जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 413, कुल 588 में से
संदर्भ में पढ़ेंतृतीयचतुर्थभावफलाध्यायः ॥१२॥ ३८७ दीर्घायुः शयनासनाम्बरबहुक्षेत्राणि सन्मन्दिरं बन्धुस्नेहमनोज्ञवाहनयशःसौख्यानि कुर्वन्ति ते ॥ १०६ ॥ लग्नादिति । जन्मलग्नाद् वाहनराशिगः = चतुर्थभावगतः, तदधिपः = चतुर्थभावेशः । तद्वीक्षकः = चतुर्थभावद्रष्टा चैते त्रयो ग्रहा बलिनः, स्वोच्चराशिषु, स्वराशिषु, मित्रगृहेषु व्यवस्थिताः केन्द्रत्रिकोणायेषु ( १।४।७।१०।९।५।११ ) गता भवेयुस्तदा ते जातस्य दीर्घायुः शयनासनाम्बरबहुक्षेत्राणि सन्मन्दिरं बन्धुस्नेहमनोज्ञवाहनयशःसौख्यानि कुर्वन्ति ॥ चतुर्थस्थ, चतुर्थेश और चतुर्थदर्शी ये तीनों ग्रह यदि स्वोच्च, स्वगृह या मित्रगृहमें प्राप्त होकर बली हों, और तीनों ग्रह केन्द्र, त्रिकोण या एकादशमें हों तो वे ग्रह जातककी दीर्घायु और शयन-आसन-वस्त्र-बहुतक्षेत्र-उत्तमगृह-बन्धु स्नेह-मनोज्ञ वाहन-यश-और सौख्य को करते हैं ॥ १०६ ॥ स्वोच्चराशिगतश्चान्द्रिः केन्द्रकोणसमन्वितः । विद्यावाहनसम्पत्ति करोति विपुलं धनम् ॥ १०७ ॥ स्वोच्चेति । चान्द्रिः = बुधः, स्वोच्चराशिगतः = कन्यागतः सन् केन्द्रे ( १।४।७।१० ) कोणे वा ( ५।९ ) समन्वितो भवेत्तदा विद्यावाहनसम्पत्ति विपुलं धनं च करोति ॥१०७॥ बुध अपनी उच्च राशिमें होकर केन्द्र या कोणमें हो तो विद्या, वाहन, सम्पत्ति और विपुल धन करनेवाला होता है ॥ १०७ ॥ लग्नेशात्सुखनाथतद्भवगौ भाग्येशभाग्यस्थितौ चत्वारः शुभवर्गगाः सुबलिनस्ते लग्नसम्वन्धिनः । अन्योन्याश्रितवीक्षिता यदि महीपालश्चिरायुः सुखी तेजस्वी चतुरङ्गयानविपुलश्रीराजचिह्नाङ्कितः ॥ १०८ ॥ लग्नेशादिति । लग्नेशो यत्र तिष्ठति तस्मात्