कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 104, कुल 709 में से
संदर्भ में पढ़ेंविन्ध्याटवीवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ५५
(अस्ति पूर्वापर-जलनिधि-वेलावनालग्ना, मध्यदेशालङ्कारभूता, मेखलेव भुवः, वन-करिकुल-मदजल-सेक-संवर्द्धितैरतिविकच-धवल-कुसुमनिकरमत्युन्नतया तारागणमिव, शिखरदेशलग्नमुद्वहद्भिः पादपैरुपशोभिता, मदकल-कुररकुल-दश्यमान-मरिचपल्लवा, करि-कलभ-करमृदित-तमालकिसलयामोदिनी मधुमदोपरक्त-केरली-कपोल-कोमलच्छविना, सञ्चरद्वनदेवता-चरणालक्तक-रस-रञ्जितेनेव पल्लवचयेन संछादिता,)
समुत्पन्नं कुतूहलं कौतुकं यस्य तेन तथोक्तेन स्वयम् आत्मनैव अवनिपतिना भूपतिना पृष्टः कृतप्रश्नो मुहूर्त्तं क्षणं ध्यात्वा चिन्तयित्वा सादरं सबहुमानं पुनः अब्रवीत् उवाच—देव नाथ ! यत्पृष्टं तद्विषयिणी महती विस्तृता इयं कथा वृत्तान्तः । यदि चेत् कौतुकं कौतूहलं तर्हि आकर्ण्यतां श्रूयताम्—
अस्तीति । अस्य दूरस्थेन विन्ध्याटवी नामेतिकर्तृपदेन सम्बन्धः । तथा च विन्ध्याटवी विन्ध्यारण्यं नाम प्रसिद्धमस्तीत्यर्थः, 'अटव्यरण्यं विपिनम्' इत्यमरः । इह प्रथमान्तपदानि विन्ध्याटवीविशेषणानि बोध्यानि । पूर्वापरश्च पूर्वापरौ प्राच्यप्रतीच्याविदग्वर्त्तिनौ यौ जलनिधी समुद्रौ तयोः यद्वेलावनं तटविपिनं तावत्पर्यन्तम् अवलग्ना सम्बद्धा, पूर्वसमुद्रतीरतः पश्चिमसमुद्रतीरं यावत्प्रसृतेत्यर्थः । तत्समये विन्ध्याटवी एवंविधैवासीदित्यवधेयम्, मध्यदेशस्य—
हिमवद्विन्ध्ययोर्मध्ये यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्त्तितः ॥'
इति मनूक्तचित्तदचित्तोत्तरयोर्हिमवद्विन्ध्ययोः पूर्वपश्चिमयोश्च प्रयागकुरुक्षेत्रयोश्च मध्यवर्त्तिस्थानस्य अलङ्कारभूता अनेकप्रकारवृक्षलतासिद्धाश्रमादिपूर्णत्वेन भूषणस्वरूपा मध्यभूषणस्वरूपत्वादेव भुवो मेदिन्याः मेखला रशनादामेव 'स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा' इत्यमरः ।
वनेति । वने अरण्ये ये करिणो हस्तिनः तेषां कुलानि यूथानि तेषां मदजलस्य दानवारिणः सेकेन संवर्द्धितैः वृद्धिमापादितैः, तया अत्युन्नतया अत्युन्नततया शिखरदेशलग्नं शिरोभागसंयुक्तं तारागणं नक्षत्रमण्डलमिव अतिविकचानाम् अतिविकसितानां धवलानां शुभ्राणां कुसुमानां पुष्पाणां निकरं समुदायम् उद्वहद्भिः धारणं कुर्वद्भिः पादपैः वृक्षैः उपशोभिता भूषिता । इह 'शिखरदेशलग्नं तारागणमिव' इत्यत्र जात्युत्प्रेक्षा ।
मदेति । मदजलैः मदोन्मत्तैः कुरराणां मत्स्यनाशनानां कुलानि समूहाः तैः दश्यमानाः चञ्चुपुटेन संदश्य आस्वाद्यमाना मरिचानां कोलकानां पल्लवाः किसलयानि यस्यां सा 'मरिचं कोलकं कृष्णमूपणं धर्मपत्तन्नम्' 'पल्लवोऽस्त्री किसलयम्' इत्यमरः ।
करीति । करिणां हस्तिनां कलभाः त्रिंशद्वर्षीयाश्शावकाः 'कलभः करिशावकः' इत्यमरः, तेषां करः शुण्डादण्डैः मृदितानि मर्दितानि यानि तमालकिसलयानि तापिच्छपल्लवानि 'तमालस्तिलके खड्गे तापिच्छे वरुणद्रुमे' इति मेदिनी, तेषाम् आमोदः सुगन्धिः विद्यते यस्यां सा तादृशी ।
मध्विति । मधु मद्यं तस्य यो मदः पानेन मत्तता तेन उपरक्ताः किञ्चिल्लोहितस्वरूपा ये केरलीनां केरलदेशोत्पन्नानां सुन्दरीणां कपोला गल्लप्रदेशाः तेषामिव कोमला मृद्वी छविः कान्तिर्यस्य तेन, सञ्चरन्तीनाम् इतस्ततो व्रजन्तीनां वनदेवतानाम् अरण्याधिष्ठातृदेवीनां चरणालक्तकरसैः पादस्थितयावकद्रवैः रञ्जितेनेव रक्त्तीकृतेनेव पल्लवचयेन वृक्षलतानां किसलयसमूहेन संछादिता आच्छादिता । इह
समुद्र के पूर्वी किनारे से पश्चिमी किनारे तक लगी हुई मध्य प्रदेश की शोभा बढ़ानेवाली विन्ध्याटवी नाम के वनों की एक पट्टी फैली हुई है। यह पृथ्वी की करधनी के समान प्रतीत होती है। वह मानो जंगली हाथियों के मदजल से ही सींच कर बढ़ाये गये अनेक प्रकार के वृक्षों से सुशोभित थी, जिनकी चोटियों पर खिले हुए श्वेत-पुष्पों के समूह ऊँचाई के कारण तारों के समान प्रतीत होते थे। वहाँ कहीं सुन्दर बगुलों की मतवाली टोलियाँ मरिच के पत्ते नोच-नोच खाती थीं, कहीं हाथियों के बच्चों की सूँडों से मसले गए तमाल के पत्तों से मधुर सुगन्ध निकलती थी, कहीं मदिरा के नशे से लाल हुए केरल की स्त्रियों के कपोलों के समान लाल-लाल सुकुमार पल्लव छाये थे जो वन में घूमनेवाली वनदेवियों के पैरों की महावर से रंगे हुए से प्रतीत होते
१. वेलावलग्ना ।
२. तारका ।
३. प्रदेशसंलग्नम् ।
४. 'छविना' इति पाठः क्वचिन्नास्ति ।
५. पल्लवप्रचयेन ।