भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 219, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 219
१७०कादम्बरी-[ कथायाम्-

यञ्च रति-प्रलोप-जनित-दयार्द्र-हृदय-हर-निर्मितमपरमिव-मकरकेतुममंस्त लोकः। यञ्च जलनिधि-तरङ्ग-धौत-मेखलात् पत्रान्तरै-विचारि-तारागण-द्विगुणिततट-तरु-कुसुम-प्रकरात् उदगिन्दु-विम्ब-विर्गलदमृत-विन्दुसारार्द्रै-चन्दनात् अशिशिर-कर-रथ-तुरङ्ग-खुर-शिखरोल्लेख-खण्डितोल्लसल्लवङ्ग-पल्लवात् ऐरावत-कर-लून-शलकी-किसल-

प्रच्यावयितुमुपक्रान्तम्, कैलासं हिमशिखरमिव धर्मं सुकृतम्, अवष्टभ्य सर्वतः श्रौतस्मार्त्तकर्मकलाप-प्रवर्त्तनेन चरणाङ्गुष्ठनिमग्नेन च अवलम्ब्य, पुनरपि भूयोऽपि स्थिरीचकार सुस्थिरं कृतवान्।

इह 'पशुपतिरिव, दशाननेनेव, कैलासमिव' इति त्रयाणामुपमानानां परस्परमङ्गाङ्गिभावसङ्करः।

पुरा परमशिवभक्तेन लङ्काधिपतिना शिवपूजनाय प्रत्यहं स्वराज़धानीतः कैलासागमनायासं परिह-तुमिच्छुना तं पर्वतमुत्तोल्य स्वराजधानीमेव नीयमानमवलोक्य तत्र भगवान् परमेश्वरः पादाङ्गुष्ठभरेण भूयोऽपि स्वकीयस्थानेऽतिष्ठिपदिति रामायणम्।

यमिति। च पुनः, रतेः कामपत्न्याः प्रलापेन स्वप्राणपतिविनाशोत्पन्नशोकजनितविलापेन, जनिता उत्पादिता या दया करुणा तया आर्द्रं स्विन्नं हृदयं चेतो यस्य तेन तादृशेन हरेण शङ्करेण निर्मितं रचितम् अपरम् अन्यं मकरकेतुं कन्दर्पमिव यं तारापोडम् अमंस्त मनसि कृतवान्। इह 'अपरमिव' इति द्रव्यो-त्प्रेक्षा तया चास्य स्वान्तः रागगीयकं रूपमिति ध्वन्यते इत्यलङ्कारेण वस्तुध्वनिः।

यञ्चेति। च पुनः, पूर्वदिग्वर्त्तमानादुदयाचलाद् दक्षिणदिग्वर्त्तमानात् सेतुबन्धात् पश्चिमदिग्वर्त्त-मानान् मन्दरशैलाद् उत्तरदिग्वर्त्तमानाच्च गन्धमादनपर्वतादारभ्य अवनीपतयः मेदिनीपतयः यं तारापीडं प्रणेमुः नमश्चकुरिति दूरस्थितया क्रियया सम्बन्धः। इह पञ्चम्यन्तानि पदानि तेषां पर्वतानां विशे-षणानि बोध्यानि। तत्र प्रथममुदयपर्वतविशेषणानि प्रतिपादयति—जलनिधीति। जलनिधेः पूर्वसमुद्रस्य तरङ्गैः कल्लोलैः धौता क्षालिता मेखला मध्यभागो यस्य तस्मात् तादृशात्। पत्राणां पर्णानाम् अन्तर्मध्ये विचारिभिः अत्युन्नततया नक्षत्रमण्डलस्पर्शित्वात् सञ्चारिभिः तारागणैः नक्षत्रमण्डलैः द्विगुणितः द्विगुणी-कृतः तटतरूणां स्वोन्नतप्रदेशस्थद्रुमाणां कुसुमप्रकरः पुष्पसमूहो यस्य तस्मात् तादृशात्। उद्यत उद्यं प्राप्नुवत इन्दुबिम्बात् चन्द्रमण्डलात् विगलतां स्रवताम् अमृतबिन्दूनां पीयूषबिन्दूनाम आसारेण धारा-सम्पातेन आर्द्रः क्लिन्नाः चन्दना मलयजवृक्षाः यत्र तस्मात् तादृशात्। अशिशिरकरस्य दिवसकरस्य ये रथतुरङ्गाः स्यन्दननियुक्ताश्वाः तेषां खुरशिखरैः शफाग्रान्तैः य उल्लेखो घर्षणं तेन खण्डितानि त्रुटितानि अत एव उल्लसन्ति देदीप्यवन्ति लवङ्गपल्लवानि लवङ्गकिसलयानि यत्र तस्मात् तादृशात्। ऐरावतस्य इन्द्रहस्तिनः करेण शुण्डादण्डेन लूनानि च्छिन्नानि शल्लकीनां गजभक्ष्यतरुविशेषाणां किसलयानि पल्ल-वानि यत्र तस्मात् तादृशात्। उदयनाम्नः उदयसंज्ञकस्य शैलात् पर्वतात् वा आरभ्येत्यर्थः। इह 'पत्रान्तरविचारि' इत्यादौ 'उदगिन्दुबिम्ब' इत्यादौ 'अशिशिरकर' इत्यादौ च विशेषणे सम्बन्धाभावेऽपि सम्बन्धप्रतिपादनादतिशयोक्तिः, चैषां सर्वत्र परस्परं निरपेक्षत्वेन संसृष्टिः।

द्वारा धर्म मूलसे चलायमान किये जानेपर उसे रोककर राजा तारापीडने श्रुति और स्मृतिका विधान प्रवर्त्तित कर उस धर्मको फिरसे स्थापित किया था।

महादेवने रतिका प्रलाप सुनकर हृदयमें दया उत्पन्न होनेसे मानो दूसरा कामदेव उत्पन्न किया हो ऐसा उस तारापीडको सभी लोग मनमें समझते थे।

समुद्रकी तरङ्गोंसे जिसकी मेखला घुल गई है, पत्तोंके बीच-बीचमें विचरते तारोंसे जिसके तटके वृक्षोंके फूल द्विगुणित हो गये हैं, उदय होते चन्द्रबिम्बमेंसे निःस्रुत हुई अमृतकी बूंदोंकी वर्षासे जहाँ सभी चन्दनवृक्ष गीले रहते हैं, सूर्यके रथमें नियुक्त घोड़ोंके खुरोंकी रगड़से जहाँके लवंग-पल्लवखण्डित हो गये हैं और ऐरावत हाथीकी सूँड़से जहाँ शल्लकी वृक्षके पत्ते तोड़ लिए गए हैं ऐसे उदयाचल तकसे, जहाँ मन्दरोंके तोड़े जानेके कारण लवलीखण्ड थोड़े ही बचे हैं, समुद्रमेंसे निकली हुई जलदेवियाँ जहाँ रामचन्द्रके चरणचिह्नोंकी पूजा करती हैं, पर्वतोंके गिरनेसे चूर्णित राक्षसमूहके टुकड़े जहाँ शिलातलोंपर नक्षत्रपुञ्जके समान प्रतीत हो रहे हैं, एवं जो बानरश्रेष्ठके हाथसे इकट्ठे किये गए सहस्रों पर्वतोंसे निर्मित हुआ है ऐसे सेतुबन्ध तकसे; निर्मल झरनोंके जलसे जहाँ गङ्गाजीके

१···लपजनित । २. अपरं । ३. पत्रान्तः···। ४. क्वचिद् 'वि' पदन्नास्ति । ५. दुर्दिनार्द्र···। ६.···तुरग···। ७···करतल, करनखलोप···करदनरोधः···।