भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 95, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 95

वियोनिजन्माध्यायः ॥ ३ ॥ ६६ ओजर्चे पुरुषांशकेषु बलिभिर्लग्नार्कगुर्विन्दुभिः पुञ्जन्म प्रवदेत्समांशकगतैर्युग्मेषु तैर्योषितः । गुर्वकौ विषमे नरं शशिसितौ वक्रश्च युग्मे स्त्रियम् व्यङ्गस्था बुधवीक्षणाच्च यमलौ कुर्वन्ति पक्षे स्वके ॥ २१ ॥ विहाय लग्नं विषमर्क्षसंस्थः सौरौऽपि पुंजन्मकरो विलब्धात् ॥ प्रोक्तग्रहाणामवलोक्य वीर्यं वाच्यः प्रसूतौ पुरुषोऽङ्गना वा ॥ २२ ॥ निषेकार्शादाधानलग्नादष्टमाष्टमगे = अष्टमादष्टमं = लग्नात्तृतीयं तस्मिन् गते सूर्ये सुतोद्भवः (१) । अथवा दिनेश्वरे = सूर्ये आधानलग्नात् त्रिकोणे = नवमपञ्चमयोरन्यतरस्थे सुतोद्भवो वाच्यः (२) । अथवा अस्मिन्नाधानलग्ने शुभग्रहेरवलोकिते युक्ते वा जातो दीर्घायुर्भा- ग्यवान् सर्वविद्यश्च भवेदिति (३) । यथा चक्रेऽस्मिन् सू = (१) योगः । सूं. वा सूं = (२) योगः । गु. च. बु. शु. = (३) योगः ।

[कुण्डली १]

  • लग्न (प्रथम भाव): लग्नम् च.गु.
  • तृतीय भाव: सूं
  • चतुर्थ भाव: बु.
  • सप्तम भाव: शु.
  • नवम भाव: सूं
  • द्वादश भाव: सू.

अथ प्रश्नलग्नादाधानलग्नाज्जन्मलग्नाद्वा स्त्रीपुरुषविभागज्ञानमुच्यते । बलिभिः = सबलैलैग्नार्कगुर्विन्दुभिरोजर्क्षे पुरुषांशकेषु च व्यवस्थितैः । एतदुक्तं भवति । तत्काले लग्नसू- र्यबृहस्पतिचन्द्रमसः पूर्वोक्तैः स्वषड्बलैर्युक्ता विषमराशिविषमनवांशगताश्च भवन्ति, तदा पुंजन्म = पुरुषस्य जन्म प्रवेदेत् । अथ तैरेव लग्नार्कगुर्विन्दुभिः समांशकगतैः=स्त्रीराशिनवां- शस्थितैर्युग्मेषु = स्त्रीराशिषु च स्थितैर्योषितः = स्त्रिया जन्म वाच्यम् । तत्रोभयगतानां बाहु- ल्यात्तत्तज्जन्म । साम्ये च बलाधिक्यपक्षं वदेत् । गुर्वर्कौ = बृहस्पतिसूर्यौ विषमे राशौ नरं जनयतः । शशिशुक्रौ वक्रश्च = चन्द्रशुक्रमङ्गला युग्मे = समराशौ स्थिताः स्त्रियं जनयन्ति । व्यङ्गस्थाः = त एव गुरुसूर्यंशशिशुक्रमौमा द्विशरीरांशस्थास्तत्र बुधवीक्षणाच्च स्वके पक्षे यमलौ = युगलं कुर्वन्ति । अत्रेदमवधेयम्-मिथुनकन्याधनुर्मीनाश्चत्वारो द्विस्रभावास्तत्र मिथुनधनुर्धरौ पुरुषौ, कन्यामीनौ स्त्रियौ, तेन यदि' गुर्वकौ मिथुनधनुंरशगतौ बुधवेक्षितौ च भवतस्तदा पुरुषद्वयं वाच्यम् । एवं कन्यामीनांशगताश्चन्द्रभृगुभौमा यदि बुधेन वीक्ष्यन्ते तदा कन्यायुगलं कुर्वन्तीति । तत्रोभयस्थितौ स्त्रीपुंसोर्मिथुनमर्यादेकः पुमानेका कन्या चेति युगलं ज्ञेयम् ।


पुरुषजन्म (१)

  • प्रथम भाव: ३
  • द्वितीय भाव: २
  • तृतीय भाव: ५ र.
  • चतुर्थ भाव: ६
  • पञ्चम भाव: ७ श.
  • षष्ठ भाव: ८
  • सप्तम भाव: ९ गु.
  • अष्टम भाव: १०
  • नवम भाव: ११ चं.
  • दशम भाव: १२