कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 223, कुल 709 में से
संदर्भ में पढ़ें| १७४ | कादम्बरी- | [ कथायाम्- |
|---|
यस्मिंश्च राजनि¹ गिरीणां विपक्षता, प्रत्ययानां परत्वम्, दर्पणानामभिमुखावस्थानम्, शूलपाणिप्रतिमानां दुर्गाश्लेषः, जलधराणां चापधारणम्, ²प्रतीहाराणामसिधारणम्, तैक्ष्ण्यमसिधाराणाम्, ध्वजानामुन्नतिः, धनुषामवनतिः, वंशानां शिलीमुखक्षतिः, ³देवतानां⁴ यात्रा-
अधीताम्नायमिव न विसस्मार न विस्मृतवान् वेदादिविस्मरणे मनुवचनादिना दुष्कृतोदयात्, यशस्तु स्वत एव न विस्मर्यते रमणीयत्वादित्यभिप्रायः । उपमालङ्कारः ।
यस्मिंश्चेति । च पुनः यस्मिंस्तारापीडे राजनि नृपे गिरीणां पर्वतानामेव विपक्षता इन्द्रकर्तृकच्छेदनेन पक्षराहित्यम्, न तु जनानां विपक्षता मिथो वैरभावः तद्धेतोरसत्त्वात् । पृथिव्याम् 'आसीत्' इति अग्रेतनक्रियया सर्वत्र सम्बन्धः । प्रत्ययानां सुप्तिङादीनामेव परत्वं प्रकृतिपरवर्तित्वम्, न तु जनानां परत्वं भिन्नत्वम् अनात्मीयत्वमित्यर्थः, सर्वस्मिन् समये सदाचरणात् । दर्पणानाम् आदर्शानामेव अभिमुखावस्थानं संमुखेऽवस्थितिः, न तु जनानां जनान्तरस्य हननाय सम्मुखावस्थानं तथाविधविद्वेषासत्त्वात्, यद्वा—जनानां पुरतो न कस्याप्यवस्थानम्, सर्वेषां धनधान्यादियुक्तत्वादित्याशयः । 'दर्पणे मुकुरादर्शौ' इत्यमरः । शूलपाणिः मृत्तिकादिरचितमहेश्वरः तत्प्रतिमानां प्रतिकृतीनामेव दुर्गाणां दुर्गाप्रतिमानाम् आश्लेषः संवन्धः, न तु जनानां दुर्गेषु आश्लेष आश्रयः, प्रतिपद्यच्यक्रमणसन्देहस्याविद्यमानत्वात् । जलधराणां मेघानामेव चापधारणम् इन्द्रधनुर्धारणम्, न तु जनानां चापधारणं कार्मुकधारणं संग्रामाभावात् । प्रतीहाराणां द्वारपालानामेव असिधारणं खड्गधारणम्, न तु जनानां जनान्तरहननाय खड्गधारणं वैरिताया एवासत्त्वात् । असिधाराणां खड्गनिशितभागानामेव तैक्ष्ण्यं तीक्ष्णता, न तु जनानां तैक्ष्ण्यम् उग्रप्रकृतित्वं सच्छित्ताप्रभावेण निखिलानामेव मधुरप्रकृतित्वात् । ध्वजानां वैजयन्तीनामेव उन्नतिः ऊर्ध्वमुखत्वेन स्थितिः, न तु जनानाम् उन्नतिः औद्धत्यम् अहङ्काराभावात् । धनुषां कार्मुकाणामेव अवनतिः शिक्षाकाले गुणाकर्षणेन अवनमनम्, न तु जनानाम् अवनतिः अवस्थाच्युतिः निखिलानामेव अत्यध्यवसायेन द्रव्याद्युपार्जनात् । वंशानां वेणूनामेव शिलीमुखैः भ्रमरैः क्षतिः विवरकरणेन हानिः, न तु जनानां .शिलीमुखैः शरैः क्षतिः भेदनं संग्रामाभावात् । देवतानां सुराणामेव यात्रा अर्चायोत्सवः, न तु जनानां ( सैन्यानां ) यात्रा संग्रामाय गमनं प्रतिपक्षासत्त्वात् । 'यात्रा तु यापनेऽपि स्याद्गमनोत्सवयोः स्त्रियाम्' इति मेदिनी । कुसुमानां पुष्पाणामेव बन्धनेषु वृन्तेषु स्थितिः अवस्थानम्, न तु जनानां बन्धने बन्धनभवने ( कारागारे ) स्थितिः, सर्वेषां निरपराधत्वात् । इन्द्रियाणां मनआदिकरणानामेव निग्रहः
'और जिसके राजा होनेपर पृथिवीमें पर्वतगणकी ही विपक्षता ( पक्षहीनता ) थी, किन्तु लोगों के बीचमें विपक्षता ( परस्पर शत्रुता ) नहीं थी । सुप् और तिङ्प्रभृति प्रत्ययोंका ही परत्व ( प्रकृति-परवर्तित्व ) था, किन्तु लोगोंके मध्यमें परत्व [ परस्पर-अनात्मीयता ] नहीं था । दर्पण ही सामने रहते थे, किन्तु प्रहार करनेके लिए एक व्यक्ति दूसरे व्यक्तिके सामने नहीं ठहरते थे । शिवकूर्त्तियोंका ही दुर्गा-आश्लेष [ पार्वतीकी प्रतिमाका संयोग ] था, किन्तु लोगोंको दुर्गाश्लेष [ दुर्ग-आश्लेष = किलेमें जानेकी आवश्यकता ] नहीं था । मेघ ही चापधारण [ इन्द्रधनुष-धारण ] करते थे, किन्तु लोगोंको चापधारण ( युद्धके लिए धनुर्ग्रहण ) करनेकी आवश्यकता नहीं थी । द्वारपालोंका ही खड्गधारण था, किन्तु अन्य लोगोंका नहीं । तलवारकी धाराओंमें ही तीक्ष्णता थी, किन्तु किसीके भी स्वभावमें तीक्ष्णता नहीं थी । ध्वजा ही में उन्नति [ ऊंचा चढ़ना ] थी, किन्तु लोगोंमें उन्नति [ औचित्य ] नहीं थी । धनुषोंमें ही अवनति [ गुणाकर्षणके समयमें नमन ] होता था किन्तु लोगोंकी अवस्थाकी अवनति नहीं होती थी । बाँसोंका ही शिलीमुखद्वारा [ भ्रमरद्वारा ] क्षय होता था, किन्तु लोगोंके मध्यमें किसी की भी शिलीमुखद्वारा क्षति [ बाणद्वारा विदारण ] नहीं होता था । देवताओंकी ही पूजादिके उपलक्षमें यात्रा ( उत्सव ) होती थी, किन्तु युद्धके लिए सैनिकोंकी यात्रा [ प्रस्थान ] नहीं होती थी । फूलोंके ही बन्धनमें [ वृन्तमें = डंठलमें, अथवा मालारूपमें ] स्थिति थी, किन्तु लोगोंमें किसीका बन्धन [ कारागार ] नहीं था । इन्द्रियोंका ही
१. दर्पाणाम् । , २. 'प्रतीहाराणामसिधारणं तैक्ष्ण्यमसिधाराणाम्' इति पाठः क्वचिन्नोपलभ्यते, 'पद्मान् जलदिव्यम्'त्यधिकश्च पाठः क्वचिदुपलभ्यते । ३. शिलीमुखमुखक्षतिः । ४. देवानाम् ।