेऽथवा । शुभांशकस्थिते वाऽपि शुभदृक स नरो भवेत् ॥ ६९ ॥ सुनेत्रयोगमाह-नेत्रेश्वर इति । द्वितीयेशः शुभग्रहेण युतो वा दृष्टो वा शुभग्रहनवां- शगतो भवेत् तदा स नरः शुभदृक् = सुनेत्रो भवेत् । एवं जातकरत्ने सुनेत्रयोगः- “लग्नाधिपे सौम्यखगेन युक्ते बलान्विते कारकखेचरेन्द्रे । नेत्रे शुभे तद्भुवनेश्वरो वा सौम्यान्वितः सौम्यदृशा समेतः ॥ इति ॥ ६९ ॥ धनेश शुभग्रहसे युक्त हो, वा उसे शुभग्रह देखते हों, वा शुभांशकमें हो तो उस जातक की सुन्दर दृष्टि हो ॥ ६९ ॥ अथ मुखविचारः । जातोऽसौ सुमुखः शुभे धनगते तुङ्गादिवर्गान्विते तद्भावे यदि सौम्यवर्गसहिते वाक्सिद्धिमेति ध्रुवम् । आज्यस्पर्शमुपैति वित्तगृहगे भौमे दिनेशेक्षिते जातः कोद्रवमुख्यभुग् धनगते राहौ च पापेक्षिते ॥ ७० ॥ इदानीं मुखविचारमारभते—जात इति । शुभे = शुभग्रहे ( बुधगुरुशुक्रशुक्लचन्द्रा- न्यतमे ) धनगते = द्वितीयभावमुपगते तस्मिंस्तुङ्गादिवर्गान्विते = स्वकीयोच्चराशिप्रभृति- वर्गगते सति, असौ = ईदृग्योगे जातः, सुमुखः = सुन्दरमुखो भवति । यदि तद्भावे = द्वितीयभावे सौम्यवर्गसहिते = शुभग्रहसम्बन्धिवर्गेण ( राश्यादिना ) सहिते, असौ जातः, ध्रुवं = निश्चयेन, वाक्सिद्धिं = स्ववचनप्राशस्त्यम्, एति = प्राप्नोति । अस्मिन्योगे जातस्य वचनं ( यत्किञ्चित् भाषितम् ) सत्यं भवतीत्यर्थः । भौमे = मङ्गले, वित्तगृहगे = द्वितीय- भावगते, तस्मिन् दिनेशेन ( सूर्येण ) दृष्टे सति जातः, आज्यस्पर्शं = घृतस्पर्शं, मुखं प्राप्नोति । अर्थादत्र योगे जातो नरः सर्वदा स्वमुखं घृताक्तं करोति । यतस्तन्मुखं दधि- रादिविकारयुक्तं भवतीत्यर्थः । अथ राहौ धनभावगते तस्मिन् पापग्रहेक्षिते च जातो नरः कोद्रवमुख्यभुक् कोद्रवादिकदन्नभोक्ता भवति ॥ ७० ॥ धन भावमें शुभग्रह यदि उच्चादि वर्गमें हो तो जातकका सुन्दर मुख हो । यदि धन भावमें शुभग्रहोंका वर्ग हो तो जातक वाक्सिद्धि प्राप्त करे । धनभावमें मङ्गलको सूर्य देखता हो तो आज्यस्पर्श रोग हो । धन भावगत राहुको पापग्रह देखता हो तो वह जातक कोदो ( कदन्न ) आदि अन्न का खानेवाला होवे ॥ ७० ॥ लग्नास्तार्थाष्टमस्थेऽर्के भौमे वाऽन्यतरेक्षिते । आज्यस्पर्शोऽग्निभीतिर्वा सम्भवन्ति मसूरिकाः ॥ ७१ ॥ लग्नास्तेति । अर्के = सूर्ये, वा भौमे = मङ्गले, लग्नास्तार्थाष्टमस्थे = लग्न-सप्तम-
प्रथमद्वितीयभावफलाध्यायः ॥११॥ ३५६ द्वितीयाष्टमभावानामन्यतमगते, अन्यतरेक्षिते = उक्तभावगतः सूर्यो भौमेन, वा भौमः सूर्येणा- वलोकिते सति, आज्यस्पर्शः = घृतस्पर्शमुखः, अग्निभीतिः, = अनलभययुक्तः, वा मसू- रिकाः = वसन्तरोगचिह्नानि (Smallpox) जातस्य मुखे सम्भवन्तीति । तथा जातकरत्ने- “विलग्नसप्ताष्टमवित्तराशौ दिनेशयुक्ते क्षितिसूनुयुक्ते । भौमेन वा वासरनाथदृष्टे स्फोटाग्निभीतिं प्रवदेद् व्रणाद्वा” इति ॥७१॥ लग्न, सप्तम, द्वितीय या अष्टममें सूर्य हो, वा मङ्गल हो इन्हीं दोनोंमें एक दूसरेको देखता हो तो मुंहमें आज्यस्पर्श रोग, अथवा अग्निभय वा मसूरिका रोग होवे ॥ ७१ ॥ पापैर्युते मुखस्थाने दुर्मुखः पापवीक्षिते॥ क्रोधाननो नरः पापी तदीशे गुलिकान्विते ॥ ७२ ॥ पापैरिति । मुखस्थाने = द्वितीयभावे, पापैर्युते = पापग्रहैः (अत्र बहुवचननिर्देशाद् द्वय- धिकैः पापैः ) युते, तस्मिन् केनचित्पापेन, वीक्षिते = दृष्टे च सति, जातो नरो दुर्मुखः = कु- त्सितमुखो भवति । अथ तदीशे = द्वितीयेशे ग्रहे गुलिकेन सहिते जातो नरः, क्रोधाननः = कुपितवदनः, पापी = दुष्कर्मकृच्च भवति ॥ ७६ ॥ मुख (धन) स्थानमें पापग्रह हो तो जातक दुर्मुख होवे । धनभावगत पापको पापग्रह देखते हों तो क्रोधान्वित मुखवाला हो और उस स्थानका स्वामी गुलिकसे युक्त हो तो मनुष्य पापी हो ॥ ७२ ॥ प्रफुल्लवदनः श्रीमान् केन्द्रे मुखपतौ यदा । स्वोच्चस्वमित्रवर्गस्थे सुमुखः शुभवीक्षिते ॥ ७३ ॥ श्लोकोऽयं सरलार्थ इत्यलम् ॥ ७३ ॥ धन स्थानका मालिक यदि केन्द्रमें हो तो विकसित मुख (हँसमुख), सौन्दर्य युत जातक होवे, अपने उच्च स्थान में, अपने मित्र के वर्गमें हो, शुभग्रहसे देखा जाता हो तो सुमुख होवे ॥ ७३ ॥ वाग्भावेशे राहुयुक्ते च दुःस्थे राहुक्रान्तस्थाननाथान्विते च॥ पाके भुक्तौ तस्य दन्तामयः स्याद् जिह्वारोगं तारकासूनुभुक्तौ ॥ ७४ ॥ वागिति । वाग्भावेशे = द्वितीयभावपतौ, राहुयुक्ते, च = अथवा, दुःस्थे = षडष्टव्यय- गते राहुक्रान्तस्थाननाथान्विते, च = अथवा राहुधिष्ठितराशीशेन सहिते सति तस्य = द्वितीयेशस्य, पाके = दशायाम्, भुक्तौ = अन्तर्दशायाञ्च, दन्तामयः = दन्तरोगः, स्यात् । तथा चास्मिन्नेव योगे जातस्य द्वितीयेशपाके तारकासूनोर्बुधस्य, भुक्तौ = अन्तर्दशायां जिह्वारोगं ब्रूयादिति । जातकरत्नेऽपि- 'वाग्भावपे षष्ठगते सराहौ राहुस्थितर्क्षाधिपसंयुते वा । दन्तादिरोगः पतनं च तेषां भुक्तौ तयोर्वा प्रवदन्ति तज्ज्ञा' इति ॥ Notes-अत्र द्वितीयेशदशायां तथा द्वितीयेशो येन (राहुणा, राहुधिष्ठितराशि- पतिना वा) संयुतो भवेत्तदन्तर्दशायाञ्च दन्तादिरोगो वाच्यः इति ॥ ७४ ॥ द्वितीयेश राहुसे युक्त होकर दुष्ट स्थानमें हो वा राहुसे युक्त स्थानके स्वामीके साथ हो तो उन दोनोंकी दशा, अन्तर्दशामें उस जातकको दन्तरोग हो और बुधकी अन्तर्दशामें जीभमें रोग हो ॥ ७४ ॥ राहुद्वितीयगृहपौ सहजेशयुक्तौ जातः समेति गलरोगमतीव कष्टम् । दारिद्र्यदौ शशिरवी धनराशियातौ भौमार्कजौ सकलरोगकरौ भवेताम् ॥७५॥ राह्विति । राहुद्वितीयगृहपौ सहजेशेन युक्तौ भवेतामर्थाद् राहुः, द्वितीयभावेशः, तृती- यभावेशश्चेति त्रयो ग्रहा एकत्रगता भवेयुस्तदा जातो नरः, गलरोगं = कण्ठव्याधि, समेति =
३६० सटीकजातकपारिजाते- प्राप्नोति, येन तस्यातीव कष्टं = दुःखम्, स्यादिति । शशिरवी = चन्द्रसूर्यौ, धन- राशियातौ = द्वितीयभावगतौ भवेतां तदा, दारिद्र्यदौ प्रोक्तौ ) अत्र योगे जातो नरो दरिद्रो भवतीत्यर्थः । अथ भौमार्कजौ = कुजशनौ द्वितीयगतौ भवेतां तदा जातस्य सकलरोगकरौ = विविधव्याधिदायकौ भवेतामिति । Notes—अत्रोक्तयोगे यदि योगकरा ग्रहाः स्वोच्च-स्वराश्यादिगताः स्युस्तदा न तावद्दोषकरा भवन्तीति चिन्त्यम् । 'दोषकृन्नतु सर्वत्र स्वोच्च-स्वर्क्षगतो ग्रहः' इति वक्ष्यमाणवचनात् ॥ ७५ ॥ राहु और द्वितीयेश दोनों तृतीयेशसे युक्त हों तो जातक विशेष गलरोगके कष्टसे युक्त हो । शनि और सूर्य दोनों धनभावमें प्राप्त हों तो दरिद्रता को देवें । मंगल और शनि हों तो सब रोगोंके करनेवाले होवें ॥ ७५ ॥ अथ विद्या-वाग्विचारः । वाग्भावेशे गुरुयुते नाशस्थे मूकता भवेत् । दोषकृन्नतु सर्वत्र स्वोच्चस्वर्क्षगतो ग्रहः ॥ ७६ ॥ वागीशबुधजीवेषु निर्विद्यो नाशगेषु च । केन्द्रेषु ते त्रिकोणे वा स्वर्क्षे वा विद्ययाऽन्वितः ॥ ७७॥ अधुना वाग्विचारमाह—वागिति । वाग्भावेशे = द्वितीयभावपतौ, गुरुयुते=बृहस्पतिना सहिते, नाशस्थे = अष्टमभावमुपगते जातस्य मूकता = अवाक्त्वं = वचनराहित्यं भवति । अस्मिन्द्योगे जातो नरो मूको भवतीत्यर्थः । अत्रापवादमाह— सर्वत्र = कथितेषु, वक्ष्यमा- णेषु च दुर्योगेषु यदि तत्तद्योगकरो ग्रहः स्वोच्च-स्वर्क्षगतो भवेत्तदा दोषकृन्न भवति । अपि तु तदुक्तदोषापहारक एव स्यादिति । वागीशबुधजीवेषु = द्वितीयभावेश-बुध-गुरुषु, नाशगेषु = अष्टमभावमुपगतेषु, जातो नरः, निर्विद्यः = विद्यया रहितो (मूर्ख इति) भवति । ते त्रयः (वागीशबुधजीवाः) केन्द्रे- षु = १।४।७।१० भावेषु, वा त्रिकोणौ = ५।९ भावयोः, वा स्वर्क्षे = स्वस्वराशौ यथासम्भवं भवेयुस्तदा जातो विद्ययाऽन्वितः = विद्वान्, भवति ॥ ७६-७७ ॥ वाग्भावेश (द्वितीयेश) गुरुसे युक्त अष्टम स्थानमें हो तो जातक गूंगा हो । अपने स्थान या अपनी उच्च राशिका ग्रह कहीं भी दोष करनेवाला नहीं होता है ॥ ७६ ॥ द्वितीयेश, बुध और बृहस्पति अष्टम स्थानमें हों तो जातक विद्यासे रहित होवे । यदि ये सब केन्द्र या कोणमें हों, वा अपने गृहमें हों तो विद्यासे युक्त होवे ॥ ७७ ॥ द्वितीये दुर्बले सौम्ये द्वन्द्वयुद्धहतो भवेत् । जीवाथेशौ दुर्बलौ वा पवनव्याधिभाङ्नरः ॥ ७८ ॥ द्वितीय इति । दुर्बले = पूर्वोक्तबलरहिते, सौम्ये = बुधे, द्वितीये = द्वितीयभावगते सति जातो नरः, द्वन्द्वयुद्धहतः = द्वन्द्वयुद्धं युगलपुरुषसङ्ग्रामः ( मल्लयुद्धमिति यावत् ) तस्मिन् हतो भवति, म्रियत इत्यर्थः । अथवा जीवार्थेशौ = गुरुद्वितीयभावपतिश्च, दुर्बलौ = बलहीनौ स्यातां तदा जायमानो नरः, पवनव्याधिमान् = वातरोगयुक्तो भवेदिति ॥ ७८ ॥ द्वितीय स्थानमें निर्बल शुभग्रह हो तो जातक द्वंद्व (दो आदमियों के) युद्धमें मरे । बृहस्पति और द्वितीयेश दुर्बल हों तो मनुष्य वातव्याधिवाला होवे ॥ ७८ ॥ वाक्स्थानपे देवपुरोहितेन युक्ते यदा नाशगते तु मूकः । वाक्स्थानपे सौम्ययुते त्रिकोणे केन्द्रस्थिते वा शुभदे च वाग्मी ॥७६॥ वागिति । गुरुणा सहितो द्विती`शो यदि नाश-( अष्टम ) भावगतः स्यात्तदा जातो-
प्रथमद्वितीयभावफलाध्यायः ॥११॥ ३६१ मूको भवतीति (७६ श्लोको द्रष्टव्यः) । अथ यदि द्वितीयेशः शुभग्रहयुतः त्रिकोणे वा केन्द्रे विद्यमानः स्यादथवा कस्मिंश्चिच्छुभदे ( शुभग्रहे ) इत्थम्भूते सति जातो वाग्मी = वाक्प- टुः भवति । 'वाचो युक्तपटुर्वाग्मी' इत्यमरः ॥ ७९ ॥ द्वितीयेश और बृहस्पति अष्टम स्थानमें हों तो जातक गूंगा हो । द्वितीयेश शुभग्रहसे युक्त त्रिकोणमें हो, वा केन्द्रमें हो, वा शुभस्थानमें हो तो वाचाल होवे ॥ ७९ ॥ वागीशस्थांशपे सौम्ये स्वोच्चे वा शुभवीक्षिते । पारावतांशके वाऽपि वाग्मी पटुतरो भवेत् ॥ ८० ॥ वागीशेति । वागीशः ( द्वितीयेशः ) तिष्ठति यत्र नवांशे तस्य नवांशस्य स्वामिग्रहे ( द्वितीयेशाधिष्ठितनवांशपतिग्रहे ) सौम्ये=शुभग्रहे, स्वोच्चे, वा शुभवीक्षिते, वा पाराव- तांशके गतवति । एतदुक्तमवधेयम् । द्वितीयभावपतिः शुभग्रहो भूत्वा स्वकीयोच्चराशौ स्थितः, वा यत्र कुत्र शुभग्रहेण दृष्टः, वा स्वपारावतांशगतो भवेत् । तदा जातो वाग्मी = वचनपटुः, पटुतरः = अतीव विद्वांश्च भवति ॥ ८० ॥ द्वितीय स्थानका स्वामी जिसके नवांश में हो, उसका स्वामी शुभ हो, अपने उच्च स्थानमें हो, वा शुभग्रहसे दृष्ट हो, वा पारावतांशमें हो तो जातक वाचाल और चतुर होवे । केन्द्रत्रिकोणगे जीवे शुक्रे स्वोच्चं गते यदि । वाग्भावपेन्दुपुत्रे वा गणितज्ञो भवेन्नरः ॥ ८१ ॥ अधुना विद्याविचारमाह—केन्द्रेति । जीवे केन्द्रत्रिकोणगे ( १।४।७।१०।५।९ एत- दन्यतमगते ) शुक्रे, स्वोच्चं = मीनराशिमुपगते, यदि वा वाग्भावपेन्दुपुत्रे = द्वितीयेशे बुधे स्वोच्चं ( कन्याराशिं ) गते नरः, गणितज्ञः = गणितशास्त्रवेत्ता भवेत् । Notes—अत्र वृषसिंहयोरन्यतरे लग्ने 'वाग्भावपेन्दुपुत्रे' इति सङ्घटते । अन्यथा तु 'गुरौ केन्द्रकोणगते शुक्रे स्वोच्चं गते' इत्येव चिन्त्यम् ॥ ८१ ॥ यदि बृहस्पति केन्द्र वा त्रिकोणमें हो और शुक्र उच्च स्थानमें हो, वा द्वितीयेश बुध हो तो वह मनुष्य गणितज्ञ हो ॥ ८१ ॥ गणितज्ञो भवेज्जातो वाग्भावे भूमिनन्दने । ससौम्ये बुधसन्दृष्टे केन्द्रे वा सोमनन्दने ॥ ८२ ॥ गणितज्ञयोगान्तरमाह—गणितज्ञ इति । ससौम्ये = केनचिच्छुभग्रहेण ( गुरुशुक्र- शुक्लचन्द्राणामन्यतमेनेत्यर्थः ) सहिते, भूमिनन्दने = मङ्गले, वाग्भावे = द्वितीयभावे गत- वति, तस्मिन्, बुधेन सन्दृष्टे, वा सोमनन्दने = बुधे, केन्द्रे गतवति जातः, गणितज्ञः ( ज्योतिर्विद् ) भवेत् । अत्र 'ससोमे' इत्यपि पाठान्तरं दृश्यते । तथा सति, ससोमे = चन्द्रयुक्ते भूमिनन्दने इति व्याख्येयम् ॥ ८२ ॥ मंगल द्वितीय स्थानमें शुभग्रहके साथ हो उसे बुध देखता हो वा बुध केन्द्रमें हो तो मनुष्य गणितज्ञ होता है ॥ ८२ ॥ वाग्भावपे रवौ भौमे गुरुशुक्रनिरीक्षिते । पारावतांशके वापि तर्कयुक्तिपरायणः ॥ ८३ ॥ इदानीं तार्किकयोगमाह—वाग्भावप इति । सूर्यो वा भौमो द्वितीयेशो भवेत् । तस्मिन् गुरुशुक्राभ्यामवलोकिते, अपि वा सूर्यभौमयोरन्यतरे यत्र तत्र स्वपारावतांशगते सति जातः तर्कयुक्तिपरायणः = तर्कशास्त्र- (न्यायशास्त्र ) व्रती भवति । अत्र 'पाराव- तांशके सौम्ये' इत्यपि पाठो दृश्यते । तथा सति 'बुधे पारावतांशके विद्यमाने सति' इति व्याख्येयम् ।
३६२ सटीकजातकपारिजाते- Notes—सूर्यो वा भौमो वाग्भावपस्तदैव भवति, यदि कर्कौ वा मीन-तुलयोरन्य- तरं लग्नं स्यादिति चिन्त्यम् । अन्यथा सूर्यो वा भौमः यत्र तत्र पारावतांशे ( स्वकीय- षडधिकारे ) भवेत्तदोक्तं फलं स्यादिति ॥ ८३ ॥ सूर्य या मंगल द्वितीयेश होकर गुरु और शुक्रसे दृष्ट हो, वा अपने पारावतांशमें हो तो वह मनुष्य तर्कशास्त्र ( न्याय ) में तत्पर हो ॥ ८३ ॥ सम्पूर्णबलसंयुक्ते गुरौ तद्भवनेश्वरे । दिनेशभृगुसन्दृष्टे शाब्दिकोडयं भवेन्नरः ॥ ८४ ॥ इदानीं वैयाकरणयोगमाह—सम्पूर्णेति । तद्भवनेश्वरे=द्वितीयभावपतौ, गुरौ=बृहस्पतौ (गुरुर्द्वितीयेशस्तदैव यदि वृश्चिक-कुम्भान्यतरं लग्नं स्यादिति ) सम्पूर्णबलयुक्ते = पूर्वं यानि बलान्युक्तानि तैः सर्वैः संयुक्ते, तथाभूते, दिनेशभृगुसन्दृष्टे = सूर्यशुक्राभ्यामवलोकिते सति, अयमस्मिन् योगे समुद्भवो नरः शाब्दिकः = शब्दशास्त्राभ्यासी=वैयाकरणः भवेदिति । जातकत्नेऽपि— गुरौ धनस्थे बलपूर्णयुक्ते शुक्रेण सूर्येण च दृष्टियुक्ते । शुक्रे धने स्वोच्चगतेऽथवाऽपि जातो नरः शब्दविशेषशास्त्रात् ॥ इति ॥ ८४ ॥ सम्पूर्ण बलसे परिपूर्ण गुरु यदि द्वितीय भावका स्वामी ( द्वितीयेश ) हो उसको सूर्य और शुक्र देखते हों तो वह मनुष्य व्याकरणका पण्डित होवे ॥ ८४ ॥ वेदान्तपरिशीली स्यात्केन्द्रकोणे गुरौ यदि । बुधेन भृगुणा दृष्टे शनौ पारावतांशके ॥ ८५ ॥ इदानीं वेदान्तज्ञयोगमाह—वेदान्तेति । गुरौ केन्द्रकोणे ( १।४।७।१०।५।९ ) गत- वति, तस्मिन् यदि बुधेन, भृगुणा ( शुक्रेण ) च दृष्टे, शनौ च पारावतांशके ( स्वकीया- धिकारषटके ) विलसति, जातः वेदान्तपरिशीली = वेदान्तशास्त्रविवेचको भवतीति ॥८५॥ यदि बृहस्पति केन्द्र या कोणमें हो उसे बुध और शुक्र देखते हों और शनि अपने पारावतांशमें हो तो मनुष्य वेदान्ती होवे ॥ ८५ ॥ षट्शास्त्रवल्लभः केन्द्रे जीवे दानवपूजिते । सिंहासने गोपुरांशे वाग्भावस्यांशपे बुधे ॥ ८६ ॥ इदानीं षट्शास्त्रज्ञयोगमाह—षडिति । जीवे = बृहस्पतौ, केन्द्रे ( १।४।७।१० ), दानवपूजिते = शुक्रे, सिंहासने = स्वकीयाधिकारपञ्चके, वाग्भावस्यांशपे = द्वितीयभावगत- नवांशराशिपतौ, बुधे, ( बुधो द्वितीयभावगतनवांशपतिर्भूत्वा ) गोपुरांशे = स्वकीयाधि- कारचतुष्के सति ( अ. १ श्लो. ४५ द्र. ) जातः, षट्शास्त्रवल्लभः = शिक्षा-कल्प-व्याक- रण-ज्योतिः-निरुक्त-छन्दःशास्त्राणां श्रुतेः षडङ्गभूतानां विवेचको भवति ॥ ८६ ॥ बृहस्पति केन्द्रमें हो शुक्र अपने सिंहासनांशमें हो और बुध द्वितीय भावका नवांश- पति होकर अपने गोपुरांशमें हो तो जातक षट्शास्त्री हो ॥ ८६ ॥ अथ कुटुम्बविचारः । उपजीव्य नरं सर्वे तदीशे गोपुरांशके । वर्द्धन्ते मुदितास्तस्य भृगौ पारावतांशके ॥ ८७ ॥ उपजीव्येति । तदीशे = द्वितीयभावपतौ, गोपुरांशे = स्वकीयाधिकारचतुष्टये, भृगौ = शुक्रे, पारावतांशके = स्वाधिकारषट्के विद्यमाने सति तस्य जातस्य, सर्वे = आत्मीयाः ( कुटुम्बाः ) तं जायमानं नरमुपजीव्य = तदाश्रिता जीवनं यापयन्तो मुदिताः=प्रसन्नचित्ताः सन्तो वर्द्धन्ते = समृद्धिमुपगच्छन्तीति ॥ ८७ ॥
प्रथमद्वितीयभावफलाध्यायः ॥११॥ ३६३ यदि द्वितीयेश गोपुरांशमें हो और शुक्र पारावतांशमें हो तो उसके सभी आश्रित उससे पलित होकर बड़ी प्रसन्नतासे बढ़ते हैं याने वह मनुष्य अपने आश्रितों का पालक होता है ॥ ८७ ॥ जायाकुटुम्बगृहपौ सितपापयुक्तौ दुःस्थौ च तत्समकलत्रहरौ भवेताम् । वित्तेश्वरे बलवति स्मरराशिपे वा तुङ्गादिगे यदि समेति कलत्रमेकम् ॥८८॥ जायेति। जाया-कुटुम्बगृहपौ = सप्तमेश-द्वितीयेशौ, सितपापयुक्तौ = शुक्रेण पापग्रहेण च सहितौ, दुःस्थौ = षडष्टव्ययगतौ च स्यातां, तदा तत्समकलत्रहरौ = तत्संख्यामितस्त्री- नाशको, भवेताम् । एतदुक्तं भवति । सप्तमेशो द्वितीयेशो वा यदि शुक्रेण वा केनचिदेकेन पापेन युक्तो दुःस्थश्च स्यात् तदैकस्त्रीनाशको भवति । यदि ग्रहद्वयेन युक्तः स्यात् तदा स्त्रीयुगलं नाशयेत् । एवं ग्रहसंख्यापरत्वेन स्थितिपरत्वेन च स्त्रीनाशयोगो वाच्यः । वित्ताधिपे = द्वितीयेशे, वा स्मरराशिपे = सप्तमभावपतौ बलवति सति यदि तुङ्गादिगे = स्व- कीयोच्चादिगते ( आदिशब्देन स्वमूलत्रिकोण-स्वराशि स्ववर्गादिकं ज्ञेयम् ) तदा जातः एकं, कलत्रं=भार्या, समेति=प्राप्नोति । अत्र योगे जातो नर एकभार्यो भवतीत्यर्थः ॥८८॥ सप्तमेश और द्वितीयेश शुक्र और पापग्रहसे ( जितनेके साथ ) युक्त हों और दुष्टस्थान में हों तो उतनी स्त्रीके नाशक होवं । द्वितीयेश वा सप्तमेश बलवान् होकर उच्चादिमें हो तो एक ही स्त्री होवे ॥ ८८ ॥ अथ पात्राशनयोर्विचारः । भुक्तिस्थानपतौ सितेन्दुसहिते लग्नादिकेन्द्रस्थिते रौप्यं पात्रमुपैति काञ्चनमयं जीवेन्दुशुकान्विते । भुक्तिस्थानपदेहपौ शनियुतौ लोहादिपात्रं वदेद् भौमे पापनिरिक्षते धनगते जातः कदन्नादिभुक् ॥ ८६ ॥ भुक्तिस्थानपताविति । भुक्तिस्थानं = द्वितीयभावः, तत्पतौ = द्वितीयभावेशे, सितेन्दुसहिते = शुक्रचन्द्राभ्यां युक्ते, तथा सति, लग्नादिकं यत्केन्द्रं ( १।४।७।१० ) तदन्यतमगते जातः, रौप्यं = रजतमयं, पात्रं = भाजनं, उपैति = प्राप्नोति । तथाभूते भुक्तिस्थानपतौ ( लग्नादिकेन्द्रस्थिते ), जीवेन्दुशुकान्विते = गुरुचन्द्रशुक्रैः सहिते सति काञ्चनमयं = सौवर्णं पात्रं प्राप्नोति । अथ भुक्तिस्थानपदेहपौ = द्वितीयेशलग्नेशौ यदि शनियुतौ भवेतां तदा लोहादिपात्रं जातकः प्राप्नोतीति वदेत् । अशनमाह—भौमे = मङ्गले, पापनिरिक्षते=शनि- सूर्यक्षीणचन्द्रान्यतमेनावलोकिते, धनगते = द्वितीयभावमुपगते सति जातः कदन्नादिभुक् = कुत्सितान्नफलादिभोक्ता भवति ॥ ८९ ॥ भुक्ति ( २ ) स्थानका पति शुक्र और चन्द्रमाके साथ लग्नादि केन्द्रमें स्थित हो तो जातकको रूपाका ( चांदी ) पात्र मिले । द्वितीयेश यदि बृहस्पति और शुक्रसे युक्त हो तो सोनेका पात्र प्राप्त होवे । द्वितीयेश और लग्नेश शनिसे युक्त हो तो लोहेंका पात्र कहे । पापग्रहसे दृष्ट मंगल धनमें हो तो जातक कदन्न भोज करे ॥ ८९ ॥ बह्वाशनो भुक्तिपतौ सपापे दावाग्निदण्डायुधकालभागे ! नीचांशके पापनिरिक्षते च शुभैर्न दोषः सहितेक्षिते वा ॥ ६० ॥ बह्वाशन इति । भुक्तिपतौ = द्वितीयेशे, सपापे=पापग्रहेण सहिते, दावाग्नि-दण्डायुध- कालानां भागे ( षष्ट्यंशे ) विद्यमाने सति जातः, बह्वाशनः = अधिकभुक् भवति । भुक्ति- पतौ नीचांशके = स्वकीयनीचराशिनवांशे तस्मिन्पापेन निरीक्षिते च तथैव फलं (बह्वाशनः) स्यात् । अथोक्तयोगेऽपि, शुभैः = शुभग्रहैः, सहितेक्षिते=संयुक्तते, दृष्टे वा दोषः न स्याद- र्थाद्बह्वाशनो न भवेदिति ॥ ६० ॥
३६४ सटीकजातकपारिजाते- भुक्ति (२ भाव) का स्वामी पापग्रहसे युक्त होकर दावाग्नि, दण्डायुध, कालके षष्ट्यंश में हो या नीचांशमें हो पापग्रहसे देखा जाता हो तो बहुत खानेवाला होवे। यदि यहां द्वितीयेश शुभयुक्त-दृष्ट हो तो यह दोष न होवे ॥ ९० ॥ भुक्तिस्थाने शुभयुते तदीशे शुभसंयुक्ते । शुभग्रहेण सन्दृष्टे सुखभुक् स नरो भवेत् ॥ परान्नभुक् तदीशेऽपि नीचशत्रुसमन्विते । नीचखेचरसन्दृष्टे तद्द्षणपरायणः ॥९२॥ भुक्तिस्थाने इति । भुक्तिस्थाने = द्वितीयभावे, शुभयुते ( कश्चिच्छुभग्रहो द्वितीयभावगः स्यादिति ), तदीशे = द्वितीयेशे, शुभसंयुते = केनचिच्छुभग्रहेण सहिते तथाभूते केनचिच्छु- भग्रहेण सन्दृष्टे स जातो नरः सुखभुक् = सुखेन भोजनकृद्भवति ॥ ९१ ॥ तदीशे = द्वितीयभावपतौ, नीचशत्रुसमन्विते = स्वनिचे, शत्रुग्रहेण वा समन्विते सति, अपि = निश्चयेन परान्नभुक् = अन्यान्नभक्षणशीलो भवति । अथ द्वितीयेशे तथाभूते, नीच- खेचरसन्दृष्टे = नीचवर्त्तिना ग्रहेणावलोकिते जातः तद्द्षणपरायणः = भुक्तान्नदूषणशीलः भवति । तेन यद्भक्ष्यते तदेव दूष्यते चेति ॥ ९२ ॥ भुक्ति (२) स्थानमें शुभग्रह हो और भुक्ति (२) स्थानेश भी शुभग्रहसे युक्त हो और शुभग्रह उसे देखते हों तो वह मनुष्य सुखसे भोजन करनेवाला हो। यदि २ भावका स्वामी नीच स्थानमें या शत्रुस्थानमें हो तो पराया अन्न खानेवाला हो। नीचग्रहसे दृष्ट हो तो उसके दूषणमें तत्पर हो ॥ ९१-९२ ॥ कालोचिताशनो भुक्तिनाथे लग्नेशवीक्षिते । पापग्रहेण सन्दृष्टे नीचांशादियुते न तु ॥ ९३ ॥ कालोचितेति । भुक्तिनाथे = द्वितीयेशे, लग्नेशेन वीक्षिते = दृष्टे, स्वोच्चादिगते च जातः कालोचिताशनः = यस्मिन् काले यदशनमुचितं तद्धान् ( समयानुकूलभोज्यभुक् ) भवति । अथ तस्मिन्भुक्तिनाथे, पापग्रहेण सन्दृष्टे नीचांशादियुते च तथा तु न ( कालोचिताशनो न ) भवति । अपि तु कालानूचिताशनो भवतीत्यर्थः ॥ ९३ ॥ द्वितीयेश यदि लग्नेशसे देखा जाता हो पापग्रहसे देखा न जाता हो नीचांशादि युक्त न हो तो समयानुकूल भोजन करने वाला हो ॥ ९३ ॥ स्वल्पाशी रुचिकामः स्याद् भुक्तिनाथे शुभे गृहे । स्वोच्चे शुभेन सन्दृष्टे मृद्वंशादिसमन्विते ॥ ९४ ॥ स्वल्पाशीति । सरलार्थ एवेत्यलम् ॥ ९४ ॥ द्वितीयेश शुभराशिमें हो तो जातक थोड़ा खानेवाला हो। द्वितीयेश अपने उच्चमें शुभग्रहसे दृष्ट और षष्ठ्यंशमें हो तो सदा खानेमें रुचि रखनेवाला हो ॥ ९४ ॥ भुक्तिस्थानाधिपे मन्दे तदीशे वाऽऽर्किसंयुते । नीचेऽर्कसूनुना दृष्टे श्राद्धभुक् सततं नरः ॥ ९५ ॥ भुक्तिस्थानाधिप इति भुक्तिस्थानाधिपे= द्वितीयभावेशे, मन्दे = शनैश्चरे सति, वा तदीशे=द्वितीयेशे, आर्क्सिंयुते = शनिना सहिते, वा तदीशे नीचे = स्वनिचराशौ, अर्कसूनुना = शनैश्चरेण दृष्टे सति जातो नरः सततं=नित्यं, श्राद्धभुक् =श्राद्धान्नभो- क्ता ( महाब्राह्मण इव ) भवति ॥ ९५ ॥ दूसरे भावका स्वामी शनि हो वा
[चक्र/कुण्डली विवरण]
- १ भाव (लग्न): १ ल.
- २ भाव: २
- ६ भाव: ६ शु.
- ७ भाव: श्राद्धान्नभुक्
- १२ भाव: १२ श.
तृतीयचतुर्थभावफलाध्यायः ॥१२॥ ३६५ द्वितीयेश शनिसे युक्त हो वा द्वितीयेश नीच राशिमें हो उस पर शनिकी दृष्टि हो तो निरन्तर श्राद्धका अन्न खानेवाला (महापात्र) होवे ॥ ९५ ॥ सिंहासनांशे यदि देवपूज्ये शुक्रे यदा गोपुरभागयुक्ते । पारावतांशे धनपे बलाढ्ये जातस्त्वसङ्ख्याश्रितरक्षकः स्यात् ॥९६॥ सिंहासनांश इति । यदि देवपूज्ये = बृहस्पतौ, सिंहासनांशे = स्वकीयाधिकारपञ्चके, शुक्रे यदा गोपुरभागयुक्ते = स्वाधिकारचतुष्टये, धनपे = द्वितीयेशे, बलाढ्ये सति, पारावतांशे = स्वकीयाधिकारषट्के ( १ अ०, ४५-४६ श्लो० ) च विद्यमाने सति जातः असङ्ख्या- नामनेकानामाश्रितानां = शरणागतानां रक्षकः = प्रतिपालको भवति ॥ ९६ ॥ पारिजाते सुधा टीका कपिलेश्वररचिता । अध्याये रुद्र (११) संख्येऽस्मिन् पूर्ति भावफले गता ॥ ११ ॥ यदि बृहस्पति सिंहासनांशमें हो, शुक्र गोपुर भागमें हो, बलवान् धनेश पारावतांशमें हो तो जातक असंख्य आश्रितों का रक्षक होवे ॥ ९६ ॥ इति जातकपारिजाते एकादशे तनु-धनभावफलाध्याये विमला हिन्दी टीका समाप्ता ॥११॥ अथ तृतीयचतुर्थभावफलाध्यायः ॥ १२ ॥ तत्र तृतीयभावफलम् । ज्येष्ठानुजस्थितिपराक्रमसाहसानि कण्ठस्वरश्रुतिवराभरणांशुकानि । धैर्यं च वीर्यबलमूलफलाशनानि वक्ष्ये तृतीयभवनात् क्रमशोऽखिलानि ॥१॥ अथाधुना तृतीयभावफलानि विवक्षुः प्रथमं तृतीयभावे किं किं विचार्यमित्याह । श्लोकस्तु स्पष्टार्थ एवेत्यलम् ॥ १ ॥ अब तृतीय भावका विचार करते हैं । तृतीय भावसे ज्येष्ठ और छोटा भाईका विचार, पराक्रम, साहस, कण्ठस्वर, श्रवण, आभरण, वस्त्र, धैर्य, वीर्य, बल, मूल, फल भोजन ये सब क्रमसे कहेंगे ॥ १ ॥ अथ भ्रातृविचारः । भ्रातृस्थानं तृतीयं च नवैकादशसप्तमम् । तत्तदीशदशायां च भ्रातृलाभो भवेन्नृणाम् ॥ २॥ इदानीं भ्रातृस्थाननिरूपणपूर्वकं भ्रातृविचारमाह—भ्रातृस्थानमिति । जन्मलग्नात्- तृतीयम्, नवमम्, एकादशम्, सप्तमञ्च स्थानं भ्रातृस्थानं कथितम् । अत एव तत्तदीश- दशायां = तृतीय-सप्तम-नवमै-कादशभावपतीनां दशाकाले, नृणां = जनिमतां, भ्रातृलाभः = सोदरोत्पत्तिः भवेत् । उक्तेषु भावेषु यद्भावपतिर्जन्मकाले बलीयान् भवेत्तद्दशायां विशे- षतो भ्रातृलाभेन भवितव्यमिति चिन्त्यम् ॥ २ ॥ तीसरा, नववां, ग्यारहवां और सातवां ये भ्रातृस्थान हैं। उन स्थानोंके स्वामीकी दशा में मनुष्योंको भ्रातृलाभ होता है ॥ २ ॥ भ्रातृस्थानेशतद्राशितद्भावस्थद्युचारिणाम् । मध्ये बलसमेतस्य दशा सोदरवृद्धिदा ॥ ३ ॥ तृतीयेश-तृतीयेशराशि-तृतीयभावगतग्रहाणां मध्ये बलीयसो ग्रहस्य दशा सोदरवृ- द्धिदा भवति ॥ ३ ॥ भ्रातृ (३) स्थानके स्वामी, उसकी राशि तथा ३ में स्थित ग्रहोंके बीचमें बलवान् ग्रह- की दशा भाईकी वृद्धि करनेवाली होती है ॥ ३ ॥
३६६ सटीकजातकपारिजाते- भौमो बलविहीनश्चेद्दीर्घायुर्भातृगो भवेत् । विलग्नगो बली यस्य कारकः स प्रभुः स्मृतः ॥ ४ ॥ बलहीनो भौमो भ्रातृगः = तृतीयभावगश्चेद्भवेत्तदा जातो दीर्घायुर्भातृमान् भवेत् । यस्य जन्मकाले कारकः = भ्रातृकारको ( मङ्गलः ) ग्रहः, विलग्नः = जन्मलग्नगतः स्यात् , स जातः, प्रभुः = जनाधिपः स्मृतः = कथितः ॥ ४ ॥ बलसे हीन मंगल ३ रे भावमें हो तो दीर्घायु भाईवाला हो । जिसका भ्रातृभाव कारक लग्नमें बलवान् होकर हो तो वह समर्थ होता है ॥ ४ ॥ जन्मकाले गुणी प्राणी कारको यः समृद्धिकृत् । क्षयकारी विपर्यासे भावपो विबलोऽधिकः ॥ ५ ॥ स्पष्टार्थः । एतदर्थं ११ अ. ४, ५, ८ श्लोका द्रष्टव्याः ॥ ५ ॥ जन्म समय यदि किसी भावका कारक गुणवान् और बली हो तो वह उस भावकी समृद्धि करने वाला होता है । इससे विपरीत हो तो उस भावकी हानि करता है । भावपति निर्बल हो तो भ्रातृपक्षका अधिक क्षयकारी होता है ॥ ५ ॥ सोदरेशकुजौ नाशं गतौ चेत्सोदरक्षयः । पापर्क्षगौ सपापौ वा भ्रातॄनुत्पाद्य नाशयौ ॥ ६ ॥ सोदरेशकुजौ = तृतीयेशो भौमश्च, नाशं गतौ = अष्टमभावमुपगतौ चेद्भवतां तद जातस्य सोदरक्षयः = भ्रातृहानिर्भवति । तौ सोदरेशकुजौ चेत्पापराशिगतौ, वा पापग्रहा- युक्तौ भवेतां तदा भ्रातॄनुत्पाद्य नाशयौ भवतः । योगेऽस्मिञ्जातस्य भ्रातर उद्भूय म्रिय- न्त इति । जातकत्नेऽपि— नाशस्थितौ सोदरनाथभौमौ पापेक्षितौ सोदरनाशमाहुः । पापर्क्षगौ पापसमागतौ वा भ्रातॄन्समुत्पाद्य विनाशहेतुः ॥ इति ॥ ६ ॥ तृतीयेश और मंगल अष्टम भावमें हों तो भाईका नाश होता है । दोनों पापग्रहकी राशिमें हों वा पापग्रहके साथ हों तो दोनों ग्रह भाईको उत्पन्न करके नाश करते हैं ॥ ६ ॥ नीचास्तगौ सोदरनायकाख्यौ नीचांशगौ पापसमागतौ वा । क्रूरादिषष्ट्यंशगतौ तदानीं भ्रातॄन्समुत्पाद्य विनाशहेतुः ॥ ७ ॥ सोदरनायकाख्यौ = सहजेशः, सहजकारकश्चेत्यन्यत्स्पष्टार्थमेवेति ॥ ७ ॥ भ्रातृस्थानेश और भ्रातृकारक नीच राशिमें हों अस्त हों या नीचांशमें हों वा दोनों क्रूर षष्ट्यंशमें हों तो भाईका जन्म नाश करने ही के निमित्त करते हैं ॥ ७ ॥ अतिक्रूरसमायुक्ते भावे वा कारकेऽपि वा । तद्भावनाथके वाऽपि बाल्ये सोदरनाशनम् ॥ ८ ॥ अतिशयेन क्रूरः अतिक्रूरः ( पापीयान् ), पापग्रहश्चेन्नीचगतोऽस्तं गतः शत्रुवर्गादिग- तो वा भवेत्तदाऽसावतिक्रूरोऽतीव पापी भवति । तेन पापीयसा ग्रहेण तृतीयभावे वा भ्रातृ- कारके वा तृतीयेशे समायुक्ते सति, बाल्ये = बालावस्थायामेव सोदरनाशनं भवति । तस्य बाल्यकाल एव सोदरो म्रियत इत्यर्थः ॥ ८ ॥ अत्यंत क्रूरग्रहसे युक्त ३ रा भाव हो या भ्रातृकारक हो या ३ रे भावका स्वामी हो तो बाल्यावस्था में भाई का नाश होवे ॥ ८ ॥ धनेश्वरे नाशगते बलाढ्ये पापान्विते सोदरकारकाख्ये । तन्मातृकारग्रहसंयुते च सापत्नमातुः सहजा वदन्ति ॥ ६ ॥ धनेश्वरे = द्वितीयभावेशे, बलाढ्ये = सबले सति, नाशगते = अष्टमभावगते, सोदर-
तृतीयचतुर्थभावफलाध्यायः ॥१२॥ ३६७ कारकाख्ये = भ्रातृकारके ग्रहे ( भौमे ) पापान्विते = पापग्रहेण सहिते, तन्मातृकारकग्रहसं- युते = तस्य (तृतीयभावस्य ) यो मातृकारको ग्रहः ( चतुर्थेशः ) लग्नाच्चतुर्थभावपतिरि- त्यर्थः तेन संयुक्ते सति, सापत्नमातुः = विमातुः सकाशात् सहजाः = भ्रातरो भवन्ति ( वैमात्रेयभ्रातरो भवन्ति ) इति विज्ञा वदन्ति ॥ ९ ॥ बलवान् तृतीयेश अष्टममें हो, पापयुक्त भ्रातृकारक ग्रह ३ यसे ४ र्थ भावके कारकसे भी युक्त हो तो उसको सौतेली मातासे उत्पन्न भाई हो ॥ ९ ॥ भ्रातृस्थाने यदि शुभयुते सोदराणां चिरायुः पापाक्रान्ते सहजभवने पापहष्टे विनाशम् । ज्येष्ठं हन्ति द्युमणिरनुजस्थानगः पापहष्टः सौरस्तस्यानुजमवनिजो हन्ति सर्वान् कनिष्ठान् ॥ १० ॥ तृतीयभावे शुभग्रहाणां दृष्ट्या योगेन च सोदराणां दीर्घायुर्दृद्धं, पापानां दृष्ट्या योगेन च सोदराणां विनाशं ब्रूयात् । सूर्यश्चेत्तृतीयस्थानगः स्यात्तदा ज्येष्ठभ्रातरं, शनिस्तस्यानु- जुजं, भौमो हि सर्वान् पश्चाज्जातान् कनिष्ठान् हन्ति । तत्र पापहष्टे विशेषेणार्थदेव शुभ- दृष्टे तत्परिहारोऽपि भवतीति ॥ १० ॥ यदि तृतीय भावमें शुभग्रह हो तो भाई दीर्घायु होवे । पापग्रह तृतीयमें हो उसपर पापग्रहकी दृष्टि हो तो भाईका विनाश हो । सूर्य पापग्रहसे दृष्ट तृतीयमें हो तो जातकके ज्येष्ठ भ्राताका विनाश करे, और शनि हो तो उसके केवल १ छोटे भाईका नाश करे और मंगल हो तो सब छोटे भाइयोंका संहार करे ॥ १० ॥ त्रिकोणकेन्द्रे यदि पापखेडे तृतीयभावादनुजस्य नाशम् । शुभोपयाते सहजाभिवृद्धिः शुभाशुभं मिश्रफलं वदन्ति ॥ ११ ॥ तृतीयभावात् त्रिकोणे केन्द्रे वा पापखेटे विद्यमाने सति अनुजस्य = कनिष्ठभ्रातुः नाशः स्यात् । शुभोपगते = तृतीयभावात् त्रिकोणकेन्द्रे शुभग्रहे गतवति सहजाभिवृद्धिः = सोदर- वृद्धिर्भवति । अथ च तत्र शुभेऽशुभेऽपि गतवति, मिश्रफलं = सोदरहानिः, सोदरवृद्धिश्चेति मनीषिणो वदन्ति ॥ ११ ॥ तृतीय भावसे यदि त्रिकोण या केन्द्रमें पापग्रह हो तो भाईका नाश करे । शुभग्रह हो तो भाईकी वृद्धि करे । यदि शुभ अशुभ दोनों हों तो मिश्र फल ( शुभाशुभ दोनों ) फल देते हैं ॥ ११ ॥ दुःस्थे चन्द्रे सोदरस्वामियुक्ते जातस्यान्यस्तन्यपानं वदन्ति । मातृभ्रातृस्थानपौ बन्धुयातौ नास्ति भ्रातृस्थानवृद्धिर्नराणाम् ॥ १२ ॥ भौमान्वितौ सोदरदौ भवेतामन्यैः समेतौ यदि नानुजः स्यात् । सौरस्तृतीयेऽनुजनाशकर्ता विधुन्तुदः सोदरवृद्धिकृत्स्यात् ॥ १३ ॥ चन्द्रे, सोदरस्वामियुक्ते = तृतीयभावपतिना सहिते दुःस्थे = षडष्टव्ययान्यतमगते सति जातस्य नरस्य, अन्यस्तन्यपानं = जननीतरदुग्धपानं विज्ञा वदन्ति । मातृभ्रातृस्थानपौ = चतुर्थेशतृतीयेशौ बन्धुयातौ = चतुर्थस्थानगतौ स्यातां तदा नराणां भ्रातृस्थानवृद्धिः = सह- जोद्भवः, नास्ति = न भवतीति । तौ मातृभ्रातृस्थानपौ यदि भौमान्वितौ = मङ्गलेन युक्तौ भवेतां तदा सोदरदौ = भ्रातृदातारौ भवतः । यदि तौ, अन्यैः ग्रहैः ( भौमेतरैः ) समेतौ स्यातां तदा अनुजो न स्यात् । शनिस्तृतीयभावगतः स्यात्तदाऽनुजनाशकर्ता भवति । विधुन्तुदः = राहुस्तृतीयगतः सोदरवृद्धिकृत् स्यात् = भ्रातृजन्मदो भवति । तृतीये राहुः 25 भ्रातृनाशको न, किन्तु भ्रातृकारक एव भवतीति भावः ॥ १२-१३ ॥
३६८ सटीकजातकपारिजाते- चन्द्रमा ६।८।१२ भावमें तृतीयेश से युक्त हो तो जातकको दूसरेका स्तनपान करना कहते हैं। चतुर्थेश और तृतीयेश दोनों चतुर्थ स्थानमें हों तो मनुष्योंके भ्रातृ स्थानकी वृद्धि न हो ॥ १२ ॥ यदि तृतीयेश और चतुर्थेश मंगलसे युक्त हों तो भाई को देखें। अन्यग्रहोंसे युक्त हों तो भाई न हो। तीसरे शनि हो तो भाई का नाश करे और राहु हो तो भाईकी वृद्धि करनेवाला हो ॥ १३ ॥ अदृश्यराशौ यदि वा सपापे वधूगृहस्थे सहजाधिनाथे ॥ जातानुजस्योपरि नानुजः स्यात् पुंवर्गगे दृश्यगते तथैव ॥ १४ ॥ सहजाधिनाथे = तृतीयभावेशे, अदृश्यराशौ = स्पष्टलग्नाद्राशिषट्कमदृश्यं भवति, तद- न्यतमराशौ यदि वा = अथवा, सपापे = पापग्रहयुक्ते, वधूगृहस्थे = सप्तमभावगते सति, जातानुजस्योपरि = जायमानकनिष्ठानन्तरं, अनुजः = लघुसोदरभ्राता न स्यात्। स जातो यदि कस्यचिदनुजो भवेत्तदा तस्यानुजो न स्यादथवा तस्य जातस्यैकानुजानन्तरमन्यो- ऽनुजो न जायेत, इत्यर्थः। अथ सहजाधिनाथे, दृश्यराशिगते ( स्पष्टसप्तमभावाद्वाशिषट्का- भ्यन्तरे ) पुंवर्गगे = पुरुष-( विषम ) राशिसम्बन्धिवर्गे गतवति तथैव फलमर्थाज्जातानुज- स्योपरि नानुजः स्यादिति ॥ १४ ॥ यदि तृतीयका स्वामी अदृश्य राशिमें हो वा पापग्रहसे युक्त सप्तममें हो तो भाई उत्पन्न होनेके बाद फिर भाई न हो। पुरुष राशिके वर्गमें दृश्य राशिमें हो तो भी वही फल होवे ॥ १४ ॥ भ्रातृस्थानपतौ तु पुंभवनगे तस्यानुजो जायते युग्मर्क्षे यदि भार्गवेण शशिना युक्तेऽथवा वीक्षिते । सौम्यर्क्षे शुभखेचरैक्षितयुते केन्द्रत्रिकोणस्थिते पश्चाज्जातसहोदरश्चिरसुखी दीर्घायुरारोग्यभाक् ॥ १५ ॥ भ्रातृस्थानपतौ = तृतीयेशे, पुंभवनगे = नरराशि-( मेष-मिथुनादिविषमराशि ) गते सति तस्य = जातस्य अनुजः=कनिष्ठभ्राता जायते। अथवा यदि भ्रातृस्थानपतौ, युग्मर्क्षे= सम-( वृष-कर्क्यादि ) राशौ गते, तस्मिन् भार्गवेण = शुक्रेण, शशिना = चन्द्रेण च, युक्ते= सहिते, वा वीक्षिते = अवलोकिते जातस्यानुजो जायते। अथ भ्रातृस्थानेशे सौम्यर्क्षे = शुभ- राशौ, शुभखेचरैक्षितयुते = शुभग्रहेण दृष्टे, वा सहिते, केन्द्रत्रिकोण-(१।४।७।१०।५।९) स्थिते सति तस्य जातस्य पश्चाज्जातसहोदरः = लघुभ्राता, चिरसुखी = यावज्जीवनं सुख- भाक्, दीर्घायुः, आरोग्यभाक् च भवति ॥ १५ ॥ तृतीय भावका स्वामी पुरुष राशिमें हो तो उसको भाई होवे। तृतीयेश सम राशिमें यदि हो शुक्र और चन्द्रमासे युक्त हो, वा दृष्ट हो तो अनुजका जन्म होवे। शुभग्रहकी राशिमें तृतीयेश शुभग्रहसे दृष्ट युत हो, केन्द्र-त्रिकोणमें स्थित हो तो उसके पश्चात् दीर्घायु तथा आरोग्यवान् भाई होवे ॥ १५ ॥ सहोदरस्थानपतौ तनुस्थे सलग्नपे सोदरनायके वा। गर्भोऽभयोऽनन्तरमस्य मातुस्तृतीयाराशौ सपतौ तथैव ॥ १६ ॥ सहोदरस्थानपतौ = तृतीयभावेशे, तनुस्थे = जन्मलग्नमुपगते, वा सोदरनायके=तृतीय- येशे सलग्नपे = लग्नपतिना संयुक्ते, अस्य जातस्य, मातुः, अनन्तरं = एतज्जातानन्तरं, गर्भः, अभयः = निर्विघ्नो भवति। तृतीयराशौ = तृतीय ( भ्रातृ ) भावे, सपतौ = पतिना सहिते ( तृतीयेशे तृतीयगत इत्यर्थः ) तथैव फलमर्थात् गर्भोऽभयोऽनन्तरमस्य मातुरिति वाच्यम् । अस्मिन्योगे जातस्य माता पुनरपि निर्विघ्नं सन्तति प्रसूते इत्यर्थः ॥ १६ ॥ ।
तृतीयचतुर्थभावफलाध्यायः ॥१२॥ ३६९ तृतीयेश लग्नमें हो, वा लग्नेशके सहित तृतीयेश हो तो उस जातकके बादका गर्भ अभय होता है। तृतीय भावमें तृतीयेश हो तो भी वही फल होवे ॥ १६ ॥ अथ सोदरसङ्ख्याज्ञानम् । लाभावसानभवनोपगतग्रहेन्द्रसङ्ख्यास्तदग्रजजनाः सहजा भवन्ति । लग्नात्तृतीयधनयातवियच्चरेन्द्रैः संख्याजनाः स्युरनुजाः कथयन्ति तज्ज्ञाः ॥१७॥ इदानीं सोदरसङ्ख्यामाह — लाभावसानेत्यादिभिः । जन्मलग्नात्, लाभावसान- भवने = एकादशद्वादशभावौ, तावुपगतग्रहेन्द्रसङ्ख्यास्तस्य जातस्याग्रजजनाः = पूर्वजाताः, सहजाः = भ्रातरः ( ज्येष्ठभ्रातरः ) भवन्ति । एकादशे द्वादशे च भावे यावन्तो ग्रहास्ति- ष्ठन्ति तावन्मितास्तस्य ज्येष्ठाः सोदरा भवन्तीत्यर्थः । एवं लग्नात् तृतीये, द्वितीये च भावे वर्त्तमानग्रहत
३७० सटीकजातकपारिजाते- चतुष्के) यदा द्वौ ग्रहौ वीर्यवन्तौ = बलशालिनौ, स्याताम्, तदा नाशानाशफलप्रदौ सम- तया भवतः । अर्थात् यावदशुभदौ तावदेव शुभदावपीति । अत्र चतुर्षु ग्रहेषु द्वौ बलिनौ द्वौ बलरहितौ च तुल्यमेव शुभमशुभञ्च कुरुत इति तात्पर्यम् । चेद्यदि चतुर्षु ग्रहेषु त्रयो ग्रहा वीर्याधिकाः स्युस्तदा स्वल्पसहोदरक्षयकरा भवन्ति । तत्र शुभफलमधिकमशुभफलं किञ्चिदेवेति । अथ तत्र यदि स्त्रीग्रहा ( योगकारकाः) दुःस्थानगता भवेयुस्तदाऽल्पा- नुजवृद्धिदा भवन्ति । तदानीमल्पा एव अनुजा जायन्त इत्यर्थः । तदनुजस्वाम्यंशसङ्ख्या- नुजा इति । तस्य जातस्यानुजस्वामी (तृतीयेशः) यत्र तत्र भावे यावन्मिते नवांशे विद्यमानः स्यात्तावन्तस्तस्यानुजा भवन्तीति ॥ १९ ॥ भ्रातृस्थानेश, भ्रातृदर्शी, भ्रातृस्थानगत और भ्रातृकारक इन चारोंमें यदि दो भी पूर्ण बली हों तो भाइयोंकी हानि और लाभ बराबर ही करते हैं। उन चारोंमें यदि तीन बल- वान् ग्रह हों तो थोड़े भाइयोंका संहार करते हैं और स्त्रीग्रह दुःस्थानमें हों तो थोड़े भाइयोंकी वृद्धि करें । उसके छोटे भाईकी संख्या तृतीयेशके नवांशके तुल्य होवे ॥ १९ ॥ भूमिजे सहजस्थाने यावतां विद्यते बलम् । शत्रुनीचग्रहं त्यक्त्वा तावन्तः सहजाः स्मृताः ॥ २० ॥ भूमिजे = मङ्गले, सहजस्थाने = तृतीयभावे, शत्रुनीचग्रहं त्यक्त्वा = स्वशत्रुग्रहं नीचगत- ग्रहं च विहाय यावतां = यत्सङ्ख्यकानां ग्रहाणां, फलं = अष्टकवर्गसम्बन्धि शुभफलं विद्यते । अत्र किलैतदुक्तं भवति । सहजभावगतो भौमो यावन्मितेभ्यो ग्रहेभ्यः शुभफलो भवति परं शत्रुग्रहं नीचगतग्रहं त्यक्त्वेति । तावन्तः = तत्सङ्ख्यकाः, सहजाः = सोदराः, स्मृताः = कथितास्तस्य जातस्येति ॥ २० ॥ मंगल तृतीयमें जितने ग्रहोंसे शुभफल वाला (अष्टकवर्गमें) हों, उनमें शत्रु और नीच गत ग्रहोंको छोड़कर शेषग्रहोंके तुल्य भाई कहे ॥ २० ॥ भ्रात्रीदौ स्त्रीग्रहर्क्षस्थौ भ्रातृदौ पुंग्रहर्त्तगौ । सोदरेशकुजौ स्यातां भ्रातृभ्रात्रीसुखप्रदौ ॥ २१ ॥ सोदरेशकुजौ = तृतीयभावेशो मङ्गलश्च यदि स्त्रीग्रहर्क्षस्थौ = स्त्रीग्रहौ शुक्रशशिनौ, तयोः ऋक्षाणि वृषतुलाकर्कटास्तेषु स्थितौ भवेतां तदा, भ्रात्रीदौ = भगिनीप्रदौ स्याताम् तौ यदि पुंग्रहर्क्षगौ = पुंग्रहा भानुक्षितिजगुरुवस्तेषां राशयः = सिंह-मेष-वृश्चिक-धनुः- मीना-स्तेषु स्थितौ तदा, भ्रातृजन्मकरौ भवेताम् । अर्थादेव तौ यदि पुरुषस्त्रीराशिगतौ ( एकः पुरुषराशिस्योऽन्यः स्त्रीराशिस्थश्च) भवेतां तदा भ्रातृभ्रात्रीसुखप्रदौ = भ्रातृभगिन्योः सुखदायिनौ भवेतामिति ॥ २१ ॥ तृतीयेश और मंगल स्त्रीग्रहकी राशिमें हों तो बहिनको देते हैं। यदि दोनों पुरुष ग्रहकी राशिमें हों तो भाईको देवें । ये ही दोनों ग्रह भाई और बहिनका सुख देते हैं ॥२१॥ स्त्रीहोरया वा युवतिग्रहेण युक्ते यदि भ्रातृगृहे विलग्नात् । सहोदरीलाभमुपैति जातः सहोदरं तत्परतोऽन्यथा चेत् ॥ २२ ॥ विलग्नात् = जन्मलग्नात्, भ्रातृगृहे = तृतीयभावे, यदि स्त्रीहोरया = चन्द्रहोरया युक्ते (विषमराशेरपरार्द्धे, समराशेः पूर्वार्द्धे च तृतीयभाव इत्यर्थः) वा युवतिग्रहेण = स्त्रीग्रहेण (चन्द्रेण शुक्रेण वा) युक्ते सति जातो नरः सहोदरीलाभमुपैति । सहोदरं तत्परतोऽन्यथा चेत् । भ्रातृगृहे पुरुषहोरया युक्ते वा पुरुषग्रहेण युक्ते सति जातः सहोदरमुपैति । तत्परत इति स्वकीयजन्मानन्तरं सहोदरीलाभः सहोदरलाभो वा वाच्य इत्यर्थः ॥ २२ ॥ यदि ३ रे भावमें चन्द्रमाकी होरा वा स्त्री ग्रह (चं. शु.) विद्यमान हो तो जातकको
orभ्रात्र्(sandhi of भ्रातुः + अनिष्ट = भ्रातुरनिष्ट! But here it'sभ्रात्रनिष्टorभ्रातुरनिष्ट? Wait, let's look at line 30: लग्नेशकुजसोत्थेशा भ्राthen is thatतwithुandर? Let's zoom into line 30: लग्नेशकुजसोत्थेशा भ्राThen the next letter:तwith aु? And on top of निis there aर्? YES! Look at नि: there is a repha on नि!! भ्रा तु र्नि ष्ट शु भ प्र दाः! WOW, look at that! भ्रातुर्निष्टशुभप्रदाः! Wait, let's re-examine line 30: भ्रा तु र्नि ष्ट शु भ प्र दाः! Yes, भ्रातुर्निष्टशुभप्रदाः` (भ्रातुः + अनिष्ट = भ्रातुरनिष्ट, or भ्रातुः + निष्ट/अनिष्ट? Wait, in line 33: "भ्रातुरनिष्टशुभप्रदाः").
Wait, in line 30,
३७२ सटीकजातकपारिजाते- = मित्रग्रहौ, सन्तौ लग्ने, अथवा सहजभे स्थितौ भवेतां तदा सहोदराणां, विभागं = पार्थ- क्यं ( Portition ) न आहुरायाः । ईदृग्योगे जातस्य सहोदरैः सह प्रेमविच्छेदो न भवत्युत विपुलः प्रेमा भवतीति भावः ॥ २६ ॥ लग्नेश और तृतीयेश यदि एकत्र हों तो भाइयोंमें विशेष प्रेम हो । यदि दोनों परस्पर दृष्टग्रह और बलवान् होकर लग्नस्थ वा तृतीयस्थ हों तो भाइयोंमें विभाग ( भेद ) नहीं होता है ॥ २६ ॥ अथ भ्रात्ररिष्टम् । लग्नेशाऽनुजनायकौ विबलिनावव्योऽन्यशत्रुग्रहौ दुश्चिक्यस्थितकारको च यदि वा दुःस्थानगौ दुर्बलौ ॥ तत्पाके सहजप्रमादकलहं तन्नाशमर्थक्षयं तत् खेटोपगकोपहेतुकलहस्नेहादि सर्वं वदेत् ॥ २७ ॥ लग्नेश-तृतीयेशौ, विबलिनौ, परस्परं शत्रुग्रहौ भवेताम् , यदि वा दुश्चिक्यस्थित- कारकौ = तृतीयगतो ग्रहः, भ्रातृकारकश्च, दुःस्थानगौ = षडष्टव्ययगतौ, दुर्बलौ च भवेतां 'तदा, तत्पाके = योगकर्तृग्रहयोर्दशाकाले सहजप्रमादकलहं भ्रातृणां वैमनस्यात्मककटकं, तन्नाशं = भ्रातृनाशं, अर्थक्षयं = धनहानिं वदेत् । तत्खेटोपगकोपहेतुकलहस्नेहादि सर्वं = तत्तत्खेटनिमित्तकं कलहं प्रेमादि च सकलं ब्रूयादिति ॥ २७ ॥ यदि लग्नेश और तृतीयेश निर्बल तथा परस्पर शत्रु ग्रह हों अथवा तृतीय भावमें स्थित और ३रे भावका कारक यदि दुष्टस्थानमें निर्बल हों तो उनकी दशामें भाइयोंमें प्रमाद तथा कलह हो उनका नाश और धनका क्षय हो । उस ग्रहके कोपसे कलह और प्रेम कहे ॥२७॥ गुरुदृष्टेऽनुजे शुक्रे भ्रातृरक्षणतत्परः ॥ रविदृष्टे बुधे सौम्ये सुहृन्नाशकरो भवेत् ॥ २८ ॥ शुक्रे अनुजे = तृतीयभावगते तस्मिन् गुरुणा दृष्टे च जातो भ्रातृरक्षणौ तत्परो भवेत् । बुधे सौम्ये = तृतीयभावगते तस्मिन् रविणा दृष्टे च सुहृन्नाशकारको भवतीति ॥ २८ ॥ ३येमें शुक्र हो उसे गुरु देखता हो तो भाईकी रक्षामें तत्पर रहे । तृतीयस्थ बुधको सूर्य देखे तो मित्रका नाश करनेवाला हो ॥ २८ ॥ भ्रातृस्थतन्नायककारकाणां नीचारिदुःस्थानसमन्वितानाम् ॥ भुक्तौ दशायां धनसत्त्वनाशं पराजयं भ्रातृविनाशमाहुः ॥ २६ ॥ भ्रातृस्थः = तृतीयभावगतः, तन्नायकस्तृतीयेशः, कारको भ्रातृकारक इत्येषां त्रयाणां, नीचे, अरौ ( शत्रुस्थाने ) दुःस्थाने ( षडष्टव्यये ) समन्वितानां सतां भुक्तौ = अन्तरे, दशायां च धनसत्त्वनाशं = ऐश्वर्य-पराक्रमाणां नाशं, पराजयं, भ्रातृविनाशं च मनीषिण आहुः ॥ २९ ॥ भ्रातृभावस्थ, भ्रातृभावेश और भ्रातृकारक ये यदि नीच, शत्रुराशि तथा दुःस्थानमें हों तो उनकी दशान्तर्दशामें धन-बलका नाश, पराजय, और भाईयोंका नाश होता है ॥२९॥ लग्नेशस्फुटतो विशोध्य सहजस्थानाधिपस्य स्फुटं तन्नक्षत्रगते शनौ तु मरणं तत्सोदराणां वदेत् ॥ तस्माद्धि स्फुटतस्तु मानगृहपे भौमे च संशोधिते राशौ भानुसुते तथैव च चतुर्योगस्फुटांशेऽथवा ॥ ३० ॥ इदानीं शनिस्थित्या भ्रात्ररिष्टमाह-लग्नेशेति । सहजस्थानाधिपस्य = तृतीयभावेश- स्य, स्फुटं राश्यादि, लग्नेशस्फुटतो विशोध्य शेषं कलीकृत्याष्टाविशतभक्तं तदा यन्नक्षत्रं लब्धं स्यात्तन्नक्षत्रे गते शनौ सति, तत्सोदराणां = तत्र योगे जातस्य भ्रातॄणां मरणं वदेत् । सह०
जेशोनलग्नेशमानजन्यनक्षत्रे गतवति मन्दे जातस्य भ्रातरो न जीवन्तीति भावः । तस्मा- दिति । तस्माद्धि स्फुटतः = लग्नेशस्पष्टराश्यादितस्तु मानगृहपं = दशमभावेशं, भौमं च विशोध्य तस्मिन्संशोधिते राशौ, भानुसुते = शनैश्चरे याते सति तथैव फलमर्थात्सोदराणां मरणं स्यादिति । अथवा चतुर्योगस्फुटांशे = चतुर्णां ( कारकः सहजाधीशस्तद्दर्शी तत्र संस्थित इति चतुर्णाम् ) योगस्फुटांशे गतवति शनौ तथैव फलं वाच्यमिति ॥ ३० ॥ Notes—विद्यमाने भ्रात्ररिष्टे उक्तलक्षणलक्ष्णिते शनौ भ्रातृमरणं वाच्यमिति ॥ ३० ॥ स्पष्ट लग्नेशमेंसे स्पष्ट सहजेशको घटाकर शेष राशि आदिसे जो नक्षत्र हो उस नक्षत्रमें शनिके होनेपर उसके सहोदर भाइयोंका मरण कहे। उसी स्पष्ट लग्नेशमें दशमेश और मंगलको घटाकर शेष राशिमें शनि होवे या सहजेश, सहजदर्शी, सहजस्थ और सहजकारक इन चारोंके योग करने