जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 430, कुल 588 में से
संदर्भ में पढ़ें४०४ सटीकजातकपारिजाते- पञ्चमे भावे राहुणा केतुना वा युते वा दृष्टे निर्बले च सति, अथवा तदीशे = पञ्चमभा- वपतौ तथा प्राप्ते (राहुणा केतुना वा युतदृष्टे निर्बले च) सर्पदोषतः = सर्पादेर्मारणादिप्र- त्यवायात्सुतक्षयः स्यादिति ॥ ३६ ॥ गुरुः, पञ्चमेशः, सप्तमेशः, मङ्गलश्चैते यदि संयुताः सन्त एकत्र गताः स्युस्तदा दुर्देवपी- डया = कस्यचित्प्रतिकूलदेवस्य बाधावशात् कन्यापुत्रयोर्नाशं बुधो वदेत् ॥ ३७ ॥ Notes—जन्मकुण्डल्यां सन्तानबाधाकारणमधिगम्य तद्दोषपरिहारार्थं तत्तत्प्रतिकूल- देवादेशराधानादिकं प्रकर्त्तव्यम् । तदा सत्यपि बाधकयोगे सन्ततिसम्भवो भवति “शान्त्या सर्वत्र सदिति” 'तस्माद्धर्म्ममूलादिति' वचनाच्चेति दिक् ॥ ३१-३७ ॥ पुत्र भावको पापग्रह देखता हो तो देवशापसे पुत्रका नाश कहे । षष्ठेशसे युक्त या दृष्ट पुत्रभाव हो तो ब्राह्मणके शापसे पुत्रका संहार कहे ॥ ३२ ॥ पुत्रेश मंगलसे युक्त हो, षष्ठेश उसको देखता हो शुभग्रह न देखता हो तो शत्रुके दोष से पुत्रका क्षय जाने ॥ ३३ ॥ ९ वें स्थानमें पापग्रह हो पंचमेश शनिसे युक्त हो गुलिक त्रिकोणमें हो तो पिताके शाप से पुत्रका नाश कहे ॥ ३४ ॥ ४ र्थ भाव पापग्रहसे युक्त हो, पुत्रेश शनिसे युक्त हो तथा १२।८ स्थान पापयुक्त हो तो माताके दोषसे पुत्रका क्षय हो ॥ ३५ ॥ पांचवाँ स्थान राहु या केतुसे युक्त या दृष्ट हो बलसे रहित हो उसका स्वामी भी उसी प्रकार हो तो सर्पके दोषसे पुत्रका क्षय हो ॥ ३६ ॥ यदि गुरु, पुत्रेश, सप्तमेश और मंगल सम्मिलित हों तो दुष्टदेवकी पीडासे पुत्री और पुत्रका नाश कहे ॥ ३७ ॥ पुत्रस्थानगतः कश्चित्परिपूर्णबलान्वितः । अदृष्टः पुत्रनाथेन तदा दत्तादयः सुताः ॥ ३८ ॥ पापक्षेत्रगते चन्द्रे पुत्रेशे धर्मराशिगे । दत्तपुत्रस्य सम्प्राप्तिर्लग्नेशस्तु त्रिकोणगः ॥ ३६ ॥ युग्मोदये पुत्रनाथश्चतुर्थस्थानगोऽपि वा । मन्दांशकसमारूढो दत्तपुत्रो भविष्यति ॥ ४० ॥ युग्मांशे भानुजांशे वा पुत्रेशोऽर्केन्दुजान्वितः । दत्तपुत्रस्य सम्प्राप्तिस्तस्मिन्योगे भविष्यति ॥ ४१ ॥ मन्दांशे पुत्रराशीशः स्वराशौ गुरुभार्गवौ । पूर्वं दत्तसुतप्राप्तिः पुनर्नार्याः पुनः सुतः ॥ ४२ ॥ मन्दांशकस्थिताः खेटाः शुक्लपक्षबलाधिकाः । गुरुर्यदि सुतस्थाने दत्तपुत्रेण सन्ततिः ॥ ४३ ॥ इदानीं कांश्चिद्दत्तपुत्रयोगानाह—पुत्रस्थानगत इत्यादिषड्भिः । परिपूर्णबलान्वि- तः = पूर्वोक्तसकलबलशाली कश्चिद् ग्रहः, पुत्रस्थानगतः = पञ्चमभावगतः पुत्रनाथेन=पञ्चमे- शेन, अदृष्टो भवेत्तदा तस्य जातस्य दत्तादय एव सुता भवन्ति नौरसा इति ॥ ३८ ॥ चन्द्रमाः पापग्रहराशिगतः, पञ्चमेशः-नवमभावगतः, लग्नेशस्तुत्रिकोणगतः स्यात्तदा दत्तपुत्रस्य सम्प्राप्तिर्भवति ॥ ३९ ॥ पुत्रनाथः = पञ्चमेशः युग्मोदये = समराशिके लग्ने, वा चतुर्थस्थानगोऽपि मन्दांशक- समारूढः = शनेः ( मकरकुम्भयोरन्यतरस्य ) नवांशे विद्यमानः स्यात्तदा जातस्य दत्त- | पुत्रो भविष्यति ॥ ४० ॥