जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 551, कुल 588 में से
संदर्भ में पढ़ेंशुभामशुभां वा दशां तर्कयेज्ज्ञश्चयेत् । यस्य ग्रहस्य शुभाशुभदशायां यादृक् शुभमशुभं वा फलमुक्तं, वर्त्तमानकाले तादृक् फलमवलोक्य तद्ग्रहसम्बन्धिनी तथा दशाऽवगन्तव्येति । अथ बलरहितानां दशासु न यावदुक्तं फलं फलतीत्युच्यते । परिणमति फलोक्तिः स्वप्न- चिन्तास्ववीर्यैः । अवीर्यैः=बलहीनैः ग्रहैर्यानि शुभाशुभानि फलानि दीयन्ते तेषां फलोक्तिः= फलप्राप्तिः, स्वप्ने=स्वप्नावसरे, चिन्तायां=मनोभिलाषे वा परिणमति = अनुभूयते । यथा कश्चिद् ग्रहः सिंहासनारोहणफलदो निर्बलो भवेत्तदा स्वप्ने तत्फलपक्तिर्वाच्या, अर्था- दसो नरो हि कदाचित्स्वप्नावस्थायाम् 'अहं सिंहासनारूढोऽस्मि' इत्येवमनुभूयात् । वा तस्य मनोरथेनैव पूर्तिर्भविष्यतीति वाच्यम् ( बृहज्जातकम ) ॥ १३ ॥ शुभफल देनेवाली दशामें जातककी उसी प्रकारकी अन्तरान्मा होती है तथा अनेक प्रकारके सुख-धनकी प्राप्ति होती है। कहे हुए फलोंकी प्राप्ति देखकर वर्तमान दशा समझनी चाहिये । यदि ग्रह निर्बल हों तो उनके फलकी प्राप्ति स्वप्नकी भावनामें कहनी चाहिये १३ पाकस्वामिनि लग्नगे सुहृदि वा वर्गेऽस्य सौम्येऽपि वा प्रारब्धा शुभदा दशा त्रिदशषड्लाभेषु वा पाकपे । मित्रोच्चोपचयत्रिकोणमदने पाकेश्वरस्य स्थित- श्चन्द्रः सत्फलबोधनानि कुरुते पापानि चातोऽन्यथा ॥ १४॥ अनेन श्लोकेन दशायाः शुभाशुभत्वमाह—पाकस्वामिनीति । पाकस्य = दशायाः, स्वामी=पाकस्वामी, तस्मिन् ( दशापतौ ) लग्नगे=दशारम्भकालिकलग्नगते सति, वा सुहृ- दि=पाकेश्वरस्य यन्मित्रं तस्मिन्, दशारम्भकाले लग्नगे सति प्रारब्धा दशा शुभदा भव- ति । अथवाऽस्य पाकेश्वरस्योक्तो यो वर्गः ( षड्वर्गः, सप्तवर्गः, दशवर्गो वा ) तस्मिंस्तल्ल- ग्नगते वा कस्मिंश्चिच्छुभग्रहे लग्नगते सति प्रारब्धा दशा शुभदा स्यादिति । अपि वा पाकपे = दशापतौ, लग्नात् त्रिदशषड्लाभेषु स्थिते शुभदा दशा स्यात् । अथ पाकेश्वरस्य = दशापतेः मित्रराशौ, उच्चराशौ, उपचयराशिषु ( ३।६।१०।११ ) त्रिकोणे (५।९) मदने (७) चैतेषामन्यतम इत्यर्थः । स्थितश्चन्द्रो दशायां सत्फलबोधनानि कुरुते = शुभफलान्युप- स्थापयतीति । अतः = उक्तेभ्योऽन्यथा स्थितश्चन्द्रः पापानि = अशुभफलानि कुरुते । एतत्- श्लोकानुरूपामेव ६।७ श्लोकाविति चिन्त्यम् ( बृहज्जातकम् ) ॥ १४ ॥ दशाधीश लग्नमें हो, वा मित्रगृहमें हो, वा सौम्यवर्गमें हो तो प्रारब्ध दशा शुभफल देती है । अथवा दशापति दशम, षष्ठ या लाभमें हो और दशापतिके मित्र-उच्च-त्रिकोण- सप्तममें स्थित चन्द्रमा हो तो सत् फलोंका ज्ञान कराते हैं। इससे अन्यथा हो तो पापोंको करते हैं ॥ १४ ॥ लग्नादिष्टगृहोपगः स्वभवने तुङ्गे सुहृद्वेश्मवा पाकेशः शुभमित्रवीक्षणयुतस्तत्पाकभुक्तौ शुभम् । केन्द्रे वा यदि कोणगोऽतिशुभदः पापास्त्रिषष्ठायगा- स्तुङ्गाद्योपचयेषु ये बलयुतास्तेषां दशायां शुभम् ॥ १५ ॥ लग्नादिति । पाकेशः=दशापतिः, दशारम्भकाले लग्नादिष्टं ( अभीष्टं ) यद्गृहं तद्गत- श्चेत्स्वभवने = आत्मीयराशौ, तुङ्गे=स्वोच्चेऽथवा सुहृद्वे=स्वमित्रभवने स्थितः सन् शुभग्र- हेण, मित्रग्रहेण वा वीक्षितो युतो वा भवेत्तदा तत्पाकभुक्तौ तद्दशाभोगकाले नराणां तद्भाव- सम्बन्धि शुभं फलं वाच्यम् । अथ दशापतौ केन्द्रे यदि वा कोणगे सति दशायामतिशुभ- दो भवति । अथ च जनने पापाः पापग्रहाः ( सूर्यभौमशनयः ) त्रिषष्ठायगाः ( ३।६।११ भावगताः ) स्युस्तथा ये ग्रहा बलयुताः सन्तः तुङ्गाद्योपचयेषु विद्यमाना भवेयुस्तेषां दशा- यां जनिमतां शुभं फलं भवति । अर्थादेव पापास्त्रिषडायेतरस्थानगाः, ये निर्बला ग्रहास्तुङ्गा-