जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 554, कुल 588 में से
संदर्भ में पढ़ें५२८ सटीकजातकापारिजाते- दशमं नक्षत्रं कर्मनाम (अ. ६ श्लो. ७८-८० द्र.) तदादिनवनक्षत्रे गतस्य बलिनो ग्रहस्य दशायां भविष्यत् = भावि फलं वदेत् । अथ आधानादिगस्य = जन्मर्क्षादेकोनविंशं नक्षत्र- माधानसंज्ञकं तदादिनवनक्षत्रे गतस्य ग्रहस्य पाके सर्वं फलमफलं=विफलमेव वा वदेत् । अत्र कर्माधानान्तर्गतग्रहदशाफलमेव दृश्यं भवतीत्यर्थः ॥ २३ ॥ सत्व-रज-तम-गुणवाले ग्रहकी दशामें वह वह गुण होता है (सत्वमें सत्वगुण, रजमें रजोगुण, तममें तमोगुण) जन्म नक्षत्रसे नव नक्षत्र तक प्राप्त ग्रहकी दशा भूत फलको करती है। कर्मसंज्ञे नव नक्षत्रमें बली ग्रहकी दशामें भविष्य फल होता है। आधान आदि नवमें गत ग्रहकी दशामें सब अफल फल कहे ॥ २३ ॥ शीर्षोदयगतः खेटः पाकादौ फलदो भवेत् । पृष्ठोदयस्थः पाकान्ते चोभयोदयगः सदा ॥ २४ ॥ शीर्षोदयगत इति । स्पष्टार्थः ॥ २४ ॥ जो ग्रह शीर्षोदय राशिमें हो वह दशाके आदिमें फल देता है। पृष्ठोदयका ग्रह दशाके अन्तमें फल देवे । उभयोदय राशिका ग्रह सदा फल देता है २४ ॥ षष्ठेशस्य दशा विलापकरणी मृत्युर्विनाशप्रभो- रस्तव्योमचरस्य बन्धुमरणं पाकेऽपहारेऽथवा । सम्पत्साधकमैत्रपाः परममैत्रक्षेमताराधिपा- स्वेतेषामपहारभुक्तिसमये सम्पत्समृद्धिं वदेत् ॥ २५ ॥ षष्ठेशस्येति । षष्ठेशस्य = जन्मलग्नात् षष्ठभावपतेः दशा विलापकरणी = दुःखदात्री भवति । विनाशप्रभोः = विनाशगृहमष्टमो भावस्तत्पतेर्दशायां मृत्युर्भवति । अस्तव्यो- मचरस्य = रविणा सहास्तं गतस्य वाऽस्तभवन-(सप्तमभाव-) मुपगतस्य, सप्तमेशस्य वा ग्रहस्य पाकेऽपहारेऽथवा = दशायामन्तर्दशायां वा बन्धुमरणं वाच्यम् । अत्रोक्त- भावाधिपत्य शुभाशुभत्वे सति फले न्यूनाधिक्यं चिन्तनीयम् । अथ, सम्पत्-साधक- मैत्रपाः, परममैत्र-क्षेमताराधिपौ = सम्पत् ( यस्मिन्नक्षत्रे जन्म तस्माद् द्वितीयेकादशविं- शतितमानि नक्षत्राणि ), साधकं ( जन्मर्क्षात् षष्ठ-पञ्चदश-चतुर्विंशतितमानि ) मैत्रं = (अष्टम सप्तदश-षड्विंशतितमानि ) एषां पतयः, तथा परममैत्रं ( नवमाष्टादशसप्तविंश- तितमानि ) क्षेमतारा ( चतुर्थत्रयोदशाष्टाविंशतितमानि ) एतयोरधिपौ, एतेषां ग्रहाणाम् अप- हारभुक्तिसमये ( अन्तर्दशाकाले ) जातस्य सम्पत्समृद्धि = धनादिवृद्धिं वदेत् । तथा फल- दीपिकायाम्- चौराद् भीतिममर्थतां च दमनं रोगान् बहून् दुःकृतिं भृत्यत्वं लभतेऽपमानमयशः षष्ठेशदाये व्रजम् । वाघातुर्व्यसनं कलत्रविरहं लीहेत्वनर्थागले द्यूनेशे विबलिन्यसत्यभिरति गुह्यामयं चाटनम् । रन्ध्रेशायुषि शोकमोहमदमात्सर्यादिमूर्च्छोच्छ्रिति दारिद्र्यं भ्रमणं वदेदपयशो व्याधीनवत्तां मृतिम् ॥ इति ॥ २५ ॥ षष्ठेशकी दशा विलाप करनेवाली होती है। अष्टमेशकी दशा मृत्यु करनेवाली है। अस्त ग्रहकी दशा अन्तर्दशा बन्धुमरण करती है। सम्पत् (२) साधक (६) मैत्र (८) परममैत्र (९) क्षेम ताराधिप (४) इन सबकी अन्तर्दशाके समय सम्पत् समृद्धि कहे ॥ २५ ॥ त्रिम्यङ्लेख्यैकस्मिन् पापस्तिष्ठति दुर्बलः । तद्दशायां मृतिं विद्यात् ससौम्यो यदि शोभनम् ॥ २६ ॥