भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 102, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 102

स० म० कञ्चु० नि० वर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ५३

देवादेशादेव वैशम्पायनः स्नातः कृतआहारश्च देवपादमूलं१ प्रतीहार्य्या नीतः' इत्यभिधाय गते२ च तस्मिन् राजा वैशम्पायनमपृच्छत्—'कच्चित् ३ अभिमतमास्वादितमभ्यन्तरे भवता किञ्चिदश-नजातम् ?' इति ।

सँ४ प्रत्युवाच—'देव किं वा नास्वादितम् ?, आमत्त-कोकिल-लोचनच्छविर्नीलपाटलः कषायमधुरः प्रकाममपापीतो जम्बूफलरसः हरि-नखभिन्न-मत्तमातङ्गकुम्भ-मुक्त-रक्तार्द्रमुक्ता-फलत्विषि खण्डितानि दाडिम॑६बीजानि, नलिनीदल-हरिन्ति द्राक्षाफल-स्वादूनि च दलितानि७ स्वेच्छया प्राचीनामलकीफलानि । किं वा प्रलपितेन बहुना, सर्वमेव देवीभिः स्वयं करतलोप-नीयमानममृतायते' इति ।

'हे देव स्वामिन् ! देव्यो महिष्यः विज्ञापयन्ति सूचयन्ति, देवादेशाद् भवतो नियोगात् एव पुरोऽवलोक्य-मानो वैशम्पायनः शुकः स्नातः पूर्वं कृतस्नानः पश्चात् कृताहारो विहितभोजनः, देवस्य भवतः पादमूलं सन्निधिं प्रतीहार्या द्वारपालिकया अनया नीतः प्रापितः' इत्यभिधाय इत्युक्त्वा तस्मिन् कञ्चुकिनि गते तस्मात् स्थानाद् निष्क्रान्ते सति, राजा शूद्रकः वैशम्पायनं शुकम् अपृच्छत् पृष्टवान्-अभ्यन्तरे अन्तःपुरे भवता त्वया अभिमतम् इष्टं किञ्चित् अशनजातं भक्ष्यवस्तुसमूहः आस्वादितमिति काकुः, भुक्तं किमि-त्यर्थः ? इति कच्चिद् ज्ञातुमभिलषामि 'कच्चित् कामप्रवेदने' इत्यमरः ।

स इति । स वैशम्पायनः प्रत्युवाच उत्तरं ददौ—देव नाथ ! किं वा नास्वादितमिति काकुः ? अर्थात् मद्भक्ष्ययोग्यं सर्वमेव भक्षितमित्यर्थः । आमत्तः मधुपानोनोन्मत्तो यः कोकिलः पिकः 'वनप्रियः परभृतः कोकिलः पिक इत्यपि' इत्यमरः, तस्य लोचनच्छविर्नयनकान्तिः सेव छविर्यस्य स तादृशः नीलश्चासौ पटलः श्वेतरक्तश्चेति नीलपाटलः 'श्वेतरक्तस्तु पाटलः' इत्यमरः कषायोऽम्लश्वासौ मधुरो मिष्टश्चेति कषाय-मधुरः जम्बूफलानां रसोऽन्तर्भूतद्रवः प्रकामं पर्याप्तं यथा स्यात्तथा आपीतः समयदिं पानविषयीकृतः । 'इह... कोकिललोचनच्छवि इत्यत्र लुप्तोपमा ।

हरीति । हरेः सिंहस्य नखरैः नखैः भिन्ना विदारिता ये मत्तमातङ्गानाम् उन्मत्तगजानां कुम्भाः शिरःस्था मांसपिण्डाः तेभ्यो मुक्तानि अपगतानि यानि रक्तार्द्राणि शोणितस्तिग्धानि मुक्ताफलानि मौक्ति-कानि तेषां त्विष इव त्विषः कान्तयो येषां तानि तथोक्तानि, दाडिमबीजानि दाडिमफलबीजानि खण्डि-तानि शकलीकृतानि चञ्चुपुटेन मयेति शेषः । उपमाऽलङ्कारः ।

नलिनीति । नलिनी कमलिनी तस्या दलानि पत्राणि तद्वत् हरिन्ति हरिद्वर्णानि, तथा द्राक्षाफल-वत् मृद्वीकासस्यवत् 'मृद्वीका गोस्तनी द्राक्षा' इत्यमरः, स्वादूनि सुमधुराणि च प्राचीनामलकीफलानि जीर्णधात्रीसस्यानि स्वेच्छया स्वाधीनतया दलितानि चञ्चुपुटेन मर्दयित्वा खादितानीत्यर्थः । इह 'नलिनी-दलहरिन्ति' इत्यत्र 'द्राक्षाफलस्वादूनि' इत्यत्र च लुप्तोपमा, अनयोश्च मिथो नैरपेक्ष्येण संसृष्टिः ।

किं देति । बहुना अधिकेन प्रलपितेन कथितेन किं वा फलं न किमपि प्रयोजनमित्यर्थः । देवीभिः राजदारैः स्वयं न त्वन्यतः करतलोपनीयमानं हस्ततलैः मह्यं दीयमानं सर्वं निखिलमेव वस्तु


आदेशानुसार वैशम्पायन स्नान-भोजन से निवृत्त हो चुका है और प्रतिहारी के साथ आप की सेवा में भेज दिया गया है।' ऐसा कहकर कंचुकी के चले जाने पर राजा ने वैशम्पायन से पूछा—'क्या रनिवास में आप को अपनी इच्छा के अनुसार भोज्य पदार्थों का स्वाद चखने को मिला था ?

वैशम्पायन ने उत्तर दिया—राजन् ! मैंने क्या नहीं खाया ! मधु रस पीकर मतवाली कोयल की आँखों के समान नीले और गुलाबी जामुन के फलों का कसैला और मीठा रस भर पेट पिया है, सिंह के नखों से विदीर्ण हाथी के मस्तक से निकले हुए रक्त में सने मोती के दानों जैसे गुलाबी अनार के दाने चुनर चुनर कर खाए हैं और कमल के पत्तों के समान हरे-हरे तथा अंगूर जैसे मीठे पके हुए आंमलों को इच्छानुसार चबा है। अधिक कहना तो व्यर्थ है, देवियों ने अपने हाथों से ला-लाकर जो कुछ भी दिया था वे सभी अमृत जैसे मीठे बन गये थे।


१. पादमूले। २. अद्यगते। ३. कच्चिद्। ४. स तु। ५. करचरणरचितम्। ६. दाडिमो...। ७. चूर्णितानि, त्रुटितानि, समास्वादितानि।