कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 216, कुल 709 में से
संदर्भ में पढ़ेंउज्जयिनीवर्णनम्-२ ] चन्द्रकला-विद्योतिनीसहिता । २६७
लित-वलय-निकरार्चित-चरणः, प्रलयनल-शिखा-कलाप-कपिल-जटाभार-भ्रान्त-सुरसिन्धुः, अन्धकारिः,^२ भगवान्, उत्सृष्टकैलास-वास-प्रीतिर्महाकालाभिधानः स्वयं प्रतिवसति।
तस्याञ्चैवंविधायां नगर्यां नलं-नहुष-ययाति-धुन्धुमार-भरत-भगीरथ-दशरथैःप्रतिमः, भुजबलार्जितभूमण्डलः, फलित-शक्तित्रयः, मतिमान्, उत्साह-सम्पन्नः, नीतिशास्त्राखिन्न-बुद्धिः, अधीत-धर्मशास्त्रः, तृतीय इव तेजसा कान्त्या च सूर्त्याचन्द्रमसोः, अनेक-सत्त-
तादृशः। मकरध्वजध्वंसेन मदनदाहेन विधुरया तदीयशोकेन व्यग्रया रत्या कामभार्यया प्रसादयन्त्या अनुग्रहप्राप्याशया तमेव प्रसन्नीकुर्वन्त्या सत्या, प्रसारिताङ्गाङ्गोपसंग्रहाय विस्तारितौ करयुगलान् हस्तद्वन्द्वात् विगलितेन प्रच्युतेन वलयनिकरेण गोलस्वरूपभूषणपुञ्जेन अर्चितौ पूजितौ चरणौ पादौ यस्य स तादृशः। तथा प्रलयनलस्य प्रलयकालीनवह्नेः शिखाकलापवत् ज्वालाममूहवत् कपिले पिङ्गलवर्णे जटाभारे जटानिकरे भ्रान्ता निपत्य घूर्णिता सुरसिन्धुः गङ्गा यस्य स तादृशः स्वयं साक्षात् भगवान् अन्धकारिः महेश्वरः, उत्सृष्टा त्यक्ता कैलासस्य हिमाचलशिखरस्थितप्रदेशस्य प्रीतिः स्नेहो येन स तादृशः, तया 'महाकाल' इति अभिधानं संज्ञा यस्य तथोक्तश्च सन्, प्रतिवसति वासं विधत्ते। अथ च कथासरित्सागरेऽपि-
'यस्यां वसति विश्वेशो महाकालवपुः स्वयम्।
शिथिलीकृतकैलास-निवासव्यसनो हरः ॥' इत्यादिना।
स्फुटमेवाभिहितं वर्तते। कैलासादप्युत्तमं स्थानमुज्जयिनीति व्यञ्जितं कविनां। इह 'सुरासुर' इत्याद्ये कविशेपणेनैवाभिमतमाहात्म्यस्फुटप्रतीतौ सत्यामपि तदर्थं एव 'खले कपोतका न्यायात्' विशेषणान्तरोपन्यासनात्समुच्चयालंकारः। तदुक्तं दर्पणे-
'समुच्चयोऽयमेकस्मिन् सति कार्यस्य साधके। खले कपोतकान्यायात् तत्करः स्यात्परोऽपि चेत्।
गुणौ क्रियेवायुगपत्स्यातां यद्वा गुणक्रिये ॥' इति।
'प्रलयनलशिखाकलाप' इत्यत्र च लुप्तोपमा। तथा चोभयोरङ्गाङ्गिभावसङ्करः।
तस्यामिति। एवंविधायां पूर्वोक्तविधिना व्यावर्तिनस्वरूपायां तस्यां नगर्याम् उज्जयिन्यां तारापीडो नाम राजा 'अभूत्' इति वक्ष्यमाणेन क्रियया सम्बन्धः। इह प्रथमान्तानि पदानि राज्ञो विशेषणानि बोद्ध्यानि। नलो नैषधः, नहुषो भूपविशेषो योऽगस्तिशापादजगरः सञ्जातः, ययातिः यदुपिता, धुन्धुमारः कुवलायाश्वः, भरतो दुष्यन्तसुतः, भगीरथः सगरपौत्रः, दशरथो रामपिता, एते प्रतिमा उपमा यस्य स तादृशः। भुजबलेन बाहुवीर्येण अर्जितं स्वाधीनीकृतं भूमण्डलं पृथ्वीमण्डलं येन स तादृशः। फलितं सञ्जातफलं शक्तित्रयं प्रभावोत्साहमन्त्रजातशक्तित्रयं यस्य स तादृशः, कौशल्याद्यारब्धबनावश्यैकाशयः। मतिमान् बुद्धिमान्। उत्साहसम्पन्नः उत्साहमहितः। नीतिशास्त्रेषु व्यवहारशास्त्रेषु अखिन्ना निरन्तरविचारणेनाप्यभ्रान्ता बुद्धिः प्रतिभा यस्य स तादृशः। अधीतं पठितं धर्मशास्त्रं मन्वादिप्रणीतशास्त्रं येन स तादृशः। सूर्याचन्द्रमसोः शशिभास्करयोः तृतीय इव, तेजसा कान्त्या च सूर्ये इव तेजस्वी चन्द्रमा इव च कान्तिमानित्यर्थः। अनेकसत्सन्तुभिः विविधयज्ञैः पूता पवित्रा मूर्तिः शरीरं यस्य स तादृशः, अत्र ससतन्तुपदस्य सप्तभिः सप्तजिव्हच्छन्दोवहमन्त्रैः तन्यत इति व्युत्पत्त्या 'पृषोदरादिषु यथोपदिष्टम्' इत्यनेन साधुत्वं बोध्यम्। उपशमिताः स्वव्यापारदेवपूजनादिना निषिद्धाः सकलः समस्ता जगतां संसाराणाम उपप्लवा उपद्रवा येन स तादृशः। इह 'तृतीय इव तेजसा कान्त्या च' इत्यत्र द्रव्योत्प्रेक्षा।
हाथों से गिरे कङ्गनों से अनुग्रह-लाभकी प्रत्याशासे तिनके चरणों की पूजा की, और प्रलयकालके अग्निवान-समूहके समान पिङ्गलवर्ण जिनके जटा-समूहमें गङ्गा भ्रमन की थी; स्वयं वे ही अन्धकासुरके शत्रु भगवान् महादेव कैलासवासकी प्रीति छोड़कर जिस उज्जयिनीमें महाकाल-नाम धारण कर निवास करते हैं।
इस प्रकारकी उस नगरीमें नल, नहुष, ययाति, धुन्धुमार, भरत, भगीरथ और दशरथके समान प्रजाकी पीड़ा हरने वाला तारापीड नामका राजा था। उसने अपने बाहुबलसे सब भूमण्डलको जीत लिया था। उसकी तीनों शक्तियाँ फलीभूत हुई थीं। वह बुद्धिमान् और उत्साही था। नीतिशास्त्रमें निरन्तर पर्यालोचना करनेसे उसकी बुद्धि बहुत उलझी हुई नहीं थी। उसने समग्र धर्मशास्त्रका अध्ययन किया था। वह तेज और सौन्दर्यमें सूर्य-
१. अमरसिन्धुः । २. अन्धकारानिः । ३. वसति । ४. नल-नहुष*** । ५. **दशरथ-जनमेजयैस्तुल्य-प्रतिमः । ६. *दन्ताग्नि ।