भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 103, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 103
५४कादम्बरी-[ कथामुखे-

एवंवादिनो वचनमाक्षिप्य नरपतिरब्रवीत्—आस्तां तावत् सर्व्वमेवेदम्, अपनयतु नः कुतूहलम्, आवेदयतु भवानादितः प्रभृति कार्त्स्न्येनात्मनः, जन्म कस्मिन् देशे ? भवान् कथं जातः ? केन वा नाम कृतम् ? का ते माता ? कस्ते पिता ? कथं वेदानामागयः ? कथं शास्त्राणां परिचयः ? कुतः कलाः समासौदिताः ? किं हेतुकं जन्मान्तरानुस्मरणम् ? उत वर-प्रदानम्, अथवा विहर्गवेष-धारी कश्चिच्छन्नो निवसि ? क्व पूर्वमुषितम् ? कियद्वा वयः ? कथं पञ्जरबन्धनम् ? कथं चण्डाल-हस्तगमनम् ? इह वा कथमागमनम् ? ।

वैशम्पायनस्तु स्वयमुपजातकौतूहलेन सबहुमानमवनिपतिना पृष्टो मुहूर्त्तमिव ध्यात्वा सादरमब्रवीत्—देव ! महतीयं कथा, यदि कौतुकंमाकर्ण्यताम्—

अमृतायते सुधावदाचरति स्वादुत्वादित्याशयः। 'अमृतायते' इत्यत्र क्यङ्प्रत्ययत्वादात्मनेपदम् । वर्त्तमान-सामीप्ये 'वर्त्तमानसामीप्ये वर्त्तमानवद्वा' इत्यनेनात्र वर्त्तमानत्वम् । क्यङ्गतोपमालङ्कारः । इति वाक्य-समाप्तौ 'इति हेतुप्रकरणप्रकाशादिसमाप्तिषु' इत्यमरः।

एवमिति। एवं पूर्वोक्तप्रकारेण वादिनः कथयतः शुकस्य वचनं वाक्यम् आक्षिप्य असमाप्तमेव निवार्य अन्यदेव ज्ञातुं नरपती राजा अब्रवीत् उवाच—इदं पूर्वोक्तं सर्वमेव तावत् आदौ आस्तां तिष्ठतु, नः अस्माकं कुतूहलं कौतुकं पक्षिणः सर्वशास्त्रविषयकं ज्ञानं कथं जातमित्याश्चर्यमित्यर्थः 'कौतूहलं कौतुकं च कुतुकं च कुतूहलम्' इत्यमरः, अपनयतु दूरीकरोतु । तदेवोपपादयति-आवेदयेति । कार्त्स्न्येन साकल्येन आदितः प्रभृति जन्मसमयादारभ्य सर्वम् आत्मनः स्वस्य आवेदयतु निरूपयतु । कस्मिन् देशे कुत्र जनपदे जन्म उत्पत्तिः ? । कथं केन प्रकारेण भवान् जातः उत्पन्नः ? केन महात्मना नाम कृतं वैशम्पायने-त्यभिधानं विहितम् ? ते तव का माता जननी ? ते कः पिता जन्मदः ? कथं केन प्रकारेण वेदानाम् ऋग्यजुः-सामाथर्वणाम् आगम उपलब्धिः प्राप्तिरिति यावत् ? कथं शास्त्राणां न्यायमीमांसाप्रभृतीनां परिचयो विशेषवोधः ? कुतः कस्माद्रूपात् कलाः चतुःषष्टिकलाः नृत्यगीतादिविद्याः समासादिताः प्राप्ताः ? किं हेतुकं किन्निमित्तकं जन्मान्तरस्य पूर्वजन्मोदन्तस्य अनुस्मरणं स्मृतिः ? उत किं वरप्रदानं कस्यचिन्महा-त्मनः प्रसादात् वरदानप्राप्तिः येन जन्मान्तरानुस्मरणमित्यर्थः 'आहो उताहो किमुत विकल्पे किं किमूत च' इत्यमरः । अथवा सिद्धि एव किं वा कश्चित् कश्चन विहगवेषधारी पक्षिरूपधारी छन्नो गुप्तः सन् निवसि वासं विदधासि । क्व वा कस्मिन् स्थाने अत्रागमनात्पूर्वम् उषितम् अवस्थितन् ? वा अथवा कियद् वयः वार्षिकावस्था क्यर्थः ? कथं केन प्रकारेण पञ्जरबन्धनं पञ्जरमध्ये ऽवस्थानम् ? कथं चण्डाल-हस्तगमनम् अन्यजहस्तप्राप्तिः ? इह अस्मिन् प्रदेशे कथं वा आगमनम् उपस्थितिः ? इति प्रश्नसमाप्ति-सूचनार्थः । उपरितना ये प्रश्नाः सन्ति तेषु कतिपये शुकस्नानाहारादिसमये तस्मादेवावगतराजपत्नीनां सेविकानां वा सकाशाद्राज्ञाऽवगताः केचिच्च स्वयमूह्रिता ज्ञातव्याः, अन्यया जातिस्मरोऽयं शुक इति ज्ञानाभावे तद्विषयकप्रश्नानुपत्तिः स्यादित्यवधेयम् ।

वैशम्पायनस्त्विति । पुनरर्थे त्विति । तदनन्तरं वैशम्पायनः शुकः सबहुमानं सादरम् उपजातं


इस प्रकार कहते हुए वैशम्पायन को बीच ही में टोककर राजा ने कहा—अच्छा-अच्छा, यह सब तो हुआ अब आप मेरी उत्सुकता मिटाने की कृपा कीजिये। प्रारम्भ से लेकर अबतक अपना पूरा जीवनचरित सुना जाइए। आपने किस स्थान पर और कैसे जन्म लिया ? आपका नामकरण किसने किया ? आपके माता-पिता कौन हैं ? आपने वेदों का ज्ञान और शास्त्रों का अभ्यास कैसे प्राप्त किया ? सभी कलाएँ कहाँ से सीख लीं ? आप में यह पूर्वस्मरणशक्ति (मेधा) पूर्व जन्म के संस्कारों से आयी है या किसी से वरदान रूप में मिली है ? अथवा आप पक्षी के वेश में छिपे हुए कोई महापुरुष (समझौत शास्त्र चेतन) तो नहीं हैं ! आप पहिले (इस पिंजड़े में आने के पहिले) कहाँ रहते थे ? आपकी अवस्था क्या होगी ? आप इस पिंजड़े में कैसे फँस गये ? इस चाण्डाल के हाथ में कैसे पड़े और यहाँ तक कैसे आए ?

राजा के अत्यन्त सम्मान के साथ उत्सुक होकर पूछने पर वैशम्पायन ने कुछ देर सोचकर सादर निवेदन किया—भगवन् ! यह कथा तो बड़ी लम्बी है लेकिन यदि आप इतने उत्कण्ठित हैं तो सुनिए—


१. सर्व्वम् । २. का माता । ३. कः पिता ? ४. सासादिताः । ५. किंद्धेतुकः । ६. विहङ्गवेषः*** । ७. छन्नं । ८. कथं वा । ९. बन्धकि । १० चाण्डाल*** । ११. कौतूहलम् ।