जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 40, कुल 588 में से
संदर्भ में पढ़ें१४ सटीकजातकपारिजाते- रसां=शुक्रशनिसूर्य्यगुरूणामादौ=प्रथमे, नखांशकाः = विंशतिरंशास्त्रिकोणं=मूलत्रिकोणं, पर- तः = विंशतेरूर्ध्वं त्रिंशदंशपर्य्यन्तं स्वमन्दिरमिति । इदमुक्तं भवति—शुक्रशनिरविगुरूणां क्रमेण तुल-कुम्भ-सिंह-धनूराशिषु पूर्वं नखांशाः २० मूलत्रिकोणानि । ततः परं स्वस्व- गृहमिति । अथ चन्द्र-कुज-बुध-राहूणां मूलत्रिकोणादि कथयति । वृषादिभागत्रयं=वृष- राशौ प्रथममंशत्रयमिन्दोश्चन्द्रस्योच्चसंज्ञकं परतः सर्वमवशिष्टं (वृषस्य २७ भागाः) चन्द्रस्य मूलत्रिकोणं भवति । अथ कुजस्य मेषादिगाः=मेषराशेरादिमा द्वादशभागसंज्ञाः = द्वादशांशाः, कोणं = मूलत्रिकोणं, परतोऽष्टादशप्रमाणा अंशाः तस्य स्वभं=स्वगेहं स्यादिति । अथ बुधस्य । कन्यार्द्धं = कन्याराशेरर्द्धं (पञ्चदशभागाः ) शशिरजस्य = बुधस्योच्चं ततो दशांशकाः = पञ्चदशमारभ्य पञ्चविंशतिं यावत्कोणं, ततः शरांशाः = पञ्चविंशतिमारभ्य त्रिंशयावत्स्वर्क्षफलं स्वराशिफलं (स्वगेहमित्यर्थः) च भवति । अथ राहोः । फणिनाय- कस्य = राहोः, कुम्भः=सकलः कुम्भराशिस्त्रिकोणं, नृयुग्मं = मिथुनं, तुङ्गम्=उच्चं, रमणी= कन्या, गृहं स्यात् । तथोक्तं प्रश्नभैरवे राहुकेतुगृहे— “अङ्गीकृतं सौम्यगृहं सुहृत्त्वात्कन्याह्वयं तच्च विधुन्तुदेन । तत्सप्तमं यत् शिखिना गृहीतं मीनाह्वयं चेति बुधा वदन्ति ॥ एवमुक्ते अपि—“स्यात्सिंहिकायतनस्य तुङ्गं नृयुग्मसंज्ञं बुधदैवतञ्च । पुच्छस्य केतोर्गदितं न तुङ्गं तत्कार्मुकाख्यं गुरुदैवतञ्च ॥ इति ॥२६-२८॥ सूर्यादि ग्रहोंके मूलत्रिकोण क्रमसे सिंह, वृष, मेष, कन्या, धनु, तुला और कुम्भ हैं। शुक्र, शनि, सूर्य और बृहस्पतिके राशियोंमें २० अंश तक मूलत्रिकोण, बाद २१ वें अंश- से ३० अंश तक उनकी वे स्वगेह राशि हैं । वृषका तीन अंश चन्द्रमाका उच्च है इसके बाद मूलत्रिकोण है । मङ्गलका मेष राशिके १२ अंश पर्य्यन्त मूलत्रिकोण है, बाद स्वगृह है । कन्याका आधा १५ अंश बुध का उच्च है, बाद १० अंश मूलत्रिकोण है, फिर ५ अंश स्वगृह है । राहुका मूलत्रिकोण कुम्भ है, मिथुन उच्च है और कन्या स्वगृह है ॥२६-२८॥ सूर्यादिमूलत्रिकोणबोधकचक्रम्—
| ग्रह | सूर्य | चन्द्र | मंग. | बुध | बृह. | शुक्र | शनि |
|---|---|---|---|---|---|---|---|
| मूलत्रि- | सिंह | वृष | मेष | कन्या | धनु | तुला | कुम्भ |
| कोण | ५ | २ | १ | ६ | ९ | ७ | ११ |
अथ सूर्यादीनामुच्चनीचराशिनिरूपणपूर्वकमत्युच्चनीचभागनिरूपणम् । मेषो वृषो मकरषष्ठकुलीरमीनाः तौली च तुङ्गभवनानि तदस्तनीचाः ॥ नित्याङ्गनाहरिमयामनुसारिनीरसङ्ख्या दिवाकरमुखादतितुङ्गभागाः ॥ २६ ॥ अथानेन सूर्यादीनामुच्चराशय उच्यन्ते । दिवाकरमुखात् = सूर्यादेः, मेषो वृषो मकर- षष्ठकुलीरमीनास्तौली च तुङ्गभवनानि भवन्ति । यथा सूर्यस्य मेषः । चन्द्रस्य वृषः । भौमस्य मकरः । बुधस्य षष्ठः = कन्या । गुरोः कुलीरः = कर्कः । शुक्रस्य मीनः । शने- स्तौली = तुला चैते तुङ्गभवनानि = उच्चराशयो भवन्ति । तदस्तनीचाः । उच्चानि यानि तेषां सप्तमभवनानि (तुला-वृश्चिक-कर्क-मीन-मकर-कन्या-मेषाः) सूर्यादीनां नीच- संज्ञानि । अथात्र क्रमपठितो राशिः सकल उच्चनीचसंज्ञ उत केचिदंशास्तस्येति सन्देहे आह—नित्याङ्गनाहरिमयानुसारिनीरसंख्या अतितुङ्गभागाः, इति । अत्र— “क-ट-प-य-वर्गैर्भवेरिह पिण्डान्त्यैरक्षरैरङ्काः । न-ञि-च शून्यं ज्ञेयं तथा स्वरे केवले कथितम्” ॥