जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 552, कुल 588 में से
संदर्भ में पढ़ेंदिस्थानरहिताश्च भवेयुस्तेषां दशायामशुभं फलमिति चिन्त्यम् । तथा चोक्तं फलदीपिकायाम्- यद्भावगो गोचरतो विलग्नाद्दशेश्वरः स्वोच्चसुहृद्गृहस्थः । तद्भावपुष्टिं कुरुते तदानीं बलान्वितश्चेज्जननेऽपि तस्य ॥ १५ ॥ लग्नसे इष्टग्रहमें-स्वगृहमें, उच्चमें, मित्रगृहमें, स्थित दशापति शुभग्रह तथा मित्रसे दृष्ट युत हो तो उसकी दशाकी भुक्तिमें शुभ हो । केन्द्र वा कोणमें हो तो अत्यन्त शुभ हो । पापग्रह तृतीय, षष्ठ, एकादशमें हों, उच्च, उपचयमें जो बलवान् हों उनकी दशामें शुभ होता है ॥ १५ ॥ अन्योन्यमित्रग्रहयोर्दशायां भुक्तौ शुभं षड्बलशालिनोस्तु । शत्रुग्रहौ दुर्बलशालिनौ चेत् पाकापहारे तु तयोरनर्थः ॥ १६ ॥ अन्योन्यमिति । अन्योन्यं = परस्परम्, इष्टग्रहयोः = मित्रग्रहयोः, षड्बलशालिनोः = स्वस्वषड्बलसहितयोः, दशायां, भुक्तौ=अन्तर्दशायां च शुभं फलं भवति । एतदुक्तं भवति । यस्य ग्रहस्य दशायां यदीयान्तर्दशा भवति तौ दशान्तर्दशाधिपती ग्रहावन्योन्यं मित्रत्वमुप- गतौ स्वस्वषड्बलयुतौ च भवेतां तदा तद्दशान्तर्दशाकाले शुभं फलं वाच्यम् । अथ तौ चेत् परस्परं शत्रुग्रहौ दुर्बलशालिनौ च भवेतां तदा तयोः पाकापहारे=दशान्तर्दशाकाले अनर्थः= अशुभं फलं भवतीति ॥ १६ ॥ परस्पर मित्रकी दशा भुक्तिमें शुभ फल देते हैं। यदि दोनों परस्पर शत्रुग्रह हों तो उनकी दशामें अनर्थ होता है ॥ १६ ॥ करोति यद्भावगतः स्वपाके तद्भावजन्यं त्वशुभं शुभं वा । शुभं शुभव्योमचरस्य दाये पापस्य दाये त्वशुभं वदन्ति ॥ १७ ॥ सौम्यन्वितग्रहदशाऽतिशुभप्रदा स्यात् पापन्वितस्य विफलं परिपाककाले । मिश्रग्रहेण सहितस्य दशापहारे मिश्रं फलं भवति मिश्रबलान्वितस्य ॥ १८ ॥ करोतीति । पाकपतिः ग्रहः (अन्तर्दशेशः ) दशापतेः सकाशात् यद्भावगतः स्यात् तद्भावजन्यम् अशुभं शुभं वा फलं स्वपाके = स्वान्तर्दशाकाले करोति । तत्र शुभाशुभव्यव- स्थामाह । शुभव्योमचरस्य पाके शुभं फलं तथा पापस्य दाये तु अशुभं फलं भवतीति आर्या वदन्ति । तत्रापि शुभदशायां शुभान्तरे तद्भावजं फलं शुभतरमेवमशुभस्थ दशायां पापान्तरेऽशुभतरमर्थादेव मिश्रे मिश्रं फलमिति । तथा फलदीपिकायाम्— यद्भावगः पाकपतिर्दशेशात् तद्भावजातानि फलानि कुर्यात् । विपक्षरिष्फाष्टमभावगश्चेत् दुःखं विदध्यादितरत्र सौख्यम् ॥ सौम्यन्वितेति श्लोकः सरलार्थः एवेत्यलम् ॥ १७-१८ ॥ कोई ग्रह जिस भावमें प्राप्त हो उस भावजन्य अशुभ-शुभ फलको अपनी दशामें करता है । शुभ ग्रहकी दशामें शुभ, पाप ग्रहकी दशामें अशुभ होना कहते हैं ॥ १७ ॥ शुभग्रहसे युक्त ग्रहकी दशा शुभ फल देती है । पापग्रह युक्त ग्रहकी दशा अशुभ फल परिपाक कालमें देती है । मिश्रबल युत तथा मिश्र ग्रह युत ग्रहकी दशा प्राप्त होने पर मिश्र फल होता है ॥ १८ ॥ यद्धातुखेटस्य दशापहारे तद्धातुवित्तायतिमाहुरार्याः । धातुक्षयं पापवियच्चरस्य पाकेऽभिवृद्धिं शुभदस्य धातोः ॥ १६ ॥ यदिति । यस्य धातोः 'मज्जा-स्नायु-वसेत्यायुक्तस्य' यः खेटः = ग्रहस्तस्य दशापहारे तद्धातुवित्तायतिम् = तत्तद्ग्रहसम्बन्धिधातुभृतीनां परिपाकम् , आर्याः = मनीषिण आहुः । तत्र तद्धातुग्रहदशायां पापवियच्चरस्य, पाके = भुक्तौ ( अन्तर्दशायामिति यावत् ) धातुक्ष- यम् , शुभस्य = शुभग्रहस्य पाके तु धातोरभिवृद्धिमाहुराया इति ॥ १९ ॥