भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 17, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 17

१६ प्रस्तावना

दीनामिवातंनिवारणम्' इत्यनेन प्रशंसंस काव्यप्रकाशकारः। विद्वत्स‌माजेषु हि प्रचलिता किंवदन्तीय- मासीद्यद् बाणभट्टस्य विवाहो महाकविमयूरस्य कन्यया ( भगिन्या वा ? ) जात इति। अथैकदास्ताचल- चूड़ावलम्बिनि सति शीतांशुमालिनि, प्रातः प्रवहमानेऽपि शिशिरसमीरे मानमवलम्ब्य समुपविष्टां- स्वदयितामनुनयं विदधद्वाणस्तत्प्रसञ्जनायै तत्कालकल्पितं पद्यं श्रावयितुं प्रवृत्तः। तत्र च—

गतप्राया रात्रिः कृशतनु ! शशी शीर्यत इव प्रदीपोऽयं निद्रावशमुपगतो घूर्णत इव। प्रणामान्तो मानस्त्यजसि न तथापि क्रुधमहो ॥

इति पादोनं पद्यं पठित्वा चरमचरणसङ्गतिं कल्पयंस्तावदेव पापश्याञ्चक्रे। अत्रावसरे घनस्तनित- स्येव गम्भीरस्य महाकविभाषणस्य श्रवणेन विवशान्तःकरणो मयूरकविः स्वप्रतिभाप्रवाहं निरोद्धुमश- क्तस्तदपेक्षितं सुसंगतं चतुर्थचरणम्—

कुचप्रत्यासत्त्या हृदयमपि ते चण्डि ! कठिनम् ॥

इत्येवंरूपं केकानिनादमिव मन्द्रमधुरस्वरेणोदीरयामास। तन्निशम्य सज्जधनुस्तूणं बाणो लक्ष्य- मिवायमपि बाणकविर्निजनाम्नोऽन्वर्थतासमर्थनाय लीलासद्मनो झटिति विनिर्गत्य प्राणाधिकप्रियं मित्र- वरं मयूरकविं समाजगाम । ततोऽस्याः बाणवनिताया रसभङ्गजनितमनःक्षोभवत्याः पातिव्रत्यप्रभावेणा- चिरादेव शापतो मयूरकविः कुष्ठरोगकवलितसर्वाङ्गः संवृत्तः। अथास्य पापरोगस्य समूलमुन्मूलनाय शतसंख्याकपद्यतमपद्यघटित-'मयूरशतक'-नामककाव्यबन्धेन सूर्यनारायणदेवं स्तुत्वा तन्महिम्ना प्रणष्ट- पापरोगः कनकरुचिरगात्रोऽयं मयूरकविः सम्यग्भूतेत्येवमभिप्रायक इतिहासो मेरुतुङ्गाचार्य-कृत-प्रबन्ध- चिन्तामण्यादिग्रन्थे स्थितः।

अथ चैवमपि श्रूयते यद्वाणकविरेवैनं मयूरकविं शशाप पूर्वमतः प्रतिक्रुद्धो मयूरः बाणमपि शशाप। सोऽपि भगवत्या जगज्जननया दुर्गायाः स्तोत्रं 'चण्डीशतक'-नाम्ना निर्माय तच्छापान्मुक्तो बभूवेति। अस्याः किंवदन्त्या जैनग्रन्थेष्वप्युल्लेखो दृश्यतेऽत उपर्युक्तविषये यत्किञ्चिदपि तथ्यमवश्यं भवेदिति द्रढ़ीयान्मे विश्वासः।

श्रीहर्षसमकालिकाः कवयः

अस्मिन्नेव समये 'मानतुङ्ग'-नामको भक्तजैनाचार्यः सञ्जातस्तत्कृत इदानीं जैनधर्मानुयायिषु 'भक्तामरस्तोत्र'-नामको ग्रन्थोऽतीव प्रसिद्धः। अयमपि श्रीहर्षस्यैवाश्रये स्थित आसीत्। थानेश्वराद् दूरे गूर्जरराजधान्यां वलभ्यां श्रीधरसेनस्य राज्यकाले भट्टिकाव्यनिर्मातृभट्टस्वामिन आविर्भावः समज्रनि । कतिचिद्विद्वन्मते गौतमन्‍यायसूत्रोपरि वार्त्तिकरचयितुरुद्योतकरस्य जन्माप्यस्मिन्नेव शतके सञ्जातमिति।

अथ महाकवेर्बाणस्य स्थितिकालः

अत्र हि युक्त्युक्त्या दृढीकरणांयैवं विमर्शो भवति यदेनेन महाकविना स्वयमेव स्वपूर्व- कालवर्त्तिनां कवितत्कृतीनामा‌लङ्कारिकाणाञ्च नामानि स्वीये हर्षचरितप्रस्तावे समुल्लिखितानि। तद्यथा 'व्यासः, वासवदत्ता, भट्टारहरिचन्द्रः, सातवाहनः, सेतुकृतप्रवरसेनः, भासः, कालिदासः, बृहत्कथा, आढ्य- राजश्च' इति । अतश्च प्रमाणान्महाकविरयं षष्ठ्याः शताब्द्या अन्ते सप्तम्याश्च प्रारम्भे समभूदिति निश्चयः सुखेन कर्तुं शक्यतेऽस्माभिः।

अथैतदुत्तरकालवर्त्तिनो ये ये महाकवयः स्वकीयग्रन्थे चैतन्महाकविनामग्रहणं कृतवन्तस्तया तदी- यग्रन्थस्योदाहरणं दत्तवन्तस्तेषां नामानि प्रातिस्विकरूपेण प्रदर्श्यन्ते :—

( १ ) अष्टमशताब्द्यां समुत्पन्नो वामनो हि काव्यालङ्कारसूत्रवृत्तौ—'अनुकरोति भगवतो नाराय- णस्य' इत्यत्रापि—'मन्ये, स्मशब्दः कविना प्रयुक्तो लेखकैस्तु प्रमादात्र लिखितः' इति लिखति।

( २ ) नवमशताब्द्या उत्तरार्धे काश्मीरकावन्तिवर्मणः सभायां विद्यमानः आनन्दवर्धनाचार्यः स्वकीये ध्वन्यालोके कादम्बर्या हर्षचरितस्य च बहुशो नामग्रहणं कृतवान्।

( ३ ) तदनन्तरं कादम्बरीसारकर्त्तुः अभिनन्दस्य नाम क्षेमेन्द्रेण स्वकीये सुवृत्ततिलकाख्ये ग्रन्थे—

अनुष्टुप्सततासक्ता साभिनन्दस्य नन्दिनी । विद्याधरस्य वदने कुलिकेव प्रभावभूः ॥