जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 553, कुल 588 में से
संदर्भ में पढ़ेंजिस धातुवाले ग्रहकी दशा हो उस दशामें उसी धातु और वस्त्रकी प्राप्ति होवे यह श्रेष्ठोंने कहा है। पाप ग्रहकी दशामें उस धातुका क्षय होता है। शुभ ग्रहकी दशामें उस धातुकी वृद्धि होती है ॥ १९ ॥ सपत्नखेटोपगतस्य पाके सपत्नवृद्धिं सकलार्थनाशम् । यत्कर्मकर्तृग्रहपाककाले तत्कर्मसिद्धिं प्रवदन्ति सन्तः ॥ २० ॥ यत्कार्यकारिद्युचरस्य दाये तत्कार्यसिद्धिं प्रवदेन्नराणाम् । शुभग्रहोऽसौ यदि कार्यसिद्धिं पापस्तु तत्कार्यविनाशमेव ॥ २१ ॥ सपत्नेति । सपत्नखेटोपगतस्य = बैरिग्रहदशायामुपगतस्य पाके = अन्तर्दशाकाले, सपत्नवृद्धिं = शत्रुवृद्धिं सकलार्थनाशं च वाच्यम् । यत्कर्मकर्तृग्रहपाककाले = यो ग्रहो यस्य कर्मणः कारको भवति तद्ग्रहस्य परिपाकावसरे तस्य शुभाशुभस्य कर्मणः सिद्धिं सन्तो विद्वांसः प्रवदन्ति ॥ २० ॥ यत्कार्यकारिद्युचरस्येत्यस्य श्लोकस्यार्थः स्पष्ट एवेत्यलम् ॥ २१ ॥ शत्रु ग्रहोंकी दशान्तर्दशामें शत्रु की वृद्धि, सम्पूर्ण धनका नाश होता है। जिस कर्मके करने वाले जो ग्रह हों उनकी दशा कालमें उस कर्मकी सिद्धिको सन्तलोग कहते हैं ॥२०॥ जिस कार्यका जो कर्ता ग्रह है उस ग्रहकी दशामें मनुष्योंके उन कार्योंकी सिद्धि कहे। यदि वह शुभग्रह हो तो कार्यसिद्धि हो। यदि पापग्रह हो तो कार्यका विनाश ही होता है२१ राज्यस्थानपराज्यकारकदशा राजप्रसादप्रदा देवव्योमचरस्य पाकसमये तद्देवताराधनम् । धर्माधीशदशागमे सति तपोकर्मादिसिद्धिं वदेत् कर्मेशस्य दशापहारसमये यज्ञादिकर्मोत्सवम् ॥ २२ ॥ राज्येति । राज्यस्थानपस्य=दशमेशस्य, राज्यकारकस्य ग्रहस्य च दशा राजप्रसादप्रदा भवति । राजपुत्रश्चेत्तदा तद्दशायां राज्यं लभते । साधारणो राजप्रसादं ( राज्ञः प्रसन्नतां ) प्राप्नोति । देवव्योमचरस्य = तत्तद्देवात्मकस्य ( ५ आवेशस्य ) ग्रहस्य पाकसमये दशा- न्तर्दशाकाले तत्तद्देवताया आराधनं वाच्यम् । धर्माधीशस्य = नवमेशस्य दशागमे सति तपोकर्मादीनां कर्मणां सिद्धिं वदेत् । कर्मेशस्य = दशमेशस्य दशापहारसमये यज्ञादीनां कर्मणामुत्सवं वाच्यम् । उक्तानां ग्रहाणां दशावसरे तत्तदुक्तं कर्म कृतं चेत् साफल्यमुप- गच्छतीति भावः ॥ २२ ॥ दशमेश और राज्यकारक ग्रहकी दशा राजप्रद होती है। देवता ग्रहके पाकसमयमें उस देवताका आराधन करे। धर्मेशकी दशामें तप धर्मकी सिद्धि कहे। कर्मेशकी दशामें यज्ञ आदि कर्मोत्सव कहे ॥ २२ ॥ सत्त्वादिग्रहपाकभुक्तिसमये तत्तद्गुणो जायते जन्मर्क्षादिनवर्गगग्रहदशा कुर्वीत भूतं फलम् । कर्मर्क्षादिनवर्गगस्य बलिनः पाके भविष्यत्फलं चाधानादिगतस्य सर्वमफलं पाके फलं वा वदेत् ॥ २३ ॥ सत्त्वादीति । सत्त्वादिप्रकृतिमत्तां ग्रहाणां ( द्वितीयाध्याये २६ श्लोको द्रष्टव्यः ) पाक- भुक्तिसमये तत्तद्गुणो जायते ( सत्त्वगुणात्मकग्रहदशायां सत्त्वगुणः, रजसि रजोगुणः, तमसि तमोगुणो भवति मनुज इति ) । जन्मर्क्षादिनवर्गगग्रहदशा = यस्मिन्नक्षत्रे जन्म भवति तज्जन्मर्क्षं तस्मान्नवनक्षत्रगता ग्रहदशा भूतं फलमतीतं फलं कुर्वीत । एतदुक्तं भवति । यो ग्रहो जन्मकाले जन्मनक्षत्रादिनक्षत्रनववर्गगतो भवति तस्य दशायामतीतमेव फलं वाच्यम- 35 र्थात्तद्दशायां वर्त्तमानं फलं नोपलभ्येत । कर्मर्क्षादिनवर्गगग्रहदशा=यस्मिन्नक्षत्रे जन्म तस्मा-