जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 414, कुल 588 में से
संदर्भ में पढ़ें३८८ सटीकजातकपारिजाते- उक्त तीनों स्थानों (१।४।९) में बलवान् एक भी चतुर्थेश लग्न या लग्नेशका सम्बन्धी हो तो उसकी दशा वाहन देनेवाली होती है ॥ ११० ॥ चतुर्थधर्मायधनाधिनाथा विलग्नसम्बन्धिबलाधिकाश्चेत् । तदीयपाके समुपैति राज्यं क्रमेण भाग्यं धनलाभमर्थम् ॥ १११ ॥ चतुर्थेश-धर्मेश-लाभेश-धनेशाः विलग्नसम्बन्धिनः पूर्णबलाश्च यदि भवेयुस्तदा तदीयपाके क्रमेण राज्यं, भाग्यम्, धनलाभम्, अर्थम् समुपैति । विलग्नसम्बन्धिनो बलयुक्तस्य चतुर्थेशस्य दशायां राज्यम् । तथाभूतस्य धर्मेशस्य दशायां भाग्यम् । तथा भूतस्य लाभेशस्य दशायां धनलाभम् । तथाभूतस्य धनेशस्य दशायाम् अर्थ समुपैति । Notes—अत्र सम्बन्धो बहुसम्मतश्चतुर्विधः प्रोक्तः-स्थानसम्बन्धः १, दृष्टिसम्बन्धः २. मित्रसम्बन्धः ३. सहचरसम्बन्धः ४. इति ॥ १११ ॥ चतुर्थ, नवम, एकादश और द्वितीयके स्वामी लग्नके सम्बन्धी और अधिक बलवाले हों तो उनकी दशामें क्रमसे राज्य-प्राप्ति, भाग्योदय, धनलाभ और कार्यसिद्ध होते हैं ॥१११॥ ते चत्वारोऽधिकबलयुता देहसम्बन्धिनश्चे- देतत्सर्वं भवति विपुलं दुर्बला दुःखदाः स्युः । मिश्रं मिश्रैस्तनुपरिभवः कारको भावनाथो भावाक्रान्तो विगतबलिनश्चेदतिक्लेशदाम्रे ॥ ११२ ॥ ते चत्वारः = चतुर्थधर्मायधनाधिनाथा इति शेषं स्पष्टमेवेत्यलम् ॥ ११२ ॥ पूर्वोक्त चार (४।९।११।२) स्थानोंके स्वामी अधिक बलयुक्त तथा लग्नके सम्बन्धी हों तो उन भावोंके सम्बन्धी फल पूर्ण रूपसे होते हैं । परन्तु यदि वे ही दुर्बल हों तो दुःख देने वाले होते हैं। मिश्रित हों तो मिश्र फल देते हैं। भावका कारक, भावनाथ और भावगत ग्रह बलसे हीन हों तो विशेष कष्टदायक होते हैं ॥ ११२ ॥ वाहनेशेऽरिनीचस्थे दुःस्थे धर्माधिपेक्षिते । दुर्दुर्वाहनसम्प्राप्तिश्चलवाहनताऽपि वा ॥ ११३ ॥ धर्मकर्मविलग्नस्थास्तुङ्गोपगशुभग्रहाः । लग्नाधिपेन संदृष्टा यानान्ते दुःखमाप्नुयात् ॥ ११४ ॥ वाहनेशे = चतुर्थेशे शत्रुगृहे, नीचे, दुःस्थे (षष्ठष्टव्ययगे) च तस्मिन्धर्माधिपेन दृष्टे जातस्य दुष्टवाहनस्य सम्प्राप्तिः, अपि वा चलवाहनता = चञ्चलवाहनप्तिः वक्तव्या । अत्र दुष्टसैन्यस्य चलसैन्यस्य वा प्राप्तिरपि वक्तव्या । तथा सर्वार्थचिन्तामणौ- "दुःस्थे विमूढे यदि वाहनेशे भाग्येश्वरेणापि समीक्षिते वा । दुर्वाहिनी चञ्चलवाहिनी वा लाभाधिपेनापि समीक्षिते वा" इति ॥ तुङ्गोपगशुभग्रहाः = स्वकीयोच्चराशियाताः शुभग्रहाः, यदि धर्मकर्मविलग्नस्था भवेयु- स्तथाभूता लग्नाधिपेन संदृष्टाश्च भवेयुस्तदा जातो यानान्ते = वाहनान्ते दुःखमवाप्नुयात् । ईदृग्योगे जातः विदामावसरे वाहनादितो निपातेन कष्टभागभवति । एवमेव सर्वार्थचिन्तामणौ- "कर्मभाग्यविलग्नेषु स्वोच्चे सौम्यग्रहाः स्थिताः । दृष्टेषु वा लग्नपेन यानान्ते दुःखमाप्नुयात्" इति ॥ ११३-११४ ॥ चतुर्थेश शत्रुस्थान या नीचस्थानमें होकर दुष्ट स्थानमें हो उसको नवमेश देखता हो तो खराब वाहन प्राप्त हो वा चल वाहन प्राप्त हो ॥ ११३ ॥ नवमवें, दशमवें और लग्नमें स्थित, उच्चगत शुभग्रह लग्नेशसे संदृष्ट हों तो सवारीके अन्तमें दुःख प्राप्त होता है ॥ ११४ ॥