भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 221, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 221

१७२ कादम्बरी- [ कथामुखम्

ञ्जलि-कमल-मुकुलैर्दन्तुरैः शिरोभिश्चरण-नख-मयूरखै-ग्रथितै²-मुकुट-पत्रलता-ग्रन्थयो भयचकित- तरल-त्तारकैऱ्³-द्दशो भुजबल-विजिताः प्रणेमुरवनीपतयः। येन चानेकरत्नांशुजालैः-पल्लविते व्यालम्बि-मुक्ताफलर्जालके दिग्गजनेव कल्पतराव- क्रान्ते सिंहासने भरेण शिलीमुखव्यतिकरकम्पिता लता इव नेमुरायामिन्यः सर्वा दिशः। यस्मै च म्-न्येऽनन्यसाधारणशक्तिसम्पदे सुरपतिरपि स्पृहयाञ्चकार।

शब्दसहितानि शिखराणि सानूनि यस्य तस्मात्। सप्तर्षीणां मरीच्यादिमुनीनां सन्ध्योपासनया सन्ध्या- वन्दनेन पूतानि पवित्राणि प्रस्रवणाम्भांसि निर्झरललिलानि यस्य तस्मात्। तथा वृकोदरेण भीमसेनेन उद्दूलितं छिन्नं यत्सौगन्धिकषण्डं कहारमण्डलं तेन सुगन्धिः सौरभयुक्तो मेखला मध्यप्रदेशो यस्य तस्मात्। गन्धमादनात् तन्नामकपर्वताद् आ आरभ्य। 'सौगन्धिकं तु कहारम्' इत्यमरः।

यस्मिन् समये द्यूतनिर्जिताः सन्तः पाण्डवा द्वैतवनमवात्सुः तस्मिन् समये सौगन्धिककुसुमेषु द्रौपद्या अभिलापः समुत्पन्नः। अथ तन्मनोरथपूर्तये भीमसेनः तत्र सरस्यवसीने नागरावे विदिप तत्कन्यकाजोद्प्याल्यां विवाह सौगन्धिकङ्कुसुमानि गृहीत्वा स्वाश्रनम्याययाविति महाभारतीया कथा।

अथावनीपतीन् विशेषयति—तेनाञ्जलिनलेत्यादिना। सेवाञ्जलय एव आनुगत्यप्रकाशनायं भाले पाणिद्वयसंयोगो एव कमलमुकुलानि पद्मकुङ्कलानि यद्वा सेवाञ्जलयः कमलमुकुलानीव, तैर्दन्तुराणि उच्चावचानि तैः तादृशैः। शिरोभिः नस्तकैरुपरिरताः, चरणनखमयूखैः तारापीडनृपतेः पादपुनर्नूरश्मिनिः ग्रथिताः प्रणामसमये संस्पृष्टाः मुकुटानां राज्ञामेव किरीटानां पत्रलताग्रन्थयः पत्रलतास्वरूपायभागवन्ध- नानि येषां ते तादृशाः। भयेन त्रासेन चकिताः चञ्चलाः तरलाः भास्वराः तारकाः कनीनिका यासां ताः तादृशाः दृशो लोचनानि येषां ते तादृशाः। भुजवलेन तारापीडस्यैव बाहुवीर्येण विजिताः स्वाधीनीकृताः। 'तरलो भास्वरे चले' इति हैमः।

'तरलं चञ्चले पिङ्गे भास्वरेऽपि त्रिलिङ्ककम्। हारमध्यमणौ पुंसि चवानुसारयोः स्त्रियाम् ॥' इति मेदिनी च।

इह 'सेवाञ्जलि-कमल-मुकुल-दन्तुरै' इत्यत्र साधकवाधकमनानानुपलब्भाव उपमारूपकयोः सन्देहल्लङ्करः।

येनेति। दिग्गजेन ऐरावतादिहस्तिना कल्पतरावित्र पारिजातवृत्त इव येन तारापीडेन, अनेकेषां वहूनां रत्नानां स्वनिदेशितानां मणीनाम् अंशुजालैः रश्मिसमूहैः पल्लविते चतुर्दिक्षु प्रसंगाद्विस्तारिते समुत्पन्नविविधमणिकिरणसमूहात्मककिसलये च, तथा व्यालम्बि लम्बमानं मुक्ताफलजालं मौक्तिकसङ् यत्र तयोक्ते सिंहासने राजविष्टरे आक्रान्ते लारूडे धारणे च कृते सति, भरेण तदीयभारेण, शिलीमुखानां तत्पारिजातवृक्षतः उत्पततां भ्रमराणां वाणानाञ्च व्यतिकरेण सम्वन्धेन कम्पिता धूता लता इव तत्पारिजातवृक्षनिकटस्थिता व्रतत्य इव आयामिन्यो विस्तारवत्यः समस्ता इत्यर्थः, सर्वाः समस्ताः दिशो हरितो नेमुः अधोना प्रनताश्च वभूवुः। इह 'कल्पतराविव' 'लता इव' इत्यत्र पूर्णोपमयोः परस्परं सापे- क्षत्वेन सङ्करः।


जीते हुए तथा भयते चकित और चञ्चल दृष्टिवाले बड़े-बड़े राजागण सेवाञ्जलिरूप कमलको करते निष्क्रान्त हुए मस्तकोंसे उस [तारापीड] को प्रणाम करते थे।

जिस दिग्गज द्वारा कल्पवृक्ष पर आक्रमण करने पर जिस समय उसके उड़कर भ्रमरगण निकटवर्ती लताओं पर बैठ जाते हैं, उस समय उसके भारसे कम्पित होकर वे [लताएँ] जिस प्रकार अवनत हो बढ़ी हैं, उसी प्रकार अनेक रत्नोंकी किरणें जहाँ फैल रही थीं और जिसमें मोतियों की जालियाँ बँधी हुई थीं ऐसे सिंहासन पर महाराज तारापीडके बैठने पर उसके भारसे वाणन्दारके मदसे कम्पित होकर सभी दिशाएँ उसके समीप सम्पूर्ण रूपसे अवनत हो गईं।

मुझे ऐसा प्रतीत हो रहा है किस्वयं देवराज इन्द्र भी, तारापीडकी असाधारण शक्ति और सम्पत्तिको देखकर तदनुरूप शक्ति और सम्पत्ति प्राप्त करनेकी इच्छा करता था।


१. मुकुलैर्दन्तुरैः २. ॰मयूखग्रंथितै॰ ३. ग्रथि...। ४. तार...। ५. बवनिपाः। ६. संत्कलत। ७. व्यलम्बि। ८. ॰मुक्ताजालके ९. सर्वदिशः। १० मन्ये हुर...।