कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 217, कुल 709 में से
संदर्भ में पढ़ें| १६८ | कादम्बरी | [कथामुखे- |
|---|
तन्तु-पूत-मूर्त्तिः, उपशमित-सकल-जगदुपप्लवः, विहाय कमल-वनानि, अवगणय्य नारायण-वक्षःस्थल-वसतिसुखम्, उत्फुल्लारविन्द-हस्तया शूरसमागम-व्यसनिन्या निर्व्याजमालिङ्गितो लक्ष्म्या, महामुनिजन-संसेवितस्य मधुसूदन-चरण इव सुर-सरित्प्र-वाहस्य प्रभवः सत्यस्य, शिशिरस्यापि रिपुजन-सन्तापकारिणः स्थिरस्याप्यविरतं³ भ्रमतः, निर्मलस्यापि मलिनीकृताराति-वनिता-मुखकमल-द्युतेः, अतिधवलस्यापि सर्वजनरागका-रिणः, सुधासूतेरिव जलनिधिरुद्भवो यशसः, पातालवदाश्रितो⁵ निजपक्षक्षतिभीतैः⁶ क्षिति-
विहायेति । कमलवनानि नलिनीखण्डानि विहाय परित्यज्य, नारायणस्य विष्णोः यद्वक्षःस्थले भुजान्तरस्थले या वसतिर्निवासः तस्मात् यत्सुखम् आनन्दः तदवगणय्य अवगणनां विधाय, उत्फुल्लं प्रस्फुटम् अरविन्दं पङ्कजं हस्ते पाणौ यस्यास्तया तादृश्या, अनेन विहारोपकरणानि व्यवहारानुरागयुक्तानीति व्यज्यते। शूरसमागम वीरपुरुषसम्बन्धे व्यसनिन्या आसक्तिमत्या, लक्ष्म्या राजश्रिया निर्व्याजं निरुपध्लम् आलिङ्गित उपगूहितः। इह हि कमलादपि नारायणादपि च सुखनिवासभूमिः राजेति व्यतिरेका-लङ्कारो ध्वन्यते। तथा च तल्लक्षणं दर्पणे—
'आधिक्यमुपमेयस्योपमानान्न्यूनताऽथवा । व्यतिरेकः ।' इति ।
एवं नृपतेरपि अत्यन्तविलासित्वं महाशूरत्वञ्च व्यज्यत इति वस्तुना वस्तुध्वनिश्च ।
महेति । महामुनिजनैः महर्षिभिः संसेवितस्य आचारेण तथा अवगाहनेन धर्मार्जनाय निरन्तरमाश्रितस्य सुरसरित्प्रवाहस्य भागीरथीस्रोतः मधुसूदनचरण इव नारायणपाद इव, सत्यस्य सत्याचारस्य प्रभव उत्पत्तिस्थानम् । इह पूर्णोपमा ।
शिशिरस्येति । शिशिरस्यापि शीतलस्यापि, रिपुजनस्य वैरिवृन्दस्य वियोगिपुरुषस्य च सन्तापकारिणो दाहविधायिन इति विरोधः, ईर्ष्या मदनोद्दीपकतया च चित्तोद्वेगकरस्येति तत्परिहारः । स्थिरस्य अचञ्चलस्यापि अविरतं निरन्तरं भ्रमतोगच्छन इति विरोधः, सर्वस्मिन् समये राशिक्रमे भ्रमणं विधीयमानस्य चेति तत्समाधानम् । निर्मलस्यापि गतमलस्यापि मलिनीकृता करमलीकृतेत्यादिना विरोधः स्वच्छस्यापि विहे पाद् कामन्ययावगाच्च मलिनीकृता अरातिवनितानां रिपुनारीणां वियोगिपलीनाञ्च मुखकमलद्युतिः वदनपद्मकान्तिर्येनेति तत्परिहारः । अतिधवलस्यापि नितान्तस्वच्छस्यापि सर्वजनरागकारिणो निखिललोकरक्तिमविधायिन इति विरोधः, सर्वेषां लोकानां रागकारिण आत्मन्यनुरागविधायिन इति तत्परिहारः । इत्थंभूतस्य सुधासूतेः सुधाकरस्य चन्द्रस्य जलनिधिः सागर इव, इत्थम्भूतस्य यशसः कीर्त्तः उद्भवः उत्पत्तिस्थानम् । अत्रादितश्चतुर्षु विरोधाभासः, तेन सङ्कीर्णा पूर्णोपमा ।
पातालदिति । निजपक्षाणां स्वीयलोकानाम् आत्मीयपक्षभागाञ्च या क्षतिः विरुद्धतारापीडात् क्षयः
चन्द्रके समान एक तीसरा था । अनेक यज्ञ अनुष्ठान करनेसे उसका शरीर पवित्र हो गया था । उसने नानाविध उपायसे संसारके समस्त उपद्रवोंको निवारण कर दिया था। वीरपुरुषोंके संसर्गमें अनुरागिनी तथा हाथमें प्रस्फुटित कमलको धारण करने वाली स्वयं राजलक्ष्मी भी कमलवन छोड़, और नारायणके वक्षःस्थलमें वास करने की सुख-गणना न करके निष्कपट होकर उससे आ लिपटी थी। जैसे विष्णुका चरण बड़े-बड़े मुनियों द्वारा सेवन किए गए मन्दाकिनीके प्रवाहका निर्गम-स्थान है, वह भी उसी तरह मुनिजन-सेवित सत्यका उत्पत्ति-स्थान था। समुद्र जैसे चन्द्रका उत्पत्ति-स्थान है उसी तरह वह यशका उत्पत्ति-स्थान था। चन्द्र जिसप्रकार शीतल होकर विरहीयोंको सन्ताप (कामोद्दीपनद्वारा चित्तमें क्षोभ) उत्पन्न करता है उसका यश भी उसीप्रकार शीतल होकर भी शत्रुओंको सन्ताप (ईर्ष्या-वशतः चित्तका क्षोभ) उत्पन्न करता है। चन्द्र जिसप्रकार स्थिर होनेपर भी सर्वदा भ्रमण करता है (अर्थात् आकाशमें स्थायी होकर नक्षत्र-मालाओंके साथ-साथ भ्रमण करता है) उसका यश उसी प्रकार स्थिर (चिरस्थायी) होकर भी सर्वदा लोगोंके सामने चारो ओर भ्रमण करता था। चन्द्र जिसप्रकार निर्मल होकर भी शत्रुओंकी विरहिणी स्त्रियोंके मुख-कमलकी कान्तिको कामवेदना उत्पन्न कर मलिन कर देता था, उसका यश उसोप्रकार निर्मल होकर भी शत्रुओंके मुख-कमलकी शोभाको विद्वेष-वशते मलिन कर देता था। चन्द्र जिसप्रकार अत्यन्त धवल होने पर भी सभी लोगोंको रक्तिमा (अनुराग) करने वाला था, उसका यश उसी
१. अविगणय्य । २. ऽव्यसनिन्त्या, शूरसमागमैर्व्यसनिन्त्या । ३. नित्यम् अनवरतम् । ४. सागरः । ५. पाताल इव । ६. क्षितिभीतैः ।