कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 222, कुल 709 में से
संदर्भ में पढ़ेंतारापीडवर्णना-३ ] चन्द्रकला-विद्योतिनीसहिता । १७३
यस्माच्च धवलीकृत-भुवनतलः सकल-लोक-हृदयानन्दकारी क्रौञ्चादिव हंसनिवहो निर्जगाम गुणगणः। यस्य चामृतामोद-सुरभिपरिमलया मन्दरोद्धत¹-बहुल-दुग्धसिन्धु-फेन-लेखयेव धवलीकृतसुरासुरलोकया दशसु दिक्षु मुखरितभुवनमभ्रम्यत² कीर्त्या। यस्य चातिदुःसह-प्रताप-सन्ताप-खिद्यमानेव क्षणमपि न सुमोचातपत्रच्छायां³ राजलक्ष्मीः। तथा च यस्य⁴ दिष्टवृद्धिमिव⁵ शुश्राव, उपदेशमिव जग्राह, ⁶मङ्गलमिव बहु मेने, मन्त्रमिव जजाप, आगममिव⁷ न विसस्मार चरितं जनः।
यस्मै चेति। सुराणां देवानां पतिः स्वामी इन्द्र इत्यर्थः, सोऽपि, अनन्यसाधारणी शक्तिसम्पत् यस्य एवम्भूताय यस्मै च तारापीडाय स्पृहयाञ्चकार उक्तरूपा ममापि शक्तिसम्पत् स्यादिति मनोरथं कृतवानित्यर्थः। इत्यहं मन्ये। वाचकपदस्य विद्यमानत्वाद्वाच्या क्रियोत्प्रेक्षा।
यस्मादिति। यस्मात् तारापीडात् क्रौञ्चात् क्रौञ्चपर्वतात् हंसनिवहः सितच्छदस्रूह इव, धवलीकृतं श्वेतीकृतं भुवनतलं विष्टपतलं येन स तादृशः सकललोकानां समस्तजनानां यानि हृदयानि चित्तानि तेषाम् आनन्दकारी प्रमोदकृत् गुणगणो दयादाक्षिण्यादिः निर्जगाम वहिर्निर्ययौ तमनुकर्तुमभिलषतां जनानां चेतांसि इति शेषः। पुरा किल परशुरामो महेश्वराद्धनुर्वेदशिक्षणावसरे क्रौञ्चदारकस्य कार्त्तिकेयस्य स्पर्द्धया शरेण क्रौञ्चनामकं पर्वतं भेदितवान् यद्विवराच्च हंसा निःसृता इति पौराणिकी कथा।
यस्येति। अमृतस्य पीयूषस्य य आमोदो गन्धः तद्वत् मन्थनोत्पन्नपीयूषामोदेन च सुरभिघ्राणतर्पणः परिमलो गन्धो यस्याः तया तादृश्या, तथा धवलीकृताः शुभ्रीकृताः सुरासुरलोकाः संसारव्यापनाद् देवदानवलोकाः मन्थनोधताः सुरासुराश्च यया तया तादृश्या। मन्दरेण भ्रमितमन्दरपर्वतेन उद्धता उत्तोलिता बहुला अधिका या दुग्धसिन्धोः क्षीरसमुद्रस्य फेनलेखा अधिकफक्पङ्किः तया इव, यस्य कीर्त्या यशसा; मुखरितं निजनेयनाशब्दैश्च आलोहनशब्दैश्च शब्दायमानीकृतं भुवनं विष्टपं यस्मिन् कर्मणि तद् यथा स्यात्तथा दशसु दिशासु अभ्रम्यत अगम्यत। यद्यप्यत्र कीर्त्तेः परिमलासम्भवात्तद्वर्णनेन ख्यातिविरुद्धो दोष आपतति तथापि 'कीर्त्यां सौगन्ध्यं वर्ण्यते' इति कविसम्प्रदाय इति भानुचन्द्रप्रतिपादनात् गुण एव, उक्तञ्च दर्पणे 'कवीनां समये ख्याते गुणः ख्यातिविरुद्धता' इति। 'फेनलेखयेवे'त्यत्र पूर्णोपमा।
यस्येति। राजलक्ष्मीः राज्यश्रीः, अतिदुःसहः अतिदुःखेन सोढुं शक्यः प्रतापः कोशदण्डजातं तेज एव प्रतापः सूर्यादितेजः तस्माद् यः सन्तापो घर्मः तेन खिद्यमानेव क्लिश्यमानेव सती क्षणमपि निमेषमात्रमपि यस्य आतपत्रच्छायां राजच्छत्त्रस्य अनातपस्थलं न सुमोच न तत्याज सूर्यादितातपतत्तस्य छायाश्रयगस्यावश्यकत्वादित्याशयः। इहोत्प्रेक्षातिशयोक्त्योः सङ्करः।
तथा चेति। तथा च किञ्चेत्यर्थः। जनो लोकः यस्य चरितं शौर्यानुकम्पादिकं दिष्टवृद्धिमिव ज्योतिःशास्त्रोक्तत्वात् निजभाग्योपचयमिव जानानात् शुश्राव आकर्णितवान् लालसया कौतूहलेन च आम्रहातिशयसम्भवादित्याशयः। गुरोरुपदेशमिव गुरुनिर्देशमिव जग्राह गृहीतवान् द्वयोरप्यभ्युदयसम्पादकत्वप्रत्याशायादित्यभिप्रायः। मङ्गलमिव स्वीयशुभोदयमिव बहु मेने सर्वाधिकत्वेन ज्ञातवान् उभयत्रापि सुखहेतुत्वादिति भावः। उपास्यमन्त्रमिव आराध्यमन्त्रमिव जजाप वारंवारमुच्चरितवान् मुहुर्मुहुस्तदनुष्ठानेन तदनुकरणस्यानायासेन विधातुं शक्यत्वाद् मन्त्रपक्षे चाभिलषितसम्पादकत्वादित्याशयः। आगमम्
पूर्व समयमें जिस प्रकार क्रौञ्चपर्वतसे हंसगण निकले हुए थे, उसी प्रकार दया-दाक्षिण्यादि गुणगण, समस्त संसारको शुक्लवर्ण कर एवं सब लोगोंके हृदयमें आनन्द उत्पन्न कर उस तारापीडसे निकले हुए थे।
अमृतसुगन्धके समान नासिकाके तृप्तिकारक सौरभसे युक्त, एवं मन्दराचलसे उछाले गये दूधवाले समुद्रकी फेनलेखाके समान शुभ्रवर्ण जिसकी दीप्ति, देव एवं असुरलोकको शुभ्रवर्ण कर समस्त भुवनमण्डलको अपनी आलोचनाके शब्दोंसे मुखरित करती हुई दशो-दिशाओंमें भ्रमण करती थी। एवं राजलक्ष्मी, जिसके प्रतापके दुःसह सन्तापसे मानो खिन्न हुई क्षणभर भी उसके राजच्छत्रकी छायाको परित्याग नहीं करती थी। सब लोग दैवज्ञमुखसे अपने सौभाग्यके अभ्युदयके समान उसके चरित्र सुनते थे, गुरुके उपदेशके समान उसकी शिक्षा ग्रहण करते थे, मङ्गलकार्यके समान आदर करते थे, इष्टमन्त्रके समान जप करते थे और शास्त्र-वचनके समान अहर्निश स्मरण करते थे।
१. मन्दरोद्धृत...।
२. अभ्राम्यत्।
३. आतपत्रछायां।
४. यस्य ।
५. दिष्टवृद्धिम ।
६. बहुमङ्गलमिव मेने ।
७. आगमवचनमिव ।