कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
तारापीडवर्णना-३ ] चन्द्रकला-विद्योतिनीसहिता । १७३
यस्माच्च धवलीकृत-भुवनतलः सकल-लोक-हृदयानन्दकारी क्रौञ्चादिव हंसनिवहो निर्जगाम गुणगणः। यस्य चामृतामोद-सुरभिपरिमलया मन्दरोद्धत¹-बहुल-दुग्धसिन्धु-फेन-लेखयेव धवलीकृतसुरासुरलोकया दशसु दिक्षु मुखरितभुवनमभ्रम्यत² कीर्त्या। यस्य चातिदुःसह-प्रताप-सन्ताप-खिद्यमानेव क्षणमपि न सुमोचातपत्रच्छायां³ राजलक्ष्मीः। तथा च यस्य⁴ दिष्टवृद्धिमिव⁵ शुश्राव, उपदेशमिव जग्राह, ⁶मङ्गलमिव बहु मेने, मन्त्रमिव जजाप, आगममिव⁷ न विसस्मार चरितं जनः।
यस्मै चेति। सुराणां देवानां पतिः स्वामी इन्द्र इत्यर्थः, सोऽपि, अनन्यसाधारणी शक्तिसम्पत् यस्य एवम्भूताय यस्मै च तारापीडाय स्पृहयाञ्चकार उक्तरूपा ममापि शक्तिसम्पत् स्यादिति मनोरथं कृतवानित्यर्थः। इत्यहं मन्ये। वाचकपदस्य विद्यमानत्वाद्वाच्या क्रियोत्प्रेक्षा।
यस्मादिति। यस्मात् तारापीडात् क्रौञ्चात् क्रौञ्चपर्वतात् हंसनिवहः सितच्छदस्रूह इव, धवलीकृतं श्वेतीकृतं भुवनतलं विष्टपतलं येन स तादृशः सकललोकानां समस्तजनानां यानि हृदयानि चित्तानि तेषाम् आनन्दकारी प्रमोदकृत् गुणगणो दयादाक्षिण्यादिः निर्जगाम वहिर्निर्ययौ तमनुकर्तुमभिलषतां जनानां चेतांसि इति शेषः। पुरा किल परशुरामो महेश्वराद्धनुर्वेदशिक्षणावसरे क्रौञ्चदारकस्य कार्त्तिकेयस्य स्पर्द्धया शरेण क्रौञ्चनामकं पर्वतं भेदितवान् यद्विवराच्च हंसा निःसृता इति पौराणिकी कथा।
यस्येति। अमृतस्य पीयूषस्य य आमोदो गन्धः तद्वत् मन्थनोत्पन्नपीयूषामोदेन च सुरभिघ्राणतर्पणः परिमलो गन्धो यस्याः तया तादृश्या, तथा धवलीकृताः शुभ्रीकृताः सुरासुरलोकाः संसारव्यापनाद् देवदानवलोकाः मन्थनोधताः सुरासुराश्च यया तया तादृश्या। मन्दरेण भ्रमितमन्दरपर्वतेन उद्धता उत्तोलिता बहुला अधिका या दुग्धसिन्धोः क्षीरसमुद्रस्य फेनलेखा अधिकफक्पङ्किः तया इव, यस्य कीर्त्या यशसा; मुखरितं निजनेयनाशब्दैश्च आलोहनशब्दैश्च शब्दायमानीकृतं भुवनं विष्टपं यस्मिन् कर्मणि तद् यथा स्यात्तथा दशसु दिशासु अभ्रम्यत अगम्यत। यद्यप्यत्र कीर्त्तेः परिमलासम्भवात्तद्वर्णनेन ख्यातिविरुद्धो दोष आपतति तथापि 'कीर्त्यां सौगन्ध्यं वर्ण्यते' इति कविसम्प्रदाय इति भानुचन्द्रप्रतिपादनात् गुण एव, उक्तञ्च दर्पणे 'कवीनां समये ख्याते गुणः ख्यातिविरुद्धता' इति। 'फेनलेखयेवे'त्यत्र पूर्णोपमा।
यस्येति। राजलक्ष्मीः राज्यश्रीः, अतिदुःसहः अतिदुःखेन सोढुं शक्यः प्रतापः कोशदण्डजातं तेज एव प्रतापः सूर्यादितेजः तस्माद् यः सन्तापो घर्मः तेन खिद्यमानेव क्लिश्यमानेव सती क्षणमपि निमेषमात्रमपि यस्य आतपत्रच्छायां राजच्छत्त्रस्य अनातपस्थलं न सुमोच न तत्याज सूर्यादितातपतत्तस्य छायाश्रयगस्यावश्यकत्वादित्याशयः। इहोत्प्रेक्षातिशयोक्त्योः सङ्करः।
तथा चेति। तथा च किञ्चेत्यर्थः। जनो लोकः यस्य चरितं शौर्यानुकम्पादिकं दिष्टवृद्धिमिव ज्योतिःशास्त्रोक्तत्वात् निजभाग्योपचयमिव जानानात् शुश्राव आकर्णितवान् लालसया कौतूहलेन च आम्रहातिशयसम्भवादित्याशयः। गुरोरुपदेशमिव गुरुनिर्देशमिव जग्राह गृहीतवान् द्वयोरप्यभ्युदयसम्पादकत्वप्रत्याशायादित्यभिप्रायः। मङ्गलमिव स्वीयशुभोदयमिव बहु मेने सर्वाधिकत्वेन ज्ञातवान् उभयत्रापि सुखहेतुत्वादिति भावः। उपास्यमन्त्रमिव आराध्यमन्त्रमिव जजाप वारंवारमुच्चरितवान् मुहुर्मुहुस्तदनुष्ठानेन तदनुकरणस्यानायासेन विधातुं शक्यत्वाद् मन्त्रपक्षे चाभिलषितसम्पादकत्वादित्याशयः। आगमम्
पूर्व समयमें जिस प्रकार क्रौञ्चपर्वतसे हंसगण निकले हुए थे, उसी प्रकार दया-दाक्षिण्यादि गुणगण, समस्त संसारको शुक्लवर्ण कर एवं सब लोगोंके हृदयमें आनन्द उत्पन्न कर उस तारापीडसे निकले हुए थे।
अमृतसुगन्धके समान नासिकाके तृप्तिकारक सौरभसे युक्त, एवं मन्दराचलसे उछाले गये दूधवाले समुद्रकी फेनलेखाके समान शुभ्रवर्ण जिसकी दीप्ति, देव एवं असुरलोकको शुभ्रवर्ण कर समस्त भुवनमण्डलको अपनी आलोचनाके शब्दोंसे मुखरित करती हुई दशो-दिशाओंमें भ्रमण करती थी। एवं राजलक्ष्मी, जिसके प्रतापके दुःसह सन्तापसे मानो खिन्न हुई क्षणभर भी उसके राजच्छत्रकी छायाको परित्याग नहीं करती थी। सब लोग दैवज्ञमुखसे अपने सौभाग्यके अभ्युदयके समान उसके चरित्र सुनते थे, गुरुके उपदेशके समान उसकी शिक्षा ग्रहण करते थे, मङ्गलकार्यके समान आदर करते थे, इष्टमन्त्रके समान जप करते थे और शास्त्र-वचनके समान अहर्निश स्मरण करते थे।
१. मन्दरोद्धृत...।
२. अभ्राम्यत्।
३. आतपत्रछायां।
४. यस्य ।
५. दिष्टवृद्धिम ।
६. बहुमङ्गलमिव मेने ।
७. आगमवचनमिव ।
| १७४ | कादम्बरी- | [ कथायाम्- |
|---|
यस्मिंश्च राजनि¹ गिरीणां विपक्षता, प्रत्ययानां परत्वम्, दर्पणानामभिमुखावस्थानम्, शूलपाणिप्रतिमानां दुर्गाश्लेषः, जलधराणां चापधारणम्, ²प्रतीहाराणामसिधारणम्, तैक्ष्ण्यमसिधाराणाम्, ध्वजानामुन्नतिः, धनुषामवनतिः, वंशानां शिलीमुखक्षतिः, ³देवतानां⁴ यात्रा-
अधीताम्नायमिव न विसस्मार न विस्मृतवान् वेदादिविस्मरणे मनुवचनादिना दुष्कृतोदयात्, यशस्तु स्वत एव न विस्मर्यते रमणीयत्वादित्यभिप्रायः । उपमालङ्कारः ।
यस्मिंश्चेति । च पुनः यस्मिंस्तारापीडे राजनि नृपे गिरीणां पर्वतानामेव विपक्षता इन्द्रकर्तृकच्छेदनेन पक्षराहित्यम्, न तु जनानां विपक्षता मिथो वैरभावः तद्धेतोरसत्त्वात् । पृथिव्याम् 'आसीत्' इति अग्रेतनक्रियया सर्वत्र सम्बन्धः । प्रत्ययानां सुप्तिङादीनामेव परत्वं प्रकृतिपरवर्तित्वम्, न तु जनानां परत्वं भिन्नत्वम् अनात्मीयत्वमित्यर्थः, सर्वस्मिन् समये सदाचरणात् । दर्पणानाम् आदर्शानामेव अभिमुखावस्थानं संमुखेऽवस्थितिः, न तु जनानां जनान्तरस्य हननाय सम्मुखावस्थानं तथाविधविद्वेषासत्त्वात्, यद्वा—जनानां पुरतो न कस्याप्यवस्थानम्, सर्वेषां धनधान्यादियुक्तत्वादित्याशयः । 'दर्पणे मुकुरादर्शौ' इत्यमरः । शूलपाणिः मृत्तिकादिरचितमहेश्वरः तत्प्रतिमानां प्रतिकृतीनामेव दुर्गाणां दुर्गाप्रतिमानाम् आश्लेषः संवन्धः, न तु जनानां दुर्गेषु आश्लेष आश्रयः, प्रतिपद्यच्यक्रमणसन्देहस्याविद्यमानत्वात् । जलधराणां मेघानामेव चापधारणम् इन्द्रधनुर्धारणम्, न तु जनानां चापधारणं कार्मुकधारणं संग्रामाभावात् । प्रतीहाराणां द्वारपालानामेव असिधारणं खड्गधारणम्, न तु जनानां जनान्तरहननाय खड्गधारणं वैरिताया एवासत्त्वात् । असिधाराणां खड्गनिशितभागानामेव तैक्ष्ण्यं तीक्ष्णता, न तु जनानां तैक्ष्ण्यम् उग्रप्रकृतित्वं सच्छित्ताप्रभावेण निखिलानामेव मधुरप्रकृतित्वात् । ध्वजानां वैजयन्तीनामेव उन्नतिः ऊर्ध्वमुखत्वेन स्थितिः, न तु जनानाम् उन्नतिः औद्धत्यम् अहङ्काराभावात् । धनुषां कार्मुकाणामेव अवनतिः शिक्षाकाले गुणाकर्षणेन अवनमनम्, न तु जनानाम् अवनतिः अवस्थाच्युतिः निखिलानामेव अत्यध्यवसायेन द्रव्याद्युपार्जनात् । वंशानां वेणूनामेव शिलीमुखैः भ्रमरैः क्षतिः विवरकरणेन हानिः, न तु जनानां .शिलीमुखैः शरैः क्षतिः भेदनं संग्रामाभावात् । देवतानां सुराणामेव यात्रा अर्चायोत्सवः, न तु जनानां ( सैन्यानां ) यात्रा संग्रामाय गमनं प्रतिपक्षासत्त्वात् । 'यात्रा तु यापनेऽपि स्याद्गमनोत्सवयोः स्त्रियाम्' इति मेदिनी । कुसुमानां पुष्पाणामेव बन्धनेषु वृन्तेषु स्थितिः अवस्थानम्, न तु जनानां बन्धने बन्धनभवने ( कारागारे ) स्थितिः, सर्वेषां निरपराधत्वात् । इन्द्रियाणां मनआदिकरणानामेव निग्रहः
'और जिसके राजा होनेपर पृथिवीमें पर्वतगणकी ही विपक्षता ( पक्षहीनता ) थी, किन्तु लोगों के बीचमें विपक्षता ( परस्पर शत्रुता ) नहीं थी । सुप् और तिङ्प्रभृति प्रत्ययोंका ही परत्व ( प्रकृति-परवर्तित्व ) था, किन्तु लोगोंके मध्यमें परत्व [ परस्पर-अनात्मीयता ] नहीं था । दर्पण ही सामने रहते थे, किन्तु प्रहार करनेके लिए एक व्यक्ति दूसरे व्यक्तिके सामने नहीं ठहरते थे । शिवकूर्त्तियोंका ही दुर्गा-आश्लेष [ पार्वतीकी प्रतिमाका संयोग ] था, किन्तु लोगोंको दुर्गाश्लेष [ दुर्ग-आश्लेष = किलेमें जानेकी आवश्यकता ] नहीं था । मेघ ही चापधारण [ इन्द्रधनुष-धारण ] करते थे, किन्तु लोगोंको चापधारण ( युद्धके लिए धनुर्ग्रहण ) करनेकी आवश्यकता नहीं थी । द्वारपालोंका ही खड्गधारण था, किन्तु अन्य लोगोंका नहीं । तलवारकी धाराओंमें ही तीक्ष्णता थी, किन्तु किसीके भी स्वभावमें तीक्ष्णता नहीं थी । ध्वजा ही में उन्नति [ ऊंचा चढ़ना ] थी, किन्तु लोगोंमें उन्नति [ औचित्य ] नहीं थी । धनुषोंमें ही अवनति [ गुणाकर्षणके समयमें नमन ] होता था किन्तु लोगोंकी अवस्थाकी अवनति नहीं होती थी । बाँसोंका ही शिलीमुखद्वारा [ भ्रमरद्वारा ] क्षय होता था, किन्तु लोगोंके मध्यमें किसी की भी शिलीमुखद्वारा क्षति [ बाणद्वारा विदारण ] नहीं होता था । देवताओंकी ही पूजादिके उपलक्षमें यात्रा ( उत्सव ) होती थी, किन्तु युद्धके लिए सैनिकोंकी यात्रा [ प्रस्थान ] नहीं होती थी । फूलोंके ही बन्धनमें [ वृन्तमें = डंठलमें, अथवा मालारूपमें ] स्थिति थी, किन्तु लोगोंमें किसीका बन्धन [ कारागार ] नहीं था । इन्द्रियोंका ही
१. दर्पाणाम् । , २. 'प्रतीहाराणामसिधारणं तैक्ष्ण्यमसिधाराणाम्' इति पाठः क्वचिन्नोपलभ्यते, 'पद्मान् जलदिव्यम्'त्यधिकश्च पाठः क्वचिदुपलभ्यते । ३. शिलीमुखमुखक्षतिः । ४. देवानाम् ।
तारापीडवर्णना-३ ] चन्द्रकला-विद्योतिनीसहिता । [ १७५
कुसुमानां बन्धनस्थितिः, इन्द्रियाणां निग्रहः, वनकरिणां वारिप्रवेशः, व्रतिनामग्निवारणम्, ग्रहाणां तुलारोहणम्; अगस्त्योदये विषशुद्धिः, केश-नखानामायतिभङ्गः, जलधर-दिवसानां मलिनाम्बरत्वम्, रत्नोपलानां भेदः, मुनीनां योगसाधनम्, कुमारस्तुतिषु तारको-
योगविधानेन वशीकरणम्, न तु जनानां निग्रहो दमनं दुराचाराभावात् । वनकरिणाम् अरण्यवासिगजानामेव वारौ बन्धनस्थले प्रवेशः शिञ्जाय प्रवेशकम्, न तु जनानां वारिजि सलिले प्रवेशः 'यद्यहं दुराचाररतो भवेयं तदा सलिले मग्नः स्याम्' इति शपथग्रहणेनावतरणं, दुराचाराभावात् । 'वारि हीवेरनीरयोः । वारिव्रज्यां मरस्वत्यां गजबन्धनभूभ्यपि' इति हैमः । व्रतिनाम् अग्निहोत्रादिनियमशालिनामेव अग्निधारणं हवनायाग्निपरिग्रहः न तु जनानां 'यद्यहं दुराचाररतः स्यां तदा वह्निना दग्धकरो भवेयम्' इति शपथग्रहणेन अग्निवारणम् अग्निदिव्यं, दुराचाराभावात् । ग्रहाणां सूर्यादीनामेव तुलारोहणं तुलाराशौ संक्रणः, न तु जनानां 'यद्यहं दुराचाररतः स्यां तदाऽधोगामी भवेयम्' इति शपथग्रहणेन तुलादण्डारोहणं, दुराचाराभावात् । अगस्त्योदये सौरभाद्रपदमासाऽवसाने अगस्त्योदय एव विषाणां सलिलानां शुद्धिः स्वच्छता, न तु दुष्कृतोदयसन्देहे जनानां विषेण 'यद्यहं दुराचारी स्यां तदा गरलपानेन निश्चेतन्यो भवेयम्' इत्येव शपथग्रहणपूर्वकविषपानेन शुद्धिः विगतकल्मषत्वप्रख्यापनं, कल्मषसन्देहाभावात् । 'विषं तु गरले तोये' इति विश्वः । केशमखानां कचपुनर्नूणामेव आयतेः विस्तृततायाः भङ्गः कर्त्तनम्, न तु जनानाम् आयतेः उत्तरकालस्य उत्तरसमयस्यादिनः आनन्दस्य भङ्गो नाशः, शुभप्रारब्धत्वात् । जलधरो मेघः तस्य ये दिवसाः तदाच्छन्नदिनानि तेषामेव मलिनाम्बरत्वं मेधावृतत्वात् मलिनगगनत्वम्, न तु जनानां मलिनाम्बरत्वं मलिनवस्त्रयुक्तत्वं धनसम्पन्नभूततया सर्वस्मिन् समये क्षालितवस्त्रनत्वात् । रत्नोपलानां मणीनामेव भेदो ग्रुम्फनतन्तुप्रवेशाय विदारणं रन्ध्रकरणम्, न तु जनानां भेदो भेदनीतिप्रयोगः, वैरिवासत्वेनावश्यकत्वाभावात् । मुनीनां तपस्विनामेव योगसाधनं चित्तवृत्तिनिरोधाय यमाद्यनुष्ठानम्, न तु जनानां योगसाधनम् अन्यजनमार्गाथं विश्वासघातकनिदेशनम्, तथाविधक्रूराचाराभावात् ।
'योगोऽपूर्वार्थसंप्राप्तौ सङ्घतिध्यानयुक्तिषु । वपुःस्थैर्यप्रयोगे च विष्कम्भादिषु भेषजे ॥ विश्लम्भघातके द्रव्योपायसंहननेष्वपि । कार्मणेऽपि च........................' इति मेदिनी ।
कुमारः कार्तिकेयः तस्य स्तुतिषु स्तोत्रेष्वेव तारकस्य तन्नामक-तद्गतदैत्यविशेषस्य उद्धरणम् उद्दाहरणम्, न तु केषामिदपि जनानां दृष्टेषु तारकोद्धरणं लोचनकनीनिकोत्पाटनम्, तथाविधदोषाभावात् दण्डदानुद्याघातुकत्वात् । उपरागरनेः रवेरेव ग्रहगाशङ्का उपरागशङ्का, न तु कस्यापि लोकस्य ग्रहगाशङ्का दोषवशाद् राजदूतैः हठाद्दारगमनम्, दोषाभावात् । शशिनः चन्द्रमस एव ज्येष्ठातिक्रमः ज्येष्ठानक्षत्रमु-
निग्रह (दमन) था, किन्तु लोगोंको दण्ड नहीं दिया जाता था ] जङ्गली हाथियोंका ही वारि (बन्धनस्थान) में प्रवेश था, किन्तु पापके विषयमें शपथपूर्वक किसी अपराधीको जलप्रवेशका दण्ड नहीं दिया जाता था (प्राचीन समयमें जलप्रवेश भी एक प्रकारका दिव्य दण्ड था जिससे किसी मनुष्यका अपराधी या निरपराधी होना सिद्ध होता था)। अग्निहोत्रादि नियमवालोंका ही अग्निधारण (अग्निग्रहण) था, किन्तु पापके विषयमें शपथपूर्वक किसी व्यक्तिका अग्निहरण नहीं था। ग्रहोंका ही तुलारोहण (तुला राशिमें गमन) था, किन्तु पापके विषयमें शपथपूर्वक किसी मनुष्यका तुलारोहण (तराजू पर चढ़ना) नहीं था। अगस्त्योदयमें ही विष-शुद्धि (जलकी स्वच्छता) होती थी, किन्तु पापके विषयमें शपथपूर्वक किसी मनुष्यकी विष-शुद्धि (विष-पान द्वारा शुद्ध्यिप्रकाश) नहीं होता था। केशों और नखोंमें ही आयतिभङ्ग (छेदन करने से वृद्धिका अभाव) होता था, किन्तु लोगोंका आयतिभङ्ग (बुढ़ापेमें सुखभोगका अभाव) नहीं होता था। मेधाच्छन्न दिनोंमें ही मलिनाम्बरत्व (आकाश मलिन) होता था, किन्तु लोगोंमें मलिनाम्बरत्व (वस्त्र मलिन) नहीं था। मणियों में ही भेद (ग्रन्थनसूत्रके प्रवेशके लिए छिद्रकरण) था, किन्तु लोगोंके सम्बन्धमें भेद (परस्पर भेदनीति प्रयोग = विरोध) नहीं था। मुनियोंका ही योगसाधन (योगसाधन = चित्तका निरन्तर बाह्यवृत्तिसे रोकना) था, किन्तु किसीकी हत्याके लिए योगसाधन (विश्वासघातक प्रेरणा) नहीं था। स्वामिकार्त्तिकेयकी स्तुतिमें ही तारकोद्धार (तारकासुरका उदाहरण) दिया जाता था, किन्तु दण्डके समय किसीका भी तारकोद्धरण (लोचनकनीनिका = आँखकी पुतलीका कत्लादन) नहीं होता
१. प्रवेशाः, इत्येवं च 'नेष्टन्दनस्थिति' रा' इत्यधिकः पाठः क्वचिदुपलभ्यते । २. व्रतिनामग्निपरिग्रहम् । ३. विषविशुद्धिः । ४. जलद । ५. योगधारणम् ।
१७६ कादम्बरी- [ कथायाम्-
द्धरणम्, उष्णरश्मेर्ग्रहणाशङ्का शशिनो ज्येष्ठातिक्रमः, महाभारते दुःशासनापराधकर्णनम्, वयःपरिणामे दण्डग्रहणम्, असि-परिवारेषु³ कलङ्कयोगः, कामिनी-कुच⁴पत्रभङ्गेषु वक्रता, करिणां दान-विच्छित्तिः, अक्षक्रीडासु शून्यगृह-दर्शनम्, पृथिव्यामासीत्।
तस्य वै राज्ञः निखिल-शास्त्र-कलावगाह-गम्भीरबुद्धिः, आ शैशवादुपारूढ-निर्भर-
हृद्य मूलनक्षत्रादौ प्रवेशः, न त्वन्यस्य कस्य चन ज्येष्ठानाम् अवस्था वृद्धानां सोदरादीनाम् अतिक्रमः तदादेशोल्लङ्घनम्, शिष्टत्वात्। महाभारते तन्नामकपञ्चमवेद एव दुःशासनस्य दुर्योधनानुजस्य अपराधा-कर्णनं द्रुपदात्मजायाः कचवस्त्राकर्षणदोषश्रवणम्, न ह्यपरत्र दुःशासनेन नीतिधर्मविरुद्धतया दूषितशासनेन अपराधाकर्षणं राजकीयजनानां दोषश्रवणम्, राजानुशासनेन सर्वस्मिन् स्थल एव तेषां नीतिधर्मपुरस्सरव्यवस्थाकरणात्। वयःपरिणामे वृद्धावस्थायामेव दण्डग्रहणम् अवलम्बनार्थं यष्टिग्रहणम्, न तु दोषे दण्डग्रहणं द्रव्यदानादिदण्डाङ्गीकारः दोषाभावात्। परिचियन्ते आच्छाद्यन्ते एभिरिति व्युत्पत्त्या परिवाराः, असीनां खड्गानां परिवाराः कोपाः तेष्वेव कलङ्कयोगः परिष्क-रणाभावेन मालिन्याङ्कसम्वन्धः, न तु जनानां परिवारेषु दारात्मजादिपरिजनेषु कलङ्कयोगः कलङ्क-सम्बन्धः दोषरहितत्वात्। कामिनीनां रमणीनां कुचयोः स्तनयोः पत्रभङ्गेषु पत्रस्वरूपरेखासु वक्रता कुटिलता, न तु जनमनस्सु वक्रता निखिलानामेव कामलहृदयत्वात्। करिणां गजानामेव दानैः स्वीयमद-सलिलैः विच्छित्तिः अङ्गरागः, न तु सम्पत्तिमतां दानविच्छित्तिः द्रव्यवितरणविरामः 'अहरहर्दद्यात्' इति श्रुत्या तेषां प्रत्यहमेव दानकरणात् । 'दानं गजमदे त्यागे' इति विश्वमेदिन्यौ। अक्षक्रीडा द्यूतखेलाः तास्वेव शून्यगृहस्य गुटिकाशून्यकोष्ठस्य दर्शनम् अवलोकनम्, न तु नगरग्रामेषु शून्यगृहस्य जनवर्जितभवनस्य दर्शनम्, कस्यचिदप्युपद्रवानुपलम्भेन सर्वस्मिन् समय एव जनपूरित्वात्।
इह 'गिरीणां विपत्तता' इत्यारभ्य 'अक्षक्रीडासु शून्यगृहदर्शनम्' इत्यन्तं यावत् सर्वस्मिन्नेव स्थले यथासम्भवश्लेषसङ्कीर्णा आर्थी परिसंख्यालङ्कारः।
तस्येति। अपि चेति चार्थः। शुकनासो नाम 'शुकनास' इतिसंज्ञकः ब्राह्मणो विप्रः तस्य तारापीडस्य (राज्ञः) अमात्यो मन्त्री 'आसीत्' इत्यग्रिमया क्रियया सम्बन्धः। इह प्रथमान्तानि पदानि मन्त्रिणो विशेषणान्यवगन्तव्यानि। निखिलानि समस्तानि यानि शास्त्राणि आम्नायादीनि च कला नृत्यगीतादि-चतुःषष्टिकलाविद्याश्च तासु अवगाहनेन तदभिप्रायाकलनेन गम्भीरा दुरवगाहा बुद्धिः मनीपायस्य स तादृशः। आ शैशवात् आ बाल्यात् उपारूढः राजन्युत्पन्नो निर्भरः सान्द्रः प्रमरसः स्नेहानुरागो यस्य स तादृशः।
था। सूर्यको ही ग्रहणाशङ्का (राहुद्वारा ग्रासकी सम्भावना) थी, किन्तु लोगोंकी ग्रहणाशङ्का (राजानुचरद्वारा बलात्कार पकड़े जाने की आशङ्का) नहीं थी। चन्द्रका ही ज्येष्ठातिक्रम (ज्येष्ठा नक्षत्रका उल्लङ्घन) था, किन्तु किसीके द्वारा ज्येष्ठातिक्रम (बड़े भाई आदि वृद्धोंकी वातका उल्लङ्घन) नहीं था। महाभारतमें ही दुःशासन (धृतराष्ट्रके पुत्र दुर्योधनके कनिष्ठ भ्राताका अपराध = द्रौपदीका वस्त्र खींचकर धृष्टताप्रदर्शनरूप दोष, सुना जाता था, किन्तु राज्यके मध्यमें किसी स्थान पर राजपुरुषोंके दुःशासन [अन्याय शासन] का अपराध नहीं सुना जाता था। वृद्धावस्थामें ही दण्डग्रहण [यष्टि-धारण] होना था, किन्तु अपराधके कारण किसीसे भी दण्डग्रहण [जुर्माना लेना] नहीं होता था। तलवारके कोषोंमें ही कलङ्कयोग [मलचिह्नका सम्पर्क] था, किन्तु किसीके स्त्रीपुत्रादि परिजनवर्गके मध्यमें कलङ्क योग [अपवादका सम्पर्क] नहीं था। कामिनोंके स्तनोंके ऊपर पत्राकार रचनोमें ही वक्रता [टेढ़ापन] थी, किन्तु लोगोंके चित्तमें वक्रता [क्रूरता] नहीं थी। हाथियोंमें ही दानविच्छित्ति [स्वकीय मद जल द्वारा अङ्गराज] होता था, किन्तु धनियोंकी दानविच्छित्ति [धनवितरणका विराम] नहीं होती थी और पाशोंके खेलमें ही शून्यगृह देखे जाते थे, किन्तु नगरमें वा ग्राममें शून्यगृह [मनुष्यशून्य भवन] देखनेमें नहीं आते थे।
शुकनास नामका एक ब्राह्मण उस राजाका मन्त्री था। वेदादि समस्त शास्त्रों एवं नृत्यगीतादि सभी कलाओंके परिशीलनसे उसकी बुद्धि गम्भीर हो गई थी। बाल्यावस्थासे ही राजाके ऊपर उसका अत्यन्त
२. ग्रहणशङ्का। २. दुःशासनापराधः। ३. असिपरिवारेषु कुशलयोगः, असिपरिवारेष्वकुशलयोगः, असिधारानु कोषगुप्तिः। ४. कामिनीनां कुचभङ्गेन, कामिनीकुचभङ्गेन, वक्रता कामिनीनां कुचभङ्गेषु। ५. तस्य राज्ञः। ६. कलाकलापावगाहनगम्भीरबुद्धिः, निखिलशास्त्रकलापावगाहनगभीरबुद्धिः।
शुकनासवर्णना-४ ] चन्द्रकला-विद्योतिनीसहिता । १७७
प्रेमरासः, नीतिशास्त्र-प्रयोग-कुशलः, भुवनराज्यभारनौ-कर्णधारः, महत्स्वपि कार्य्यसङ्कटे- ष्वविपण्णधीः, धाम धैर्य्यस्य, स्थानं स्थितेः, सिन्धुः सत्यस्य, गुरुर्गुणानाम्, आचार्यो आचाराणाम्, धाता धर्म्मस्य, शेषाहिरिव सकलमही-भारधारणक्षमः, सलिलनिधिरिव महासत्त्वनिवासः, जरासन्ध इव घटित-सन्धिविग्रहः, त्र्यम्बक इव प्रसाधितदुर्गः, युधि- ष्ठिर इव धर्म्मप्रभवः, सकल-वेद-वेदाङ्गवित्, अशेषराज्यमण्डलमङ्गलैकसारः, बृहस्पति-
नीतिशास्त्रं व्यवहारग्रन्थः तस्य प्रयोगः तदर्थपरिचरणं तत्र कुशलो निपुणः । भुवनराज्यस्य विष्टपाधिपत्यस्य भारः शासनव्यापार एव नौः तरणिः तस्याः कर्णधारो नाविकः । महत्स्वपि गुरुष्वपि कार्यसङ्कटेषु विधेय-कृच्छ्रेषु अविपण्णा अप्रतिहता धीः प्रज्ञा यस्य सः । इह 'भुवनराज्यभारनौकर्णधार' इत्यत्र परम्परितरूपकमलङ्कारः ।
धामेति । धैर्यस्य अविचलचित्ततायाः धाम आधारः, स्थितेः मर्यादायाः स्थानम् आश्रयः, सत्यस्य अवितथस्य सिन्धुः महाधारः, गुणानां दयाविनयादीनां गुरुः हितोपदेष्टा, आचाराणां शिष्टव्यवहाराणाम् आचार्यः उपदेष्टा, धर्मस्य सुकृतस्य धाता धारकः ।
शेषेति । शेषाहिः वासुकिनाग इव, सकलायाः समस्तायाः महाः भूमेः भारः शासनव्यापारः तस्य धारणे सञ्चालने क्षमः समर्थः अन्यत्र हि भारो गुरुत्वरूपगुणविशेषः तस्य धारणे उद्वहने क्षमः ।
सलिलेति । सलिलनिधिः सागर इव, महासत्त्वस्य उत्कृष्टाध्यवसायस्य निवास आश्रयः, अन्यत्र महतां विशालानां सत्त्वानां मकरादिजन्तूनां निवास आधारः ।
जरेति । जरासन्ध एतन्नाम्ना प्रसिद्धो भूपतिरेव, घटितौ प्रोजितौ, सन्धिः सामप्रयोगपूर्वक-द्रव्यादिसमर्पणेन मैत्रीस्थापनम्, विग्रहः संग्रामश्च तावुभौ येन स तादृशः, अन्यत्र हि घटितो विहितः सन्धिः खण्डद्वयस्य संयोगो यस्य स तथोक्तो विग्रहौ वपुर्यस्य स तादृशः ।
पुरा किल बृहद्रथाख्यो भूपतिः स्वतनयादिकमनवलोक्य चण्डकौशिकं मुनिमुपेत्य आराध्यितुं प्रवृत्तः, ततस्तुष्टो मुनिः तस्मै एकमात्रफलं पत्नीभ्यां भोक्तुं प्रददौ । भूर्द्धमर्द्धं विभज्य खादितवतीभ्याञ्च ताभ्यां समयान्तरऽर्द्धार्धशरीरयुक्तं बालकद्वयं प्रसूतम्, तन्निरोक्ष्य नितरां सन्तप्तो भूपतिः श्मशानभूमा-वादाय निक्षिपेप । अनन्तरं जरानाम्नी काचन श्मशानवासिनी राक्षसी यावदेव तद्भागद्वयमेकत्र स्थापितवती तावदेव जीवितं तं निरीक्ष्य तस्मै भूपतये समर्पितवती तत एव 'जरासन्ध' इति नामेति महाभारतीया कथा ।
त्र्यम्बक इति । त्र्यम्बको विरूपाक्षः (शङ्करः) इव, प्रसाधितानि सम्पादितानि दुर्गाणि परिखादीनि येन स तादृशः, अन्यत्र प्रसाधिता प्रसन्नीकृता दुर्गा पार्वती येन सः ।
युधीति । धर्म्माणां सुकृतानां प्रभवो यागादिना उद्भवो यस्मात् स तादृशः, अन्यत्र धर्मात् प्रभवो जनिः यस्य स तादृशः । धर्मपुत्रो 'युधिष्ठिर' इत्याख्यायिका महाभारतादावनुसन्धेया ।
सकलेति । सकलानि समस्तानि यानि वेदवेदाङ्गानि ऋग्यजुःसामाथर्वछन्दःकल्पादीनि तानि वेति जानातीति स तादृशः । अङ्गानि वेदस्य-
'छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते । शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।।' इति ।
अशेषेति । निखिले राज्यमण्डले मङ्गलैकसारः कल्याणैकरहस्यभूतः सकलगुणानां निधिरूपत्वादित्याशयः ।
बृहस्पतिरिति । सुनासीर इन्द्रः तस्य बृहस्पतिः सुराचार्यः तद्वत्, 'वृद्धश्रवाः सुनासीरः
प्रगढानुराग उत्पन्न हो गया था। वह नीति-शास्त्र के प्रयोगमें कुशल था; एवं संसारके राज्यशासनकार्यरूप नौका-का कर्णधार था, बड़े-बड़े सङ्कटोंमें भी उसको बुद्धि कुण्ठित नहीं होती थी। वह धैर्यका आधार था; मर्यादाका आश्रय था; सत्यका समुद्र था; गुणोंका शिक्षक था; सदाचार का उपदेशक था; एवं धर्मका आश्रय था। शेषनाग जिस प्रकार पृथिवीका भार-वहन करनेमें समर्थ हैं, वह भी उसी प्रकार समस्त पृथिवीका शासन करनेमें अच्छी तरह समर्थ था। जिस प्रकार समुद्र मकरादि बड़े बड़े जलजन्तुओंका आश्रय है, उसी प्रकार वह भी अत्यन्त अध्यवसायका आश्रय था। जिस प्रकार जरा नामकी श्मशानवासिनी राक्षसीने जरासन्धके शरीरके दो हिस्सोंको सङ्घटित किया था, उसी प्रकार उसने भी दण्डप्रदानमें सन्धि = मेल, और विग्रह = लड़ाई को सङ्घटित किया था।
१. भारैकनौ । २. सेतुः । ३. क्वचित् 'सकल' इति पदं नास्ति । ४. प्रकुटित...। ५. ०००मण्डलैकसारः ।
१७८ कादम्बरी- [ कथायाम्-
रिव सुनासीरस्य, कविरिव वृषपर्वणः, वशिष्ठ इव दशरथस्य, विश्वामित्र इव रामस्य, धौम्य इवाजातशत्रोः, दमनक इव भीमस्य, सुमतिरिव नलस्य, सर्वकार्येष्ववाहितमतिः, अमात्यो ब्राह्मणः शुकनासो नामासीत् । या नरकासुर-शस्त्रप्रहार-भीषणे भ्रमन्मन्दर-नितम्ब-निर्दय-निष्पेषकठिनांसपीठे नारायणवक्षःस्थलेऽपि स्थितामदुष्करलाभाममन्यत प्रज्ञाबलेन लक्ष्मीम् । यञ्च समासाद्य दर्शितानेकराल्यफला लतेव महापादपम् अनेकप्रतानगहना विस्तारमुपययौ प्रज्ञा ।
पुरुहूतः पुरन्दरः, 'बृहस्पतिः सुराचार्यः' इति चामरः । वृषपर्वणो निजनामख्यातस्य दैत्याधिपतेः' कविः शुक्राचार्यः तद्वत् 'शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः' इत्यमरः । दशरथस्य रामपितुः वशिष्ठः अरुन्धतीपतिः तद्वत् । रामस्य दशरथात्मजस्य विश्वामित्रः कौशिकः तद्वत् । अजातशत्रोः युधिष्ठिरस्य धौम्यः तद्वत् । भीमस्य निषधराजस्य दमयन्तीतातस्य दमनक इव सुमतिः तद्वत् । सर्वकार्येषु समस्तकृत्येषु नलस्य आहिता स्थापिता मतिर्बुद्धिर्यस्य स तादृशः, शुक्रस्य कीरस्येव नासा, नासिका यस्य स तादृशः । अन्वयस्तु प्रागेवोक्तः ।
य इति । यः शुकनासः प्रज्ञाबलेन बुद्धिसामर्थ्येन, नरकासुरस्य नरकाख्यदैत्यस्य शस्त्रप्रहारेण शस्त्राघातेन भीषणे क्षतचिह्नयुक्ततया भयानके, तथा भ्रमतः क्षीरोदमन्थनकाले घूर्णमानस्य मन्दरस्य अद्रेः यो नितम्बो मध्यभागः तस्य निर्दयनिष्पेषेण निरनुकम्पघर्षणेन कठिने कठोरे अंसपीठे पीठवद्विपुले स्कन्धद्वयं यस्य तथोक्ते, नारायणस्य विष्णोः वक्षःस्थले स्थितां विद्यमानामपि लक्ष्मीं श्रियम् अदुष्करलाभां स्वप्रयासलभ्याम् अमन्यत ज्ञातवान् । इह नरकासुरः शस्त्रप्रहारेणापि यां प्राप्तुं न समर्थो बभूव, या च मन्दराचलनिष्पेषेणापि न गतवती तामपि श्रियमदुष्करलाभाममन्यत इत्यर्थस्य पूर्वविशेषणद्वयेन ध्वननान्नापुष्टार्थत्वदोषस्य प्रसक्तिरिति भावुकानां भावः । भूमिसुतं नरकासुरं श्रीकृष्णो जघानेति हरिवंशीया कथेहानुसन्धेया । 'श्रोपाहिरिव' इत्यारभ्य 'त्र्यम्बक इव' इत्यन्तं पूर्णोपमालङ्कारः ।
यमिति । लता शततिः महापादपं विस्तृततरुमिव, प्रज्ञा मतिः 'धीः प्रज्ञा शेमुषी मतिः' इत्यमरः, यञ्च शुकनासं समासाद्य लब्ध्वा, दर्शितानि प्रकटितानि अनेकानि बहूनि राज्यानि अभिनवराज्यप्राप्तयः
जिस प्रकार महादेवजी पार्वतीको प्रसन्न करनेके लिए आभूषणादिका सम्पादन करते हैं, उसी प्रकार वह भी अनेक स्थानमें दुर्गिनिर्माणक्रियाका सम्पादन करता था । जिस प्रकार युधिष्ठिर धर्मप्रभव ( धर्मराजसे उत्पन्न ) थे, उसी प्रकार वह भी धर्मप्रभव ( यागादिद्वारा धर्मका उत्पादक ) था । और वह समस्त वेद-वेदाङ्गको जानता था । एवं समस्त राज्यके मध्यमें अद्वितीय प्रधान व्यक्ति था। जिस प्रकार वृहस्पति इन्द्रके, शुक्राचार्य वृषपर्वाके, वशिष्ठ दशरथके, विश्वामित्र रामचन्द्रके, धौम्य युधिष्ठिरके, दमनकमुनि भीमराजाके, एवं सुमति नलराजाके मन्त्री थे, उसी प्रकार शुकनास भी तारापीडका मन्त्री था और वह सभी कार्योंमें बुद्धि-प्रयोग ( विवेकपूर्ण कार्य ) करता था ।
नरकासुरके अस्त्र-प्रहारसे चिह्न-युक्त होकर जिसका वक्षःस्थल भयङ्कर हो गया था एवं समुद्रमन्थनके समय कन्धों पर भ्रमण करते हुए मन्दराचलके निर्दय घर्षणसे जिसके वक्षःस्थल के समीपवर्ती स्कन्धद्वय कठिन हो गये थे, नारायणके उस वक्षःस्थलमें लक्ष्मीदेवीके वास करने पर भी वह (शुकनास) उसे अपने बुद्धिबलसे प्राप्त करना दुर्लभ नहीं समझता था ।
एवं जिसप्रकार लता किसी एक विशाल वृक्षको पाकर उसके अवलम्बनसे अनेक फल उत्पन्नकर नये पल्लवोंसे सघन होकर क्रमसे विस्तारको पा जाती है, उसीप्रकार बुद्धि-जिस शुकनासको पाकर नये-नये राज्यप्राप्तिका दर्शन कराकर एवं बहुत्तर विषयमें प्रवेश कर दूसरोंके दुर्ज्ञेय होकर क्रमसे विस्तार पा गई थी ( सारांश यह है कि-वह अपनी बुद्धिसे राज्यमें ऐसे ऐसे कार्योंको करता था, जिनसे प्रजाको उत्तम शासनके अनेक लाभोंका अनुभव होता था, ऐसी उसकी लतारूप बुद्धि उस महावृक्षरूपी प्रधानके समागमसे अगणित प्रतानोंसे गहन होकर विस्तार पा गई थी ) ।
१. 'दमनक इव नलस्य', इत्येव पाठो न तु 'सुमतिरिव' इत्यादिः । २. अप्रतिहतमतिः । ३. क्वचित् 'प्रहार' इति पदं नास्ति । ४. क्वचित् 'नितम्ब' इति पदं नास्ति । ५. पादपम् ६. उपाययौ ।
राजभोगविलास०-५ ] चन्द्रकला-विद्योतिनीसहिता । [ १७६
यस्य चानेक-चारपुरुष-सहस्र-सञ्चार-निचिते चतुरुदधि-वलयपरिखा-प्रमाणे धरणी-तले भवन इवाविदितमहरहः समुच्छ्वसितमपि राज्ञां नासीत् ।
स राजा बाल एव सुर-कुञ्जर-कर-पीवरेण, राज्यलक्ष्मी-लीलोपधानेन, सकल-जगदभय-प्रदान-शौण्डेन, रण-यज्ञ-दीक्षायूपेन, स्फुरदसिलतामरीचि-जाल-जटिलेन, निखिलाराति-कुल-प्रलयधूमकेतुना, बाहुदण्डेन विजित्य सप्तद्वीपवलयां वसुन्धरां तस्मिन् शुकनासनाम्नि मन्त्रिणि सुहृदीव राज्यभारमारोप्य सुस्थिताः प्रजाः कृत्वा कर्त्तव्यशेषमपरम्पश्यन् । प्रशमिताशेषविपक्षतया ऽविगताशङ्कःऽ शिथिलीकृत-वसुन्धराव्यापारः प्रायशोऽ यौवनसुखमनुबभूव ।
इत्यर्थः, फलानीव यया सा तादृशी, तथा अनेकैः बहुभिः प्रतानैः किसलयैः गहना सान्द्रा, मतिपत्ते तु अनेकेषु विषयेषु प्रतानेन प्रसारेण गहना अन्यदुर्बोधा सती । इह पूर्णोपमा लुप्तोपमया सङ्कीर्यते ।
यस्येति । अनेके ये चारपुरुषा गुप्तचराः तेषां सहस्रस्य सञ्चारः परिभ्रमणं तेन निचिते व्याप्ते, चत्वारि चतुःसंख्याकानि उदधिवलयानि मण्डलीभूतसागरा एव परिखा दुर्गाणि ताभिः प्रमाणं परिमाणं यस्य तस्मिन् समग्र इत्यर्थः, धरणीतले जगतीतले भवन इव निजगृह इव राज्ञाम् अन्येषां भूपतीनाम् अहरहः प्रतिदिनं समुच्छ्वसितमपिनिश्वासत्यागोऽपि यस्य च शुकनासस्य अविदितम् अज्ञातं नासीत् न बभूवेत्यर्थः । गुप्तचरैः निखिलमेवोदन्तं शुकनासो ज्ञातवानिति तात्पर्यम् । इहोपमा ।
स इति । स राजा तारापीडः कर्त्तव्यशेषम् इतः परं किं कर्त्तव्यमस्तीत्यपरं विचारविषयं कार्यम् अपश्यत् अवलोकयत् इत्युत्तरेण सम्बन्धः । बाल एव शैशव एव सुरकुञ्जरस्य ऐरावतस्य करवत् शुण्डा-दण्डवत् पीवरेण स्थूलेन, राज्यलक्ष्मीः आधिपत्यश्रीः तस्या लीलोपधानेन विलासोपवर्हस्वरूपेण, सकलानां समस्तानां जगतां संसाराणाम् अभयप्रदाने शौण्डो मत्तः ‘शौण्डो मत्ते च विख्याते पिप्पल्यां च भवेत् स्त्रियाम्’ इति विश्वमेदिन्यौ, रणः संग्राम एव यज्ञः क्षत्रियाणां पुण्योत्पादनादुत्सवस्वरूपत्वाच्चेत्याशयः । तस्य दीक्षायाम् आरम्भे यूपेन पशुबन्धनदारुस्वरूपेण, स्फुरन्ती देदीप्यमाना या असिलता लतावलग्न-मानखड्गः तस्या मरीचिजालेन रश्मिसमूहेन जटिलो व्याप्तः तेन तादृशेन, तथा निखिलस्य समग्रस्य अरातिकुलस्य वैरिगणस्य प्रलये विनाशे धूमकेतुना अशुभसूचकग्रहविशेषेण, यद्वा धूमकेतुरिव तेन तादृशेन, बाहुदण्डेन भुजदण्डेन सप्तद्वीपाः जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्कराख्या एव वलयं कङ्कणं यस्याः तां तादृशीं वसुन्धरां भूमिं विजित्य जयं प्राप्य तस्मिन् उक्तगुणविशिष्टे शुकनासनाम्नि शुकनस-संज्ञके मन्त्रिणि सचिवे सुहृदीव सख्याविव राज्यभारम् आरोप्य निधाय अतिविश्वासपात्रतया हानि-सन्देहाभावादित्याशयः, सुस्थिताः सुखेन स्थायिन्यः प्रजाः प्रकृतीः कृत्वा निष्पाद्य अन्वयस्तूक्त एव प्रशमिताः शान्ति प्रापिता अशेषाः समग्रा विपक्षा वैरिणो येन तस्य भावस्तया कारणेन, विगताशङ्को निर्भयः, तथा शिथिलीकृतो मन्दीकृतो वसुन्धरायाः पृथिव्या व्यापारः शासनकार्यं येन स तादृशः । प्रायशो बाहुल्येन यौवनसुखं स्त्रीसंभोगादीनि तारुण्यसुखम् अनुबभूव अनुभवविषयीचक्रे ।
जिस प्रकार अपने घरमें किसी घटनाके घटनेपर लोगोंसे वह अज्ञात नहीं रहता है, उसी प्रकार परिखास्वरूप चारों समुद्रोंसे परिवेष्टित समस्त पृथिवीपर विचरण करनेवाले हजारों गुप्तचरों (जासूसों) के द्वारा अन्यान्य राजाओंके प्रतिदिन साँस लेने का समाचार उस शुकनाससे अज्ञात नहीं रहता था ।
वह राजा तारापीड, बाल्यावस्थामें ही ऐरावत हाथ की सूँड़के समान स्थूल, राज्यलक्ष्मीके लीलोपधान (क्रीड़ाके तकिये) के स्वरूप, समस्त संसारकों अभयदानमें मत्त, युद्धरूप यज्ञारम्भके यूपकाष्ठ (स्तम्भ) के स्वरूप, चमकते हुए खड्गकी किरणोंके जालसे व्याप्त (ढका हुआ) एवं धूमकेतुकी पूँछके समान सब शत्रुकुलके प्रलयका सूचक बाहुदण्डद्वारा सप्तद्वीपरूपी कङ्कणवाला पृथिवीको जीतकर अपने मित्रके समान अत्यन्त विश्वासी उन शुक-नासनामक मन्त्रीके ऊपर सब राज्यका भार सौंपकर प्रजाको स्वस्थ कर अन्य अवशिष्ट कार्यको देखने लगे । वाद
१. यस्यानेक । १. ...परिचिते, विचिते । ३. परिधिप्रमाणे परिक्षेपप्रमाणे । ४. धरगितले । ५. राज्यलक्ष्मी' । ६. सकलजगदभयदानयशदीक्षायूपेन । ७. ...धूमकेतुदण्डेन बाहुना । ८. सकलद्दीपवलयाम् । ९. अपश्यत् ! १०. क्व-चित् 'तथा' इत्याधिकः । ११. विगलिताशङ्कः । १२. शिथिलितपृथिवी(पृथ्वी)व्यापारः। १३. प्रायोयौवनसुखमन्यनुबभूव ।
| १८० | कादम्बरी- | [ कथायाम्- |
|---|
तथाहि कदाचिदुल्लसत्कठोर-कपोल-पुलक-जर्जरित-कर्णपल्लवानां प्रणयिनीनां चन्दन-जलच्छटाभिरिव स्मित-सुधाच्छविभिरभिषिच्यमानः, कर्णोत्पलैरिव लोचनांशुभिस्ताड्यमानः, कुङ्कुमधूलिभिरिवाभरणप्रभाभिराकुलीक्रियमाण-लोलेलोचनः, धवलांशुकैरिव कर-नख-मयूख-जालकैराहन्यमानः, चम्पककुसुम-दल-मालिकाभिरिव भुजलताभिराबध्यमानः, दष्ट्राधर-धूत-करतल-चलनमणिवलय-कलकल-रमणीयम् , अतिरभस-
इह 'सुरकुञ्जरकर-पीवरेज' इत्यत्र प्रथमतृतीयान्ते लुप्तोपमा, द्वितीयतृतीयान्ते निरङ्गकेवलरूपकम्, तृतीयतृतीयान्ते अश्लिष्टशब्दनिबन्धनपरम्परितरूपकम्, षष्ठतृतीयान्ते निरङ्गकेवलरूपकलुप्तोपमयोः सन्देहः। 'सुहृदीव' इत्यत्र चोपमा।
अथ तारुण्यसुखानुभवप्रकारमेवोपपादयति-तथाहीत्यादिना । कदाचित् कस्मिंश्चित् समये अनङ्गपरवशः कामाधीनः सन् भूपतिः सुरतं मैथुनम् आततान विस्तारयामास इत्युत्तरेण सम्बन्धः। उल्लसद्भिः विकसद्भिः कठोरैः वेधनयोग्यत्वात् कठिनैः, कपोलयोः गण्डयोः पुलकैः रोमाञ्चैः जर्जरितानि कपोलोपरि-निपतनात् श्लथीकृतानि कर्णपल्लवानि श्रोत्रकिसलयानि यासां तादृशीनाम्, प्रणयिनीनां कामिनीनां चन्दनजलस्य मलयजसलिलस्य छटाभिः विन्दुसमूहैरिव, स्मितम् ईषद्धसितं सुधां पीयूषमिव स्मितमेव सुधा इति वा, तस्याः छविभिः शोभाभिः अभिषिच्यमानः क्षप्यमानः तत्कान्तीनां विशदत्वादित्याशयः। इह 'चन्दनजलच्छटाभिः' इत्यत्रोपमालङ्कारः 'स्मितसुधाच्छविभिः' इत्यत्र लुप्तोपमानिरङ्गकेवलरूपकयोः सन्देहसङ्करश्च, उभयोरपि परस्परं नैरपेक्ष्येण विद्यमानत्वात् संसृष्टिरलङ्कारः।
कर्णोत्पलैरिति । कर्णोत्पलैरिव श्रोत्रकुवलयैरिव लोचनांशुभिः नयनकान्तिभिः ताड्यमानः प्रहारविषयोक्रियमाणः तीक्ष्णकटाक्षपातादित्याशयः ।
कुङ्कुमेति । कुङ्कुमं केसरं तस्य धूलिभिः चूर्णैरिव आभरणप्रभाभिः भूषणकान्तिभिः आकुलीक्रियमाणे व्याहन्यमाने अत एव लोले चपले लोचने नयने यस्य स तादृशः।
धवलेति। धवलांशुकैरिव शुभ्रवस्त्रैरिव, करनखानां हस्तपुनर्भुवां मयूखजालकैः रश्मिमण्डलैः आहन्यमानः, ताड्यमानः अतिनिकटतया तीक्ष्णपतित्वादित्याशयः ।
चम्पकेति । चम्पककुसुमानां हेमपुष्पकप्रसूनानां 'चाम्पेयश्चम्पको हेमपुष्पकः' इत्यमरः, दलमालिकाभिरिव मृदुलस्वादलपङ्क्तिभिरिव भुजलताभिः बाहुवल्लीभिः आवध्यमानः आलिङ्ग्यमानः। इह 'कर्णोत्पलैरिव' इत्यारभ्य 'चम्पककुसुमदलमालिकाभिः' इत्यन्तमुपमालङ्कारः ।
दष्टाधरेति । दष्टेन दन्तः खण्डितेन अधरेण रदनच्छदेन हेतुना, धूतं निषेधव्यञ्जनाय कम्पितं यत् करतलं पाणितले तत्र चलतां चपलीभूतानां मणिवलयानां रत्नकटकानां कलकलेन मधुराव्यक्तध्वनिसमूहेन रमणीयं मनोहरम्। अग्रेतनस्य 'सुरतम्' इत्यस्यैतद्विशेषणम्, इत्थमस्यान्यपि। अतिरभसेन अतिस्वरया दलितानि खण्डितानि यानि दन्तपत्राणि हस्तिदन्तरचितकर्णाभरणानि तैः दन्तुरं विषमं
पृथिवीके शासनकार्यमें विशेष लिप्त नहीं रहकर एवं सब शत्रुओंको शान्तभाव अवलम्बन कराकर निःशङ्क चित्त होकर उसने प्रायः यौवन-सुखका अनुभव किया।
जिस समय राजा, चन्दन-जलकी धाराके समान प्रिययुवतियोंके सुधामय ईषद्धास्यके शोभाजलसे अभिषिक्त होता था, उस समय उन प्रियाओंके गालोंपर अत्यधिक रोमाञ्च उत्पन्न होकर कर्णके पल्लवोंको जर्जरित करता था। कोई कोई प्रिययुवती, तीव्र कटाक्ष प्रहार करनेके समय कर्णके नीलोत्पलके समान नयन-किरण द्वारा राजाको ताड़न करती थी। केसरके धूलिसमूहके समान किसी-किसी युवतीके आभूषणोंकी प्रभासे राजाका नयनयुगल प्रतिहत होकर चञ्चलभाव धारण करता था। शुभ्रवस्त्रके समान किसी युवतीके अपने हस्तस्थित नखसमूहके किरणपुञ्जद्वारा राजा आहत होता था। कोई-कोई युवती चम्पाकी फूल पत्तोंकी मालाके समान कोमल बाहुलता द्वारा राजाको बाँध लेती थी। इस तरह कामवश होकर सुरत-क्रीड़ा करता था, जो प्रियाओंके अधरदंश होनेसे काँपते हाथोंमें हिलते हुए मणिमय कङ्गनोंके कलकलसे रमणीय लगती थी; अत्यन्त वेगमें टूटे हुए कर्णभूषणके टुकड़ोंसे शय्या ऊँची-नीची
१. कुङ्कुमपटवासधूलिभिः, कुङ्कुमवासधूलिभिः ।
२. क्वचित् 'लोल' इति पदं नास्ति ।
३. नखर... ।
४. दष्टाधराधूतकरातल, दष्टाधरकरतल... ।
५. कलकलरव, कलरव ।
६. रतिरमस... ।
राजभोगविलास०-५ ] चन्द्रकला-विद्योतिनीसहिता । १८१
दलित-दन्त-पत्र-दन्तुरं-शयनम्, उत्क्षिप्त-चरणं-गलदलक्तरक्तशेखरम्, सरभस-कच-ग्रह-चूर्णित-मणिकर्णपूरम्, उल्लसित-कुच-कृष्णागुरुपङ्क-पत्र-लताङ्कित-प्रच्छदपटम्, अच्छ-श्रमजल-लुलित-गोरोचना-तिलकपत्रभङ्गम्, अनङ्ग-परवशः सुरतमातवान् ।
कदाचिन्मकरकेतु-कनक-नाराच-परम्पराभिरिव कामिनी-करपुट-विनिर्गताभिः कुङ्कुमजल-धाराभिः पिञ्जरीक्रियमाणकायो लाक्षाजलच्छटा-प्रहारपाटलीकृतदुकूलो मृगमद-जलविन्दु-शवल-चन्दन-स्थासकः कनकशुङ्गकोपैरिव चिरं चिक्रीड ।
कदाचित् कुच-चन्दन-चूर्ण-धवलित निर्मिर्मात्नम्, चङ्गुल-तुला-कोटि-वाचाल-चरणा-
शयनं शय्या यत्र तत्तथोक्तम् । उत्क्षिप्तौ भूपतेः मस्तकपर्यन्तम् उत्तोलितौ यौ चरणौ रमण्याः पादौ ताभ्यां गलन् स्रवन् योऽलक्तको लाक्षारसः तेन रक्तो लोहितीकृतः शेखरो भूपतेः शिखा यत्र तत्तथोक्तम् । सरभसं सवेगं यः कचग्रहः केशधारणं तेन चूर्णितं भग्नं मणिकर्णपूरं रत्नमयकर्णालङ्कारः यत्र तत्तथोक्तम् । उल्लसितयोः भूपतेः हस्तस्पर्शेन स्फुरितयोः कुचयोः स्तनयोः याः कृष्णागुरुपङ्कस्य सान्द्रकृष्णागुरुद्रवस्य पत्रलताः तत्तत्स्वरूपचिह्नानि ताभिः अङ्कितः सञ्जातचिह्नः प्रच्छदपटः शयनीयास्तरणवसनं यत्र तत्तादृशम्, कामिन्या न्युब्जशयनादित्याशयः । अच्छैः निर्मलैः श्रमजलैः रतिक्लान्तिघर्मोदकैः लुलिताः कथञ्चित् धौताः गोरोचनायाः कुङ्कुमस्य तिलकपत्रभङ्गा भालस्यतिलकपत्रभङ्गरूपचिह्नानि यत्र तत्तथोक्तम्, अन्वयस्तूक्त एव ।
कदाचिदिति । कदाचित् कस्मिन्नपि समये मकरकेतोः कामदेवस्य कनकनाराचपरम्पराभिरिव हेममयविशालवाणपङ्क्तिभिरिव, कस्याश्चित् कामिन्याः रमण्याः करपुटेन हस्तसम्पुटेन तत्प्रेरणयेत्यर्थः, विनिर्गताभिः निःसृताभिः कुङ्कुमजलधाराभिः गोरोचनासलिलपङ्क्तिभिः पिञ्जरीक्रियमाणः पिङ्गलवर्णवद् विधीयमानः कायो देहो यस्य स तादृशः । लाक्षाजलस्य स्याकससलिलस्य छटाभिः धाराभिः कस्याश्चित् रमण्याः शृङ्गकोपान्निःसृताभिरित्याशयः, प्रहारेण अभिघातेन पाटलीकृतं श्वेतरक्तीकृतं दुकूलं वस्त्रं यस्य स तादृशः । मृगमदजलविन्दुभिः कस्याश्चिद्रमण्याः शृङ्गकोपान्निःसृताभिः कस्तूरीसलिलकणिकाभिः, शवलः कर्बुरः, चन्दनस्थासकः मलयजविहितचर्चा यस्य स तादृशः । 'चर्चा स्याच्चर्ममुण्डायां चिन्तास्यासकयोरपि' इति हेमचन्द्रः । कनकशुङ्गकोशैः लम्बमानकोपाकारहेममयसलिलयन्त्रविशेषैः चिरं बहुकालं चिक्रीड क्रीडां कृतवान् 'शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके' इति मेदिनी । फाल्गुने जायमानस्य रङ्गजलक्रीडामयस्य कामदेवोत्सवस्य वर्णनमिदम् । अयमुत्सवो रत्नावल्यां 'कीर्णैः पिष्टातकौघैः' इत्यादिना वर्णितः । सातवाहनेनाऽपि गाथासप्तशत्याम्—
'तेत्तूण चुण्णमुट्ठिं हरिसुस्ससि आएं वेपमाणाए । भिसिनेमिति पिअअमं हत्थे गंध दअं जाअं ॥'
इत्यादिना वर्णितः । इह 'कनकनाराचपरम्पराभिरिव' इत्यत्र जात्युत्प्रेक्षालङ्कारः ।
कदाचिदिति । सावरोधजनः अन्तःपुरप्रणयिनीजनसहितो भूपतिः जलक्रीडया सलिलखेलया
हो जाती थीं; ऊँचे किये हुए चरणोंमें लगे अलक्ते मस्तक लाल-लाल हो जाता था; वेगसे बाल पकड़नेते मणि-कर्णपूर चूर-चूर हो जाता था; राजाके करस्पर्शते स्फुरित हो जानेके कारण जिनके स्तनोंपर काले अगरुके लेपसे रची हुई पत्र-लतासे ऊपरका वस्त्र अङ्कित हो जाता था; निर्मल पसीनेकी महीन-महीन बूंदोंसे गोरोचनके तिलक और पत्रभङ्ग बिगड़ जाते थे ।
किसी-किसी समयमें राजा सुवर्णकी पिचकारियोंसे प्रिय युवतियोंके साथ बहुत देर तक क्रीडा करता था, उस समय किसी युवतीके हाथके आकर्षणमें पिचकारीसे निन्दत कामदेवके सुवर्णमय बाणोंकी कतारोंके समान केसरिये जलकी धाराओंसे राजाका शरीर पीला-पीला हो जाता था, किसी युवतीके पिचकारीसे निर्गत् लाक्षा (आलता) जल की धाराके प्रहारसे राजाका वस्त्र लाल-लाल हो जाता था, एवं किसी युवतीके सोनेकी पिचकारीसे निर्गत कस्तूरी-युक्त जल की बूंदोंसे राजाका शरीरस्थित चन्दन-लेप चितकबरा हो जाता था ।
किसी-किसी समयमें राजा रनिवासकी प्रियरमणियोंके साथ जलक्रीडा करनेके लिए रनिवासके गृह-सरो-
१. दन्तुरितं... । २. चरणगल... । ३. अश्रमजल... । ४. रोचना, ०गोरोचन... । ५. ...विनिर्गताभिरिव । ६. धवलोन्मिनालन् ।
| २८२ | कादम्बरी- | [ कथायाम्- |
|---|
लक्तक-सिक्त-हंस-मिथुनम्, अलक-निपतित-कुसुमनिकर-शारम्, प्लवमान-कर्णपूर-कुव- लयदलम्, उन्नत-नितम्ब-संक्षोभ-जर्जरित-तरङ्गम्, उद्दलित-नाल-पर्यस्त-नलिननिपतित- धूलि-पटलम्, अनवरत-करास्फालनस्फुरत्-फेनबिन्दु-चन्द्रकितम्, सावरोधजनो जलक्रीडां गृहदीर्घिकाणामम्भश्चकार ; कदाचित् सङ्केत-वञ्चिताभिः प्रणयिनीभिराबद्ध-भङ्गुर-भ्रुकुटीभिरारणित-मणिपरि- हार्य्य-मुखर-भुजलताभिर्वकुलकुसुमावलीभिः संयत-चरणं नख-किरण-विमिश्रैः कुसुम- दामभिः कृतापराधो दिवसमताड्यत ।
गृहदीर्घिकाणां भवनवापीनाम् अम्भो जलम् एतादृशं चकार निर्ममे इत्यग्रिमेण सम्बन्धः । इह द्वितीया- न्तानि पदानि अम्भोविशेषणानि । कुचयोः स्तनयोः चन्दनचूर्णैः मलयजक्षोदैः धवलिता शुभ्रीकृता ऊर्मि- माला तरङ्गपङ्क्तिः यस्य तत्तादृशम् । चञ्चलाभ्यां चलिताभ्यां तुलाकोटिभ्यां नूपुराभ्यां वाचालयोः शब्दाय- मानयोः चरणयोः पादयोः अलक्तकैः लाक्षारसैः सिक्तं सेचितं हंसमिथुनं नूपुरशब्दाकृष्टं सितच्छदद्वन्द्वं यत्र तत्तादृशम् । 'पादाङ्गं तु तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः । अलकात् चूर्णकुन्तलात् निपतितैः स्खलन्तैः कुसुमनिकरैः पुष्पसमूहैः शारं नानारूपम् । प्लवमानानि सलिलोपरि सन्तरन्ति कर्णपूराणाम् आकण्ठमग्नमहिलाग्रवगभूषणीभूतानां कुवल्यानां नीलोत्पलानां दलानि पत्राणि यत्र तत्तादृशम् । उन्न- तानाम् उच्चानां नितम्बानां श्रोणत्याः पश्चाद्भागानां संक्षोभेण आस्फालनेन जर्जरिताः चूर्णीकृताः तरङ्गाः कल्लोला यत्र तत्तादृशम् । उद्दलित्तानि उच्छिन्नानि नालानि विसानि येषां तादृशानि, अत एव पर्यस्तानि सलिलोपरि पतितानि यानि नलिनानि कमलानि तेभ्यो निपतितं स्रस्तं धूलिपटलं रजःसमूहो यत्र तत्तादृशम् । तथा अनवरतं निरन्तरं करास्फालनेन सलिलसेचमाय तत्रैव पाणिसाञ्चालनेन स्फुरद्भिः देदीप्यमानैः फेनविन्दुभिः अब्धिकफपृषतैः सञ्जाताः चन्द्रकाः चन्द्राकारसलिलस्फोटा अस्येति तत्तादृशम् । अन्वयस्तूक्त एव ।
कदाचिदिति । सङ्केते वञ्चिताभिः, 'एवंविधसमये तथाविधस्थले भवतीभिः सह विहरिष्ये' इत्येवं- रूपेण निर्णये विहिते तत्र समुपस्थितासु तासु 'नृपतिस्तु नागत इति' तेन विप्रलब्धाभिरित्यर्थः, अत एव आबद्धाः विहिताः भङ्गुराः वक्राः भ्रुकुटयो याभिस्ताभिस्तथोक्ताभिः, आरणिताः ताडनाय हस्तान्दोलनात् शब्दिताः ये मणिपरिहार्याः रत्नकटकानि 'आवापकः परिहार्यः कटको वलयोऽस्त्रियाम्' इत्यमरः, तैः मुखराः वाचाला भुजलता बाहुवल्ल्यो यासां ताभिः तादृशीभिः, प्रणयिनीभिः मानिनीभिः (कर्त्रीभिः) वकुलकुसुमावलीभिः केसरपुष्पमालाभिः (करणैः), संयतौ बद्धौ चरणौ पादौ यस्य स तादृशः, कृताप- राधः विहितागाः सङ्केतस्थलेऽनागमनादित्याशयः, भूपतिः, नखकिरणविमिश्रैः पुनर्भवमयूखसंस्पृष्टैः कुसुम- दामभिः अन्यपुष्पमालाभिः दिवसं समग्रं दिनम् अभिव्याप्य अताड्यत प्राहिषत 'कालाध्वनोरत्यन्त- संयोगे द्वितीया' इत्यनेन 'दिवसम्' इत्यत्र द्वितीया ।
वरोंके मध्यमें प्रवेश करता था, उस समय उसके जलमें किसी रमणीके स्तनोंका चन्दन घुल जानेसे उनकी तरङ्गे श्वेतवर्ण हो जाती थीं। किसी रमणीके चञ्चल नूपुर (पायजेब) के हिलनेसे झन-झनाहट करते चरणोंमें लगा अल- क्तरस अनुकरणकारी हंस-दम्पती पर छिड़क जाता था, किसी सुन्दरीके केशकलापसे स्खलित कुसुमसमूहके गिर जानेसे दीर्घिका (गृहसरोवर) का जल विचित्र हो जाता था; किसी सुन्दरीके जलमध्यमें आकण्ठ मग्न होने पर उसके कर्णाभरण नीलोत्पलके पत्र जलके ऊपर तैरने लगते थे; किसी रमणीके ऊँचे-ऊँचे नितम्बोंके क्षोभसे तरङ्गें छिन्न-भिन्न हो जाती थीं, किसी रमणीके द्वारा नालसे तोड़कर फेंके हुए कमलों की रज फैल जाती थी और किसी सुन्दरी द्वारा राजाके रोर पर जलसेचन करनेके समयमें बार-बार पानीको हाथसे हिलोड़नेसे उड़ते हुए फेनबिन्दुसमूह उत्पन्न होकर जलके ऊपरमें चन्द्राकार बन जाते हैं।
किसी समय राजा संकेतकार रात्रिमें उस स्थान पर नहीं गया जिससे प्रतारित प्रियाएं दूसरे दिन भृकुटि टेढ़ी करके झनझनाते मणिकङ्कणोंसे शब्दायमान भुजलताओंद्वारा मौलसिरीके फूलों की मालासे उस अपराधी राजाका पैर बाँधकर अपने नख-किरणोंसे मिश्रित अपर पुष्पमाला द्वारा उसे ताड़ना करती थीं ।
१. '...कुसुमनिकरम्, कुसुमनिकरशारम्' । २. क्वचित् 'पूर' इति पदं नास्ति । ३. '...क्षोभं...' । ४. '...करतलास्फालन...' । ५. '...विस्फुरत्...' । ६. भ्रुकुटीभिः, भुकुटिभिः, भ्रूकुटीभिः । ७. '...भारणितपरिहार्य्य... । ८. बकुलकुसुमावलीसंयत... ।
राजभोगविलासश्च ०-५ ] चन्द्रकला-विद्योतिनीसहिता । १८३
कदाचिद्वकुलतरुरिव कामिनी-गण्डूष सीधु-धारा'-स्वादु-मुदितो विकासमभजत । कदाचिदशोक-पादप इव युवति-चरणतल-प्रहार-संक्रान्तालक्तकरसो रागमुवाह । कदाचि-न्मुसलायुध इव चन्दन-धवलः कण्ठावसक्तोल्लसल्लोल-कुसुममालः पानमसेवत । कदाचिद्-गन्धगज इव मद्रक्त-कपोलदोलायमान-कर्णपल्लवो मदकलः काननं विकँच-वनलता-कुसुममुरभि-परिमलं जगाहे । कदाचित् कर्ण-न्मणिनूपुरनिनादानन्दितमानसो हंस इव
कदाचिदिति । बकुलतरुः केसरवृक्षः स इव, कामिन्याः रमण्याः गण्डूषसीधुधाराया वदनपूर्णमद्य-धारायाः स्वादेन पानचर्वणेन मुदितो हर्षितः, विकासं हर्षेण विस्फारितहृदयत्वं विकस्वरत्वञ्च अभजत बकुलतरोरिव राजा तु प्राप्तवानित्यर्थः । यदि कालभेदाद्प्रक्रमतादोष आपततीति विभाव्यते तदा 'यथा कामिनीगण्डूषसीधुधारास्वादमुदितो बकुलतरुः विकासं भजते तथा कदाचिद्विकासमभजत' इति पाठान्तरेण समाधेय इति सुधियो विभावयन्तु । न चैवमपि मद्यपानस्य शास्त्रनिषिद्धत्वादत्र राज्ञः कथं तदास्वाद इति वाच्यम्, मद्यपदेन सुरामद्यस्यैव ग्रहणं तस्यैव हि निषेधो न त्वन्यस्य, अत्र च सीधु-पदस्य इक्षुविकारप्रतिपादकत्वेन दोषाभाव इति सुधीभिराकलनीयम् ।
कदाचिदिति । अशोकपादपः कङ्केलिवृक्षः तद्वत् युवतीनां तरुणीनां यः चरणतलप्रहारः पादतलावाघातः तेन संक्रान्तः तस्मात् स्वशरीरं सङ्करितः अलक्तरसः स्यामकद्रवो यस्य स तादृशः, रागं तास्वनुरागं रक्ततां च उवाह अवहत् । 'स्त्रीणां पादाघातादशोकं विकसती'ति कविसमयप्रसिद्धिः, तया-चोक्तं साहित्यदर्पणे—
'पादाघातादशोकं विकसति बकुलं योषितामास्यमद्यैः' इति ।
कदाचिदिति । मुसलायुधो बलभद्रः तद्वत्, चन्दनेन शरीरे मलयजलेपनेन धवलः शुक्लः, पक्षे चन्दनवद्धवलः, कण्ठे अवसक्ता लग्ना उल्लसन्ती देदीप्यमाना लोला चपला कुसुममाला पुष्पस्रक् यस्य स तादृशः, पानं सीध्वादिसद्यपानम् असेवत अभजत ।
कदाचिदिति । गन्धगजो गन्धप्रधानो हस्ती स इव, मदेन मद्यपानोत्पन्नमत्ततया रक्तौ रक्तवर्णौ अन्यत्र मदजलेन रञ्जितौ यौ कपोलौ गण्डद्वयं तयोः दोलायमानौ सञ्चाल्यमानौ कर्णपल्लवौ श्रवणभूषणी-भूतपल्लवौ प्रथितकर्णौ च यस्य स तादृशः । मदेन आनन्देन कलो मधुराव्यक्तध्वनिर्यस्य स तादृशः, मदान्त्तश्च । विकचैः विकस्वरैः वनलतानाम् अरण्यवल्लीनां कुसुमैः पुष्पैः सुरभिः घ्राणतर्पणः परिमलो गन्धो यत्र तत्तादृशम्, काननम्, उपवनम् अरण्यञ्च जगाहे विलोडयामास ।
कदाचिदिति । क्वणन्ति शब्दायमानानि यानि मणिनूपुराणि रत्ननिर्मितानि पादभूषणानि 'मञ्जीर' इत्यर्थः, तेषां निनादेन शब्देन आनन्दितं मुदितं चित्तं मानसं यस्य स तादृशः । हंसपक्षेऽप्येवम्, तस्यापि नूपुरशब्देन मुदितमनस्त्वस्य प्रसिद्धत्वात् । कमलबनेषु नलिनकाननेषु रेमे अरमत ।
जिस प्रकार बकुल (मौलसिरी) वृक्ष कामिनियोंके मुख-मद्यके संस्पर्शसे स्वकीय पुष्प-समूहको विकसित करता है उसी प्रकार राजा भी किसी समयमें कामिनियोंके मुखमें भरे मदिराके घूंटके स्वादसे आनन्दित होकर स्फूर्ति लाभ करता था । जिस प्रकार अशोक वृक्षमें युवतियोंके चरणतलके प्रहारसे लगे हुए अलक्तक रससे रक्त-पुष्प निकलते हैं, उसी प्रकार राजा भी किसी समयमें युवतियोंके चरण-प्रहारसे शरीरमें लगे हुए अलक्तक रससे उन लोगोंके प्रति और भी अनुरक्त होता था । किसी समय राजा, बलरामके समान चन्दन लेपन करनेसे शुभ्रवर्ण हुए कण्ठमें मनोहर और चञ्चल कुसुममाला धारणकर प्रिय युवतियोंके साथ मद्यपान करता था । जिस प्रकार मत्त गन्धगज स्वकीय मदजलपूरित कपोलद्वयके ऊपर विस्तृत कर्णयुगल हिलता हुआ खिले हुए वनलता कुसुमोंकी उत्तम सुगन्धसे युक्त वनमें भ्रमण करता है, उसी प्रकार राजा भी किसी समय मदसे मत्त हुए-स्वकीय मदसे लाल हुए कपोलद्वय पर कानमें पहने हुए पल्लवको झुलाता हुआ हर्षवश मधुरध्वनिसे युक्त होकर प्रिय युवतियोंके साथ खिले हुए वनलता-कुसुमोंकी उत्तम सुगन्धसे युक्त उद्यान (बगीचे) में भ्रमण करता था । किसी समय राजा मणिरचित युवतियोंके रुन-झनाने नूपुर (पायल) के शब्दसे आनन्दित चित्त होकर हंसके
१. कामिनीनां गण्डूष० । २. आस्वादन० । ३. ००अलक्तको रागं००। ४. चन्दनधवलकण्ठ००।
५. कण्ठावसक्तलोल००, कण्ठावभग्नकुसुमलोल००। ६. क्वचिद् 'कर्ण' इति पदं नास्ति । ७. विकस्वर ।
८. क्वणित्००।
| १८४ | कादम्बरी- | [ कथायाम्- |
|---|
कमलवनेषु रेमे। कदाचिन्मृगपतिरिव स्कन्धावलम्बितकेसर-मालः क्रीडापर्वतेषु विचचार। कदाचिन्मधुकर इव विजृम्भमाण-कुसुम-मुकुलदन्तुरेषु लतागृहेषु बभ्राम। कदाचित्$^२$ नील-पट-विरचितावगुण्ठनो बहुलपक्ष-प्रदोष-दत्त-सङ्केताः सुन्दरीरभिससार। कदाचिच्च विघटितकनक-कपाट-प्रकटवातायनेष्वनवरत-दह्यमान-कृष्णागुरु-धूमरक्तैरिव पारावतैः$^५$ अध्यासित-विटङ्केषु महाप्रासाद-कुक्षिषु कतिपयाप्त-सुहृत्परिवृतो वीणा वेणु-मुरज-मनोहरमन्तःपुर-सङ्गीतकं ददर्श। किं बहुना, यद्यदतिरमणीयमभिमतमविरुद्धमायत्यां तदात्वे च तत्तदनाक्षिप्तचेताः परिसमाप्तत्पादन्येषां पृथिवीव्यापाराणां सिषेवे, न तु
कदाचिदिति। मृगपतिरिव सिंह इव, स्कन्धे अवलम्बिता धृता केसरमाला बकुलपुष्पस्रक्, सटापङ्किश्च येन स तादृशः, क्रीडापर्वतेषु खेलाशैलेषु विचचार बभ्राम।
कदाचिदिति। मधुकरो भ्रमरः तद्वत्, विजृम्भमाणैः प्रस्फुटद्भिः कुसुममुकुलैः पुष्पकुड्मलैः दन्तुराणि विषमाणि तेषु तादृशेषु, लतागृहेषु वल्लीभवनेषु बभ्राम विचचार। इह 'अशोकपादप इव' इत्यारभ्य 'मधुकर इव' इत्यन्तमुपमालङ्कारः।
कदाचिदिति। नीलपटेन श्यामवस्त्रेण विरचितं सम्पादितम्, अवगुण्ठनं शिरोऽवधिशिरोराच्छादनं येन सः तादृशः, अन्यकर्तृकावलोकनभियेत्याशयः। बहुलपक्षस्य कृष्णपक्षस्य प्रदोषे रजनीमुखे दत्तः सङ्केतः 'भवतीषु तत्रोपस्थितासु अहमुपेत्य रंस्ये' इति निर्देशो यासु ताः तादृशीः, सुन्दरीः रमणीः अभिससार स्वयमभिसरणं कृतवान्।
कदाचिदिति। अपि चेति चकारस्यार्थः। विघटितैः उद्घाटितैः कनककपाटैः सुवर्णनिर्मितकपाटैः प्रकठानि प्रस्फुटानि वातायनानि गवाक्षा येषु तादृशेषु, अनवरतं निरन्तरं दह्यमानानां सौगन्ध्यार्थमित्याशयः, कृष्णागुरूणां काकतुण्डानां धूमैः दहनकेतनैः रक्ता रञ्जिताः तैरिव धूम्रवर्णत्वादित्याशयः। पारावतैः कपोतैः अध्यासितानि अवलम्बितानि विटङ्कानि कपोतपालिका येषु तादृशेषु, महाप्रासादानाम् श्रेष्ठनृपभवनानां कुक्षिषु मध्यभागेषु कतिपयैः कियद्भिः आप्तैः रागादिरवशादपि नान्यथावादिभिः सुहृद्भिः मित्रैः परिवृतः सहितः, वीणा वल्लकी, वेणुर्वंशः, मुरजो मृदङ्गः, तैः तेषां वाद्यैरित्यर्थः, मनोहरम् अतिरमणीयम्, अन्तःपुरस्य अवरोधस्य सङ्गीतकं नृत्यगीतवाद्यत्रयं च ददर्श अद्राक्षीत्।
'अनवरतदह्यमानकृष्णागुरुधूमरक्तैरिव' इत्यत्र क्रियोत्प्रेक्षा।
किमिति। किं बहुना बहुवक्तव्येन किमित्यर्थः, यत् यत् अनिर्दिष्टनामकं वस्तु अतिरमणीयम् अतिमनोहरम् अभिमतम् इष्टम् आयत्याम् उत्तरकाले तदात्वे तस्मिन् काले च 'तत्कालस्तु तदात्वं
समान कमल-वनमें क्रीडा करता था। किसी समय गल-प्रदेशमें वकुल (मौलसिरी) पुष्पोंकी माला धारकर स्कन्धदेशमें जटासमूहधारी सिंहके समान क्रीडा पर्वतोंपर विचरता था, किसी समय खिलती हुई फूलोंकी कलियोंसे असमानता प्राप्त लता-मण्डपोंमें भ्रमरके समान भ्रमण करता था। किसी समय नीलवर्ण-वस्त्रसे सभी अङ्गोंको आच्छादित कर कृष्णपक्षकी रात्रिके प्रदोष-कालमें संकेत करनेवाली सुन्दरीयोंसे मिलने जाता था। एवं किसी समय कितने ही प्रिय मित्रोंसे परिवृत होकर उत्कृष्ट महलके मध्यमें रहकर अन्तःपुरस्थ सुन्दरियोंके वीणा, वंशी और मृदङ्ग वाद्यसे मनोहर नृत्य-गीतादि रूप सङ्गीत देखता था, उस समय वह सभी महलके भीतर सुवर्णके किवाड खोलकर खिड़कियाँ खोल देता था, एवं वहाँ दिन-रात जलते काले अगरूके धूमसे मानो रँगे हुए कबूतर अपने खोपोंके अन्दर रहते थे। अधिक कहनेसे क्या होगा ? सारांश यह है कि—जो कुछ वस्तु संसारके मध्यमें अत्यन्त रमणीय मनोरञ्जक अपना अभिमत एवं उक्त समयके तथा भविष्य-कालके अनुकूल था उन सभी वस्तुओंको
१. स्कन्धावलम्बिकेसर ०००। २. 'कदाचिदनलताग्रथितमौलिर्नक्तमालिकुसुमस्तवकरचितशेखरः शुकपक्षकराग-मथरुपता नलिनोदलकोमलेन हरितकञ्चुकेनावच्छिन्नशरीरावयवः कोदण्डदण्डसनाथीकृतवामेतरांसदेशः पुरः प्रभाविलानानेकश्वगणिवागुरिकैरुपदिश्यमानवर्त्मभिरनेकपक्षिजानित्समालम्बनव्यग्रपाणिभिः परिहासपेशलं सवयोभिरनुगम्यमानो मृगयारसविद्धचेताः सुचिरं गिरिनदिकारण्यप्रसरेषु 'परिवभ्राम' इति पाठः क्वचित्समुपलभ्यते, किन्त्वप्राकरणिकत्वेनेह मूले न निवेशित इत्यवधेयम्। ३. बहूलनिशाप्रदोष०। ४. ०००कनककपाटं। ५. पारापतः। ६. अधिष्ठित ०००। ७. कुत्रचित् 'महा' इति पदं नास्ति। ८. मनोहरमवरोध..., मनोहर तममन्तःपुर ०००। ९. किञ्च बहुना। १०, अतिरमणीयमविरुद्धमायत्याम्।
शुकनासगौरववर्णने ] चन्द्रकला-विद्योतिनीसहिता । [ १८५
न्व्यसनितया। प्रमुदितप्रजस्य हि परिसमाप्त-सकल-महीप्रयोजनस्य नरपतेर्विषयसम्भोग-लीला-भूषणम्, इतरस्य तु विडम्बना। प्रजानुरागेहेतोरन्तरान्तरं दर्शनं ददौ, सिंहासनञ्च निमित्तेष्वारुरोह।
शुकनासोऽपि महींन्तं तं राज्यभारमनायासेनैव प्रज्ञाबलेन वभार। यथैव राजा सर्वकार्याण्यकार्षीत् तद्वदसावपि द्विगुणीकृतं-प्रजानुरागो राजकार्याणि चक्रे। तमपि आव-
स्यादुत्तरः काल आयतिः' इत्यमरः। अविरुद्धं परस्त्रीसम्भोगपुरुगगणदुर्व्यवहारादिशास्त्रप्रतिषिद्धरहितम्, तत्त्व अनासक्तम् अव्यग्रं चेतो हृदयं यस्य स तादृशः सन्, अन्येषां भोगविलासव्यतिरिक्तानां पृथिव्या भूमेः व्यापाराणां शासनादीनाम्, परिसमाप्तत्वात् भारवहनक्षमसचिवे स्थापिततया अवसितत्वात् सिषेवे सेवितवान्, नु किन्तु, व्यसनितया तत्र तत्रासामर्थ्यशालितया न, एवञ्च भोगविलासो नापत्ति-जनक इत्याशयः।
प्रमुदितेति। हि तथाहि प्रमुदिताः शासनसंरक्षणादिना आनन्दं प्रापिताः प्रजाः प्रकृतयो येन तस्य तथोक्तस्य, परिसमाप्तानि भारवहनक्षमामात्यादौ स्थापिततया अवसितानि सकलानि समग्राणि महीप्रयोजनानि भूमावावश्यकानि शासनसंरक्षणादिकृत्यानि यस्य तादृशस्य विषयसम्भोगलीला माल्यचन्दनरमण्यादिभोगविलासो भूषणम् आभरणस्वरूपा, तु परन्तु इतरस्य तद्व्यतिरिक्तस्य अपरिस-माप्तसमस्तपृथ्वीकृत्यस्य, सुव्यवस्थाभावादशान्तिपूर्णाधिपत्यस्य भूपतेरिति तात्पर्यम्, विषयसम्भोग-लीला माल्यचन्दनादिभोगविलासः विडम्बना आत्मवञ्चनामात्त्रम्, निरन्तरमेवाशान्ततया तथाविधप्रमो-दानुभवाभावादित्याशयः। इहार्थान्तरन्यासः।
प्रजेति। प्रजायाः प्रकृतेः अनुरागः स्नेहः तस्य हेतोः तदर्थम् अन्तरान्तरा मध्ये मध्ये दर्शनं प्रजानां प्रसादावलोकनं ददौ दत्तवान्, अन्यथा स्वीयसुखदुःखयोरुदासीन्यानुमानेन प्रकृतीनां विरक्तिर्भवेदित्या-शयः। निमित्तेषु विचारसापेक्षेषु शासनकृत्येषु पर्वोत्सवादिषु वा प्राप्तेषु सिंहासनं नृपासनम् आरुरोह आरूढवान्।
शुकनासोऽपीति। शुकनासोऽपि एतन्नामकप्रधानसचिवोऽपि महान्तं गरिष्ठमपि राज्यभारम् आधिपत्यधुरम् अनायासेनैव प्रयासं विना प्रज्ञाबलेन राजनीतिशक्त्या बभार धारयामास।
यथैवेति। यथैव येन प्रकारेणैव राजा भूपतिः कार्याणि शासनपालनादिव्यापारान् अकार्षीत् कृतवान् तद्वत् तेनैव प्रकारेण असौ शुकनासोऽपि द्विगुणीकृतः पूर्वस्माद्वहुलीकृतः प्रजायाः, प्रकृतेः अनुरागः स्नेहो येन स तादृशः राजकार्याणि स्वस्वामिशासनसंरक्षककृत्यानि चक्रे अकार्षीत्।
तमपीति। आवर्जितान् प्रणामसमये मूर्धानमनेन नमितान् कुसुमोत्कराव् प्रसूनमयशिरोऽवतंसात्
को राजाने भोगा, पर उस सुखमें न तो राजाने अपने चित्तको लीन किया और न वह उसका व्यसनी ही गया; क्योंकि—सुयोग्य मन्त्रीके दायमें समस्त राजकार्य सौंप देनेसे पृथिवीके शासन-पालनादि सभी कार्य उसके पूरे हो गए थे। महीमण्डल के सब कार्य समाप्त कर प्रजाका रञ्जन करनेवाले ऐसे राजाका भोग-विलास-भूषण-स्वरूप है; और जिसका राज्य सुशासनके अभावसे अशान्ति-परिपूर्ण है, उसके लिए तो विडम्बना मात्र है। प्रजावर्गके अनुरागके कारण बीच-बीच में राजा स्वयं दर्शन देता था एवं विशेष कोई प्रयोजन होने पर सिंहासन पर भी विराजमान होता था।
शुकनास भी बड़े भारी उस राज्यका भार अपने बुद्धिवलसे अनायास ही वहन करता था। जिस भावसे राजा सब काम करता था, वह भी उसी भावसे राजासे दुगुन प्रजाके साथ अनुराग उत्पन्न कर राजकार्य सम्पादन करता था। अधीनस्थ राज लोग मस्तक द्वारा उसको (शुकनास को) भी जब प्रणाम करते थे, उस समय उनके (राजाओंके) चमचमाते हुए चूडामणियोंकी किरणोंसे भरे हुए मुकुटोंका अग्रभाग अवनत हो जाता था,
१. अतिव्यसनितया। २. क्वचित् 'हि' पदं नास्ति। ३. ॰महीमण्डलप्रयोजनस्य। ४. विसदोपभोग-लीला। ५ हेतोश्चान्तरा। ६. महांन्तं राज्यभारं, महात्मन्तरिमितं राज्यभारम्। ७. ददर्श च। ८ क्वचिद् 'सर्व' इति पदं नास्ति। ९. द्विगुणीकृतः प्रजानुरागश्चक्रे। १०. चकार। ११. क्वचित्...।
१२ का०
१८६ | कादम्बरी- | [ कथायाम्-
लित-चूडामणि-मरीचि-मञ्जरीदालिभिर्मौलिभिरावर्जित-कुसुम शेखर-च्युत-मधु-शीकर-सिक्त-नृप-सभं दूरावनतिप्रेङ्खोलित-मणि-कुण्डल-कोटि-सङ्घट्टिताङ्गदं राजकमाननाम। तस्मिन्नपि चलति चलित-चटुल-तुरग-बल मुखर-खुर-रव-बधिरीकृतभुवनान्तरालाः, बल-भर-प्रचल-वसुधातल-दोलायमान-गिरयः, गलन्मदान्ध-गन्धगज-दान-धारान्धकाराः, संसर्पदतिबहल-धूलि-पटल-धूसरितासिन्धवः, प्रचलत्-पदातिबल-कलकल-स्फोटित-कर्ण-विवराः सरभसो-द्घुष्यमाण-जयशब्द-निरन्तराः, प्रोद्धूयमान-धवल-चामर-सहस्रसंच्छादिताः, पुञ्जित-नरेन्द्र-वृन्द-कनकद्ण्डातपत्र-संघट्ट-नष्ट दिवसाः, दश दिशो बभूवुः ।
च्युतैः स्यन्दितैः मधुशीकरैः पुष्परसविन्दुभिः सिक्ता सेचिता नृपसभा राजपरिषद् येन तत्तादृशम्। तथा दूरावनत्या दूरप्रदेशप्रणामेन प्रेङ्खोलितयोः सञ्चलितयोः मणिकुण्डलयोः रत्नमयश्रवणामरणयोः कोटिभ्याम् अग्रभागाभ्यां सङ्घट्टिते घृष्टे अङ्गदे केयूरद्वयं बाहुवलयमित्यर्थः, यस्य तत्तादृशम्। नन्वत्र बहूनां राज्ञां शिरसोऽवनमनसमये कर्णकुण्डलानां बहुत्वेन कथं द्विवचनेन विग्रह इति चेत्! सत्यम् 'स्तनादीनां द्वित्वविशिष्टा जातिः' इति वामनसूत्रप्रामाण्यामभ्युपगम्य तया प्रतिपादनेन दोषाभावात्। राजकं राजसमूहः, आवलितम् अवनतं चूडामणिमरीचिमञ्जरीणां मस्तकस्थितरत्नमयूखाग्राणां जालं समूहः एषामस्तीति तैः तादृशैः मौलिभिः, शिरोभिः, नं शुकनासमपि आननाम नमश्चक्रे ।
तस्मिन्निति । तस्मिन् शुकनासेऽपि चलति क्वापि प्रस्थिते सति, दश दिशः इत्थम्भूता बभूवुरिति सम्बन्धः। तथा हि-चलितस्य शुकनासेन साकं प्रयातस्य चटुलस्य चपलस्य तुरगबलस्य वाजिसैन्यस्य मुखरा वाचालः ये खुराः शफाः तेषां रवैः शब्दैः बधिरीकृतं तदन्यशब्दाविषयीकृतं भुवनान्तरालं जगन्मध्यं यासु ताः तादृश्यः । वलभरेण सहसंचालितसैनिकभारेण प्रचले कम्पिते वसुधातले पृथ्वीतले दोलायमानाः सञ्चलन्तः गिरयः शैला यासु ताः तादृश्यः । गलन्तीभिः स्रवन्तीभिः मदान्धानां मदोन्मत्तानां गन्धगजानां गन्धेभानां दानधाराभिः मदजलपङ्क्तिभिः अन्धकारस्तमो यासु ताः तादृश्यः । इह गन्धगजल्लक्षणमेवं दृश्यते—
'यस्य गन्धं समाघ्राय न तिष्ठन्ति प्रतिद्विपाः ।
तं गन्धहस्तिनं प्राहुर्नृपतेर्विजयावहम् । इति ।
संसर्पता ऊर्ध्वं गच्छता अतिबहलेन अत्यन्ताधिकेन धूलिपटलेन रजःसमूहेन धूसरिता धूम्रवर्णी-कृताः सिन्धवस्सरितो यासु ताः तादृश्यः। प्रचलतां सहप्रस्थितानां पादाभ्यां चरणाभ्याम् अयन्ति गच्छ-न्ती ये ते पदातयः ते च ते वलानि सैन्यानि तेषां तथोक्तानां कलकलैः कोलाहलैः स्फोटितानि भिन्नानि कर्णविवराणि श्रवणरन्ध्राणि यासु ताः तादृश्यः। सरभसं सवेगम् उद्घुष्यमाणैः उच्चैरुच्चार्यमाणैः जयशब्दैः 'जयजय' इति शब्दैः निर्न विद्यते अन्तरम् अवकाशो यासां ताः तादृश्यः, तैः सम्भृता इत्यर्थः, 'अन्तरम-वकाशावधि' इत्यामरः । प्रोद्धूयमानेन संवीज्यमानेन धवलचामराणां शुभ्रवालव्यजनानां सहस्रेण समूहेन संच्छादिताः आवृताः । तथा पुञ्जितस्य समुत्पन्नसद्भावस्य नरेन्द्रवृन्दस्य नृपसमूहस्य यानि कनकद्ण्डातपत्राणि कनकनिर्मिता दण्डा येषां तानि छत्राणि तेषां सङ्घट्टेन उपरि मिथोघटनसंयोगेन नष्ट
मस्तक अवनत करनेसे फूलोंके शेखरोंमें से टपकते मधुसे राजसभाका स्थान गीला हो जाता था और दूरते ही मस्तकको अवनत करने (झुकाने) के कारण लटकते मणिकुण्डलोंके अग्रदेश द्वारा उनके बाहुस्थित केयूरों (बाजूबन्दों) से रगड़ने लगते थे। उसके भी किसी स्थानमें प्रस्थान करनेपर संदच्युतिसे अन्धे हुए गन्धगजोंके दान-धारासे दशों दिशाओंमें अँधेरा छा जाता था, मदगामी चपल घोड़ों की टापोंकी आवाजसे भुवनोंके अन्तराल बहरे हो जाते थे, सैन्यगणके पदभारसे पृथिवीतलके कम्पित होनेपर पर्वतसमूह भी डगमगाने लगते थे, उड़ती हुई धूलके ढेरसे रास्ताके समीपवर्ती नदियों का रङ्ग मटमैला हो जाता था, साथ-साथ चलते हुए पैदल सेनाओं की कलकलसे कानोंके परदे फटे जाते थे, बहुत जोरसे बराबर उच्चारण किया गया जय शब्द सभी दिशाओंमें व्याप्त हो जाता था, हिलते हुए अगणित श्वेत चामर पृथिवीको आच्छादित कर देते थे, और एकत्रित हुए राजाओं की सुवर्ण-दण्डवाली छत्र रेनडोंके निकट भिट जानेसे दिन की शोभा नष्ट हो जाती थी।
१. सिक्तन्ृपसभादूरावनतिसिक्तसमं ।
२. ॰प्रेङ्खित॰ ।
३. चलिते ।
४. चटुलतुरङ्ग ।
५. ॰भुवनाः ।
६. कचित् 'भर' इति पदं नास्ति ।
७. ॰न्तिरबहुल॰ ।
८. धूलिप्रबलपदातिबल ।
९. ॰रवस्फोटित॰ ।
१०. श्रवणविवराः ।
११. ॰निन्र्तराः ।
१२. ॰संघट्टन॰ ।
अनपत्यताविषाद०-६ ] चन्द्रकला-विद्योतिनीसहिता । १८७
एवं तस्य मंत्रि-विनिवेशित-राज्यभारस्य यौवन-सुखमनुभवतः कालो² जगाम । •भूयसा च कालेनान्येयामपि जीवलोकसुखानां प्रायः सर्वेषामन्तं ययौ, एकन्तु सुत-मुख-दर्शनसुखं न लेभे । तथा संभुज्यमानमपि निष्फलपुष्पदर्शनं शरवणमिवान्तः पुरमभवत् । यथा यथा च॑ यौवनमति-चक्राम, तथा तथा विफैल-मनोरथस्यानपत्यताजन्माऽवर्द्धताऽस्य सन्तापः । विषयोपभोग-सुखेच्छाभिश्च मनो विजहे । नरपतिसहस्र-परिवृतमप्यसहायमिव, चक्षुष्मन्तमप्यन्धमिव, भुवनालम्बनमपि निरालम्ब्यैनमिव आत्मानम् अमन्यत ।
आच्छादितो दिवसो वासरालोको यासु ताः तादृश्यः। इह प्रतिविशेषणं सम्बन्धभावेऽपि सम्बन्ध-रूपातिशयोक्तिः ।
एवमिति । एवं पूर्वोक्तविधिना, सचिवे विनिवेशितः सम्पूर्णभावेन स्थापितः राज्यभारः आधिपत्य-भारो येन तस्य तादृशस्य, यौवनसुखं तारुण्यसौख्यम् अनुभवतः अनुभवं कुर्वतः तस्य तारापीडस्य कालः समयो जगाम गतवान् । भूयसा भूरियेण समयेन प्रायो बाहुल्येन अन्येषामपि जीवलोकसुखानां प्रजालोकानन्दानां सर्वेषाम् अन्तं ययौ अनुभवेन पारं प्राप । तु किन्तु सुतमुखदर्शनसुखं पुत्रवदना-वलोकनानन्दं यत्तदेकं न लेभे न प्राप । तथा सम्भुज्यमानमपि तथाविधोक्तरूपेण संभोगविषयीक्रिय-माणमपि अन्तःपुरम् अवरोधस्थयोपित्समूहः, शरवणं बाणसंज्ञकतृणसमूहमिव, निर्नास्ति फलं सुतो-त्पत्तिरूपं प्रयोजन सस्यञ्च यस्य तत्तादृशम् , पुष्पाणां रजसां प्रसूनानाञ्च दर्शनं यत्र तत्तथोक्तम् अभवत् । शरवणे यथा प्रसूनोत्पत्तिर्भवति किन्तु फलं न जायते तथा पूर्वोक्तासु वनितासु रजःस्वलास्वपि रमण-प्रधानफलभूतः सुतो नाजायत इति स्पष्टार्थः । इह च पूर्णोपमा ।
यथेति । यथा यथा येन येन प्रकारेण यौवनं तारुण्यम् अतिचक्राम अतिक्रान्तवान् तथा तथा तेन तेन प्रकारेण, विफलो निष्फलो मनोरथोऽभिलापो यस्य तादृशस्य अस्य भूपतेः तारापीडस्य, अन-पत्यतायाः निःसन्तानतायाः सकाशात् जन्म उत्पत्तिर्यस्य स तादृशः, सन्तापो मानसी व्यथा अवर्द्धत वृद्धिं पाप । विषयाणां स्रक्चन्दनादीनां य उपभोगोऽसङ्गदोगः तस्मादुत्पन्नं यत्सुखम् आनन्दः तस्य इच्छाभिः अभिलापाभिः, मंनश्चित्तं विजहे परित्यजाज ।
नरपतीति । नरपतीनां राज्ञां यत् सहस्रं समूहः तेन परिवृतं परिवेष्टितमपि असहायम् द्वितीयेन सहायकेन शून्यम् , 'अपुत्रस्य गृहं शून्यम्' इति न्यायादित्यर्थः। चक्षुष्मन्त सनेत्रमपि अन्धमिव गताद्यमिव पुन्नामनरकोद्धारणोपायानवलोकनादित्याशयः । भुवनालम्बनमपि शासकतया जगदाधारमपि निरालम्बनं निराधारमिव, पिण्डविच्छेदासम्भवेन पतनसम्भवादित्याशयः । आत्मानं स्वम् अमन्यत अज्ञासिष्ट ।
इह नरपतीत्यादौ भुवनेत्यादौ चाभावाभिमानिनी 'चक्षुष्मन्तमिव' इत्यत्र भावाभिमानिनी जात्युत्प्रेक्षा, इत्यासां परस्परं नैरपेक्ष्येण विद्यमानत्वात् संसृष्टिरलङ्कारः ।,
इस प्रकार मन्त्रीके ऊपर समस्त राज्यका भार सौंपकर वह राजा यौवन-सुखके अनुभव में समय व्यतीत करता था। अधिक समय तक उस सुखका अनुभव करता हुआ वह अन्य सब सांसारिक सुखोंके अन्ततक पहुँच गया, किन्तु एक मात्र पुत्रमुख देखनेका सुख उसको प्राप्त नहीं हुआ। ऐसे ऐसे भोगोंके होने पर भी अन्तःपुर (रनिवास) उसे निष्फल पुष्प-दर्शन युक्त बाण घासके समान लगने लगा (बाण नामक घासमें, पुष्प तो बहुत निकलते हैं, किन्तु फल नहीं लगते; स्त्रियोंको रजोदर्शन तो होता था, किन्तु सन्तान नहीं होती थी) । जैसे जैसे यौवन व्यतीत होने लगा, वैसे-वैसे उसकी पुत्रकी आशा भी विफल होने लगी, सन्तान नहीं होनेसे मनमें सन्ताप भी खूब बढ़ता गया, क्रमशः विषय-सम्भोग-सुखकी इच्छा उसके मनसे हटने लगी उस समय वह, अगणित राजाओंसे परिवृत होने पर भी मानो असहायके समान, चक्षुष्मान् होने पर भी अन्धके समान एवं समस्त भुवनोंका आधार होने पर भी निराधारके समान अपनेको मानने लगा।
१. मन्त्रिनिवेशित । २. कश्चित्कालः । ३. तनयमुख..., तोकमुख... । ४. उपभुज्यमानमपि । ५. अभूत् । ६. कचित् 'च' इति पदं नास्ति । ७. निष्फल... । ८. नराजन्मवाऽवर्द्धताऽस्य । ९. विजने, विजगाहे । १०. भुवनडन्बनम्, भुवनावलम्बनम् । ११. निरालम्बमिव । १२. आत्मानमनयतन् ।
| १६८ | कादम्बरी- | [ कथायाम्- |
|---|
ञ्चतिं सभान्तरेषु । इत्येतानि चान्यानिं मनोरथशतानि चिन्तयतोऽन्तःसन्तप्यमानस्य प्रयान्ति रजन्यः। मामपि दह्त्येवायमहर्निशमनल इवानपत्यतासमुद्भवः शोकः। शून्यमिवँ मे प्रतिभाति जगत्, अफलमिवं पश्यामि राज्यम्। अप्रतिविधेये तु विधातरि किं करोमि, तन्मुच्यतां देवि ! शोकानुबन्धः, आधीयतां धैर्ये धर्मे च धीः, धर्मपरायणानां हि सदा समीपसञ्चारिण्यः कल्याणसम्पदो भवन्ति' इत्येवम् अभिधाय सलिलमादाय स्वयं करतलेनाभिनव-पल्लवेनेव विकचकंमलतुल्यम् आननमस्याः साश्रुलेखं ममार्ज्ज। पुनः पुनश्च प्रियशतमधुराभिः शोकापनोद-निपुणाभिर्धर्मोपदेशगर्भाभिर्वाग्भिराश्वास्य सुचिरं
क्रियमाणा अत एव लोला चपला दृष्टियंस्य स तादृशः, आस्थानस्थितस्य परिषदासीनस्य मे मम पुरः पुरस्तात् सभान्तरेषु राजपरिषन्मध्यभागेषु पर्यटिष्यति परिभ्रमिष्यति। इह बालस्वभाववर्णनात् स्वभावोक्तिः।
इतीति। इत्येतानि पूर्वप्रतिपादितानि सुतचरितानि; अन्यानि चानभिहितानि मनोरथशतानि मनोविषयीक्रियमाणानि सुतस्य शिष्टाचार्यादिव्यवहारान् चिन्तयतो ध्यायतः अन्तःसन्तप्यमानस्य तथाविधात्मजाजननादन्तःकरण एव खेदं प्राप्नुवतः, अधैर्यप्रकाशापवादभीत्या बहिरप्रकट्यत इत्याशयः। ममेति शेषः, रजन्यो रात्रयः प्रयान्ति गच्छन्ति। इह वृत्त्यनुप्रासः।
नामिति। अनपत्यतासमुद्भवः असन्तानतासमुत्पन्नः शोकोऽन्तस्तापः, अनल इव वह्निरिव अहर्निशं प्रतिदिनं मामपि न केवलं त्वामेव किन्तु मामपीत्यपेरर्थः, दह्त्येव परितापयत्येव। इहोपमा।
शून्यमिवेति। मे मम शून्यमिव उद्वासितमिव जगद्विश्वं प्रतिभाति, तथाविधाग्रयाभावादित्यभिप्रायः। राज्यम् आधिपत्यम् अफलमिव निरर्थकमिव पश्यामि अवलोकयामि भाविनो भोक्तुरसत्त्वादिति भावः।
नन्वेवंविधशोकापनोदाय कोऽपि यत्न आलम्ब्यतामित्यत आह—अप्रतीति। विधातरि विधेः वैपरीत्ये इत्यर्थः, अप्रतिविधेये मानुषक्रियया प्रतिकर्तुमयोग्य सति किं करोमि किमनुतिष्ठामि प्रतिकूलदैवजनित एवास्माकं विषाद इत्याशयः। तत्तस्माद्धेतोः, हे देवि ! अयं शोकानुबन्धः अनात्मजतानिबन्धना सन्तापपरम्परा मुच्यतां त्यज्यताम्। धैर्ये धीरतायां धर्मे सुकृते च धीर्बुद्धिः आधीयतां स्थाप्यताम्। धर्म एव परम् उत्कृष्टम् अयनमवलम्बनं येषां ते धर्मपरायणा धार्मिकाः तेषां तादृशानां हि कल्याणसम्पदः श्रेयोविभूतयः सदा सर्वकालं समीपसञ्चारिण्यो निकटवर्त्तिन्यो भवन्ति सञ्जायन्ते, इत्येवं पूर्वोक्तविधिना अभिधाय कथयित्वा, सलिलं जलम् आदाय गृहीत्वा स्वयम् आत्मनः करतलेन पाणितलेन अभिनवपल्लवेनेव नूतनकिसलयेनेव रक्ततेनेत्याशयः, विकचं प्रस्फुटं यत् कमलं पद्मं तदेवोपमानं सादृश्यं यस्यैतादृशम् अस्या विलासवत्या अश्रुलेखया नयनजलपङ्क्त्या सह वर्तत इति साश्रुलेखम् आननं मुखं ममार्ज्ज शुशोध। इहाद्ये 'शून्यमिव' इत्यत्र श्रौती, द्वितीये 'अफलमिव' इत्यत्र चार्थी उपमेत्युभयोः सङ्करः।
पुनरिति। नरेन्द्रो भूपतिः पुनः पुनः मुहुर्मुहुः प्रियशतैः चाटुबाहुल्यैः मधुरा रमणीया ताभिः तादृशीभिः, शोकस्यान्तस्तापस्य चोऽपनोदो दूरीकरणं तत्र निपुणाभिः चतुराभिः, धर्मोपदेशो गर्भे
इस रूपमें वह पुत्ररत्न मेरे सामने सभा-मण्डपमें कब विचरण करेगा ? ये सभी, और ऐसे-ऐसे अनेक आकांक्षाके विषयकी चिन्ता करते-करते मेरे मनमें अत्यन्त सन्ताप उपस्थित होता रहता है—ऐसे रूपमें प्रतिदिन रात्रि व्यतीत होती है। अनपत्यता-निबन्धन यह सन्ताप मुझे भी दिन-रात अग्निके समान जलाता है। समस्त संसार मेरे निकट शून्यता प्रतीत होता है और यह सब राज्य निष्फलता देख पड़ता है। किन्तु विधाताके प्रतिकूलता-चरणके सामने अपना कुछ प्रतीकार नहीं चल सकता, क्या करूँ ! इसलिए, देवि ! यह सब निरवच्छिन्न मनस्तापको परित्याग करो, धैर्य और धर्ममें बुद्धि लगाओ, क्योंकि धार्मिक मनुष्योंके पास कल्याणकी सम्पत्ति सर्वदा रहती है' इतना कहकर, जल लेकर राजा अपने ही अभिनव पल्लवके समान हाथसे नयन जलकी रेखासे संयुक्त एवं खिले हुए कमलके समान रानीके मुख-मण्डलको धोया। फिर उसने सैकड़ों प्रिय और मधुर
१. र्टिप्यति। २. इत्येतानि च, इत्येतानि मनो...। ३. यान्ति। ४. संतापः। ५. शून्यमेव। ६. अफलमिवानखिलं पश्यामि जीवितं राज्यञ्च। ७. इत्यम्, एवं। ८. कमलतुल्यम्। ९. शोकापनोदन।
विलासकल्या देवताराधनवर्णनम् १० ] चन्द्रकला-विद्योतिनीसहिता । १६६
स्थित्वा नरेन्द्रो निर्जगाम । निर्गते च तस्मिन् मन्दीभूतशोकवेगा विलासवती यथाक्रियमाणाभरणपरिग्रहादिकमु- चितं दिवसव्यापारमन्वतिष्ठत् । ततः प्रभृति सुतरां देवताराधनेषु ब्राह्मणपूजासु गुरुजनस- पर्य्यासु चादरवती बभूव । यद् यच्च किञ्चित् कुतश्चित् शुश्राव व्रतं तत्तद्गर्भतृष्णया सर्वं च- कार । न महान्तमपि क्लेशमजीगणन् । अनवरत-दह्यमान-गुग्गुलु-धूमबहुलान्धकारितेषु चण्डि- कागृहेषु धवलाम्वरा शुचि-मूर्तिरुपोषिता हरितकुश पच्छद्देषु मुसलशयनेषु सुष्वाप । पुण्य- सलिलपूर्णैः विविधकुसुमफलोपेतैः क्षीरतरु-पल्लव-लाञ्छनैः सकलरत्नगर्भः शातकुम्भकुम्भै-
अभ्यन्तरे यासां ताभिः तादृशीभिः, वाग्भिः वचोभिः आश्वास्य आश्वासनं विधाय सुचिरं चिरकालं यावद् स्थित्वा स्थितिं विधाय निर्जगाम बहिर्निःसृतवान् ।
निर्गत इति । निर्गते बहिर्निःसृते च तस्मिन् राजनि मन्दीभूतशोकवेगा ईषद्व्योपगतांश्रादप्रवाहा। विलासवती राजमहिषी, यथा पूर्वविधिना क्रियमाणो विधीयमान आभरणपरिग्रहो भूषणधारणम् आदौ यस्य तं तादृशम्, उचितं योग्यं दिवसव्यापारं दिनकृत्यम्, अन्वतिष्ठत् अकरोत् ।
तत इति । ततः प्रभृति तद्दिनादारभ्य सुतराम् अत्यर्थं यथा स्यात्तथा देवताराधनेषु देवतासेवामु ब्राह्मणपूजासु विप्रार्चासु गुरुजनाः पूज्यजनास्तेषां सपर्यासु पूजासु च आदरवती अतिबहुमानवती बभूव जाता।
यद् यदिति । यद्यद् अश्रुतपूर्वम् अकृतपूर्वंञ्च किञ्चिदस्तु कुतश्चिद् यस्मात्कस्माच्चानिर्दिष्टनाम्कात् लोकात् शुश्राव श्रुतवती व्रतम् तपोयगादिकम्, तत्तद् गर्भतृष्णया बालकस्पृहया तनयप्राप्त्यभिलाप-देत्यर्थः, सर्वं निखिलं चकार कृतवती ।
नेति । महान्तं महीयांसमपि क्लेशं दुःखं नाजीगणत् चेतसि न गणितवती । अनवरतं निरन्तरं दह्यमानानां भस्मीभूयमानानां गुग्गुलूनां पद्धद्रवाणां धूमबहुलैः सान्द्रदहनकेतनैः अन्धकारितेषु अन्धकारः सञ्जातो येषु तेषु तादृशेषु । तारकादित्वादितच् । चण्डिकागृहेषु चामुण्डामवनेषु धवलाम्बरा शुभ्रवसना, शुचिमूत्तिः स्नानेन पूतशरीरा, उपोषिता विहितोपवासा सती । हरिताः श्यामवर्णाः अभिनवा इत्यर्थः, कुशा दर्भाः उपच्छदा आस्तरणानि येषु तयोक्तेषु मुसलशयनेषु पङ्क्तिरूपेण पतितमुसलशयनीयेषु सुप्वाप शयनं कृतवती । सन्तानप्राप्तये तन्तामयिकशिष्टव्यवहारादमी तन्त्रायनुष्ठानव्यवहारा अवग-न्तव्याः, साम्प्रतिकसमयादित्यमहाश्चार्चनप्रकरणीयचौमासस्नानव्यवहारवत् ।
पुण्येति । पुण्यानि पवित्राणि यानि सलिलानि जलानि तैः पूर्णैः पूरितैः, विविधानि अनेकप्रकाराणि यानि कुसुमफलानि पुनस्सत्यानि तैरुपेतेः सहितैः । क्षीरतरवो वटश्वताद्यस्तेषां पल्लवाः किसलयानि एव लाञ्छनानि ऊर्ध्वस्थचिह्नानि येषां तैः तादृशैः, सकलानि समस्तानि रत्नानि मग्नयो गर्ने मध्यप्रदेशे येषां तैः तादृशैः, शातकुम्भकुम्भैः कनकघटैः । 'स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम् । तपनीयं शात-कुम्भम्' इत्यमरः ।
वचनोंसे रानीका शोक ( मनःसन्ताप ) निवारण कर वारन्वार उसे आश्वासन दिया और बहुत देरके बाद वह उस स्थानसे चला गया ।
राजाके चले जानेके बाद उसके उपदेशसे ही शोकका आवेग कम हो जानेसे रानी विलासवती, पहलेके समान आभूषणधारणादि प्रतिदिवसीय सब कर्त्तव्य कार्य करने लगी और तबसे लेकर देवताओंकी आराधनामें, ब्राह्मणोंकी पूजा और गुरुजनोंकी सेवामें अधिक आदर दिखाने लगी और जिस किसी व्यक्तिने जो कुछ व्रत नियमादि सुननेमें आया, पुत्रप्राप्तिकी इच्छासे वे सभी करने लगी उस समय अत्यन्त श्रमकी भी कुछ गणना नहीं की । उपवास करके श्वेत वस्त्र पहनकर शरीरसे पवित्र हो वह दिनरात जलती गुग्गुलके घने धून के अन्धकारसे परिपूर्ण चण्डिकाके मन्दिरोंमें, मूसलोंकी शय्यापर हरे कुश बिछाकर, शयन करती थी। गायोंके बड्डेमें वृद्ध
१. सुचिरं नरेन्द्रो । २. मन्दीभूतशोका । ३. यथाक्रियमाणं, आभरणपरिग्रहादिकं समुचितं, आम-रणपरिग्रहादिसमुचितं । ४. वासरव्यापारमकरोत् । ५. ब्राह्मणपूजासु चादरवती गुरुजनपरिचर्यासु च, अधिकमादरवती । ६. हृदश्चिच्छुत्वा । ७. गर्भतृष्णया । ८. ०'गुग्गुलुबहुलधूपान्धकारितेषु । ९. धवला-म्बरेण, धवलाम्बर०' । १०. हरिकुश, ०'हरितकुशोपच्छन्नेषु । ११. मुसलशयनेषु । १२. पूरितैः, पूर्णैः ।
तारापीड चरित, चन्द्रापीड जन्म व विद्याभ्यास
२०८ ] [ कथायाम्-
कादम्बरी-
गोकुलेषु वृद्धगोपवनिताकृतमङ्गलानां¹ लक्षणसम्पन्नानां गवामधः सस्नौ । प्रतिदिवसमुत्थाय² सर्व्वरत्नोपेतानि हैमानि तिलपात्राणि ब्राह्मणेभ्यो ददौ । महानरेन्द्र-लिखित-मण्डल-मध्य-वर्त्तिनी विविध-वलिदानान्दित-दिग्देवतानि बहुले³-चतुर्दशीनिशासु चतुष्पथे⁴ स्नानमङ्ग-लानि⁵ भेजे । सिद्धायतनानि कृत-विविध-देवतोपयाचितानि⁶ सिषेवे । दर्शितप्रत्ययानि⁷ सन्निहितमातृका⁸-भवनानि जगाम । प्रसिद्धेषु नागकुलह्रदेषु ममज्ज । अश्वत्थप्रभृतीनुपपा-
गोकुलेषु व्रजेषु, वृद्धाभिः परिणतवयोभिः गोपवनिताभिः वल्लवस्त्रीभिः कृतानि विहितानि मङ्ग-लानि सिन्दूरचन्दनस्रग्गंर्गादिरूपाणि यासां तासां तादृशीनां लक्षणसम्पन्नानां समस्तश्यामवर्णादिसुल-क्षणानां गवां धेनूनाम अधः अधोभागे सस्नौ स्नानं कृतवती ।
प्रतीति । प्रतिदिवसं प्रतिदिनम् उत्थाय उत्थानं विधाय सर्व्वरत्नैः समस्तरत्नभिः उपेतानि युक्तानि हैमानि कनकभयानि तिलपात्राणि ब्राह्मणेभ्यो विप्रेभ्यो ददौ दत्तवती ।
महेति । महानरेन्द्रैः प्रधानभूतः भूतोपचारकर्त्ता मान्त्रिकः तेन लिखितं चिह्नितं यत् मण्डलं वर्त्तुरेखा तस्य मध्यवर्त्तिनी तदन्तःस्थायिनी सती, बहुलपक्षस्य कृष्णपक्षस्य चतुर्दशीनिशासु भूतरात्रिषु चतुर्णां पथां समाहारः सम्मेलनस्थानमिति चतुष्पथं तस्मिन् तथोक्ते, विविधानाम् अनेकप्रकाराणां वली-नाम् उपहाराणां दानेन आनन्दिताः प्रमोदं प्राप्ताः दिग्देवता दिक्पाला येषु तादृशानि, स्नानमङ्गलानि स्नानरूपाणि स्वस्तिकानि भेजे कृतवती ।
सिद्धेति । कृतानि विहितानि दत्तानीत्यर्थः, विविधानि नानाप्रकाराणि देवताभ्य उपयाचितानि 'दीयते यत्तु देवेभ्यो मनोरथज्यस्य सिद्धये । उपयाचितकं दिव्यं दोहदं तद्विदुर्बुधाः ॥' इत्यादिलक्षितानि अर्थात् 'यदि मे तनयप्राप्तिः स्यात्तदा पुनरप्येवमेव समर्पयेयम्' इति स्वीकारपूर्वकोपहाराः येषु तानि तादृशानि सिद्धायतनानि योगिस्थानानि सिषेवे प्रेमपूर्वकमवलम्बितवती ।
दर्शिताति । दर्शितो मातृकाभिरेव संसारे प्रकटितः प्रत्ययः मनोरथफलदानेन विश्वासो येषु तानि तादृशानि, सन्निहितानि निकटवर्त्तीनि मातृकाणां
'ब्राह्मी माहेश्वरी चैन्द्री वाराही वैष्णवी तथा । कौमारीत्यपि चामुण्डा चर्चिकेत्यष्टमातरः ॥'
इत्युक्तपरिगणितानां भवनानि गृहाणि जगाम गतवती ।
प्रसिद्धेष्विति । प्रसिद्धेषु स्नानेन वन्ध्याया अपि सुतोत्पादकतया प्रथितेषु नागकुलस्य ह्रदेषु सर्पाणां निकेतनीभूतखातेषु ममज्ज सशिरःस्नानं विहितवती ।
अश्वत्थेति । अश्वत्थः पिप्पलः प्रभृतिः आदौ येषां तान् तादृशान् महावृक्षान् विशालपुष्पहीनतरून् उपपादिता विहिता पूजा सपर्या येषां तान्, कृतं प्रदक्षिणं यया सा तादृशी ववन्दे नमश्चक्रे ।
गोपियोंसे किए हुए सिन्दूर, चन्दन और कुङ्कुम-माल्यादि चिह्नसे भूषित सुलक्षणी गायोंके नीचे बैठकर, पवित्र जल-परिपूर्ण, नानाविध पुष्प और फलसंयुक्त, आम्र एवं वट प्रभृति क्षीरिवृक्षके पल्लवसे युक्त तथा सब रत्नोंसे परिपूर्ण सुवर्ण के कलशोंके जलसे वह स्नान करती थी । प्रतिदिन शयनसे उठकर, नानाविध रत्नोंके साथ सुवर्णके तिलपात्रोंको लेकर ब्राह्मणोंको दान देती थी । कृष्णपक्षकी चतुर्दशी रात्रिमें चौराहों पर जाकर, बड़े-बड़े भूतवैद्यों (ओझाओं) द्वारा बनाये हुए जादूके घेरोंके बीचमें बैठकर, अनेक प्रकारके बलिदानसे दिक्पालोंको सन्तुष्ट करके, माङ्गलिक स्नान करती थी । 'मुझे यदि पुत्र होगा, तो फिरसे इसी प्रकार बलिदान करूँगी' इस प्रकार मन्नते करके देवताओंको नानाविध उपहार-प्रदानपूर्वक भक्तिपूर्ण चित्तसे सिद्धमन्दिरोंकी सेवा करती थी । जिन देवियोंने अपने भक्तोंको अभीष्ट फल प्रदान कर जिन्हें विश्वास उत्पन्न कर दिया था, समीपवर्त्ती उन सभी माक्षीप्रभृति देवियोंके मन्दिरोंमें जाती थी । नागकुलके प्रसिद्ध सरोवरोंमें स्नान करती थी । पीपल आदि महावनस्पतियों की पूजा और दक्षिणा करके उनको नमस्कार करती थी । स्नान करनेके बाद, अपनेसे ही चाँदी के पात्रमें, चावलके
१. ०मङ्गला । २, उत्थायोत्थाय । ३. बहुलपक्ष० । ४. चतुष्पथेषु । ५. सपन० । ६. कृतविचित्र०, कृतविविधदैवतोप० । ७. प्रत्यादेशानि । ८. सन्निधानमातृका०, सन्निहितमातृका० ।
सुतप्राप्त्यर्थंराजन्यव्यवहार०-११ ] चन्द्रकला-विद्योतिनीसहिता । २०१
दितपूजान्महावनस्पतीन् कृतप्रदक्षिणो ववन्दे । दोलायमान-वलयेन^१ पाणियुगलेन स्नाता^२ स्वयमखण्डसिक्थ-सम्पादितं^३ रजतपात्र^४-परिगृहीतं वायसेभ्यो दध्योदन-बलिमदात् । अपरिमित-कुसुम-धूपविलेपापूप-^५ पलल-पायस-लाज-^६ कलितामहरहन्म्रादेवी^७-सपर्यामाततान । स्वयमुपहृत-^८पिण्डपात्रान् भक्तिप्रवणेन मनसा सिद्धादेशांन्नग्नक्षपणकान् पप्रच्छ । विप्रश्निकादेशवचनानि बहु मेने । निमित्तज्ञानुपचचार । शकुनज्ञानविदामोदरमदर्शयत् । अनेकवृद्ध-परम्परासमागतान^९ रहस्यानि चकार^१०। दर्शनागतद्विजगणान्^११ आत्मजदर्शनोत्सुका वेदश्रुती-
दोलायेति । स्नाता कृतस्नाना सती, स्वयं स्वेनैव, दोलायमाने चञ्चले वलये कटके यस्य तेन तादृशेन, अखण्डैः अत्रुटितैः सिक्थैः धान्यकणैः सम्पादितं निष्पादितम्, रजतपात्रपरिगृहीतं रौप्यभाजनान्तं दध्योदनवलिं दधियुक्तान्नरूपमुपहारं वायसेभ्यः काकेभ्यः अदात् दत्तवती ।
अपरीति । अहरहः प्रत्यहम्, अपरिमितैः अगणितैः कुसुमैः पुष्पैः धूपैः गन्धपिशाचिकाभिः, विलेपैः चन्दनादिविलेपनद्रव्यैः, अपूपैः पिष्टकैः, पललैः पिष्टतिलयोजितान्नैर्मासैर्वा, पायसैः परमान्नैः, लाजैः धानाभिश्च कलितां सम्पादिताम्, अम्बादेव्या भगवत्याः श्रीदुर्गादेवतायाः सपर्यां पूजाम् आततान विहितवती ।
स्वयमिति । भक्तिप्रवणेन प्रेमतत्परेण मनसा चित्तेन, स्वयं स्वेनैव, उपहृतानि उपढौकितानि पिण्डपात्राणि अन्नभाजनानि येभ्यस्तान् तादृशान्, सिद्धाः सत्या आदेशाः आज्ञावचनानि येषां तान् तादृशान्, नग्नक्षपणकान् दिगम्बरान् बौद्धविशेषान्, पप्रच्छ 'तनयो मे स्यान्न वा' इत्यप्राक्षीत्, 'त्वरितमेव तनयस्ते स्यात्' इति यद्यमी कथयेयुस्तदाऽमीषां सिद्धादेशतया मनोरथसिद्धिर्भवेदित्यभिप्रायेणेति भावः ।
विप्रेति । विप्रश्निकानां शुभाशुभप्रकाशिकानां योषिताम् आदेशवचनानि आज्ञावचनानि बहु मेने आदरविशेषेण स्वीचकार । 'विप्रश्निका त्वैक्षिणिका दैवज्ञा' इत्यमरः ।
निमित्तेति । निमित्तानि शुभाशुभबोधकानि नेत्रस्पन्दनानि जानन्ति ये ते तादृशाः तान्, उपचचार तदन्तिके ययौ, तज्ज्ञानार्थमित्याशयः ।
शकुनेति । शकुनज्ञानं वसन्तराजीयप्रभृतिपक्षिव्यापारावलोकनेन शुभाशुभनिश्चायकं शास्त्रं विदन्ति जानन्ति ये तेषां तादृशानाम्, आदरम् अधिकसत्कारम् अदर्शयत् दर्शितवती । पक्षिव्यापारावलोकनेन तेभ्योऽपि शुभाशुभावगमार्थमित्याशयः ।
अनेकेति । अनेकवृद्धानां नानाविधस्थविराणां परम्परा परिपाटी तस्यां समागतानि सम्प्राप्तानि रहस्यानि गुह्यमन्त्रसाधनादीनि चकार कृतवती ।
दर्शनेति । आत्मजदर्शनोत्सुका सुतावलोकनायोत्कण्ठिता, दर्शनाय स्वप्रत्यक्षावलोकनाय आगताः प्राप्ताः ये द्विजगणा विप्रवृन्द्वानि तान् तादृशान्, वेदानां श्रूयन्त इति श्रुतयः स्पष्टोच्चारणानि ता अकारयद् कारयामास ।
बिना टूटे दानोंसे बनाये गये दधि-मिश्रित भात की बलि रखकर कौओंको देती थी, उस समय उसके मणिमय कङ्कणवाले दोनों हाथ हिल रहे थे । प्रतिदिन अपरिमित पुष्प, धूप, अनुलेपन, अपूप (मालपुए), मांस, पायस (खीर) और जौके धान लेकर दुर्गादेवीकी पूजा करती थी । अपने से ही भोजन भरे पात्र भेंट करके सत्यवादी नङ्गे बौद्ध संन्यासियोंसे श्रद्धापूर्वक प्रश्न करती थी (कि मुझे पुत्र होगा या नहीं ?)। दैवज्ञस्त्रियोंके आदेशके वचनपर विशेष आस्था रखती थी । चक्षुःस्पन्दनादि शुभाशुभ लक्षण जाननेवालोंके पास जाती थी । शकुनशास्त्र जाननेवालोंके प्रति आदर दिखाती थी। अनेक वृद्धोंके परम्परागत प्रचलित मन्त्रशास्त्रके रहस्योंको अङ्गीकार करती थी । पुत्र-प्राप्तिके लिए उत्कण्ठित होकर, दर्शनके लिये आये हुए ब्राह्मणोंके द्वारा वेदपाठ कराती थी ।
^.... १. ^०००मन्वितयेन । ^२. कृतस्नाना । ^३. अखण्डितसिक्थकुसुम००० । ^४. रजतपात्रे । ^५. अनरिमितधूपविलेपां । ^६. पायसबलिम्, पायसवलिलाज००० । ^७. ^०००ज्येष्ठादेवी००० । ^८. उपाहित०००, वन्दूनं । ^९. आगमागतानि, गतानि । ^१०. अङ्गीचकार, अङ्गीकरोति स्म । ^११. दर्शनागतं द्विजगने । :
१३ का०
२०२ कादम्बरी- [ कथामुख-
रकारयत् । अनवरत-वाच्यमानाः पुण्यकथाः शुश्राव । गोरोचना-लिखित-भूर्जपत्रगर्भान् मन्त्रकरण्डकान् उवाह । रक्षाप्रतिसरोपेतानि ओषधिसूत्राणि बबन्ध । परिजनोऽपि चास्याः सततमुपश्रुत्यै निर्जगाम, तन्निमित्तानि च जग्राह, शिवान्यो मांसबलिपिण्डमनुदिनं निश्युत्ससर्ज, स्वप्नदर्शनाश्चार्य्यानाचार्य्याणामाचचक्षे, चत्वरेषु शिवावलिन् उपहार ।
एवं गच्छति काले कदाचिद्राजा क्षीणभूयिष्ठायां रजन्यामल्पावशेष-पाण्डुतारेके जरत्पारावत-पक्षधूसरे नभसि स्वप्ने सौधशिखरे स्थिताया विलासवत्याः करिण्या इव विसयलय मानने सकलकलापूर्ण मण्डलं शशिनं प्रविशन्तम् अद्राक्षीत् । प्रबुद्धश्चोत्थाय हर्ष-
अनवरतेति । अनवरतं निरन्तरं वाच्यमानाः कथ्यमानाः पुण्यकथाः पवित्रकथाः श्रीकृष्णचरिताद्यङ्गवार्त्तादिका इत्यर्थः, शुश्राव श्रुतवती ।
गोरोचनेति । गोरोचनया लिखितं लिपीकृतं भूर्जपत्रं गर्भे मध्ये येषां तान् तादृशान् मन्त्रकरण्डकान् मल्लिकादिनान्तर्र्गहितपिण्डिकान् उवाह दधे ।
रक्षेति । रक्षाप्रतिसरेण रक्षार्थकृङ्कणेन उपेतानि सहितानि, ओषधिसूत्राणि गर्भजननौपयिकोपधिसहितसूत्राणि बबन्ध बन्धनं कृतवती करे इति शेषः । 'मा वधूभवने हस्तसूत्रे प्रतिसरोऽस्त्रियाम्' इत्यमरः, 'भवेत्प्रतिसरो मन्त्रभेदे माल्ये च कङ्कणे' इति मेदिनी ।
परीति । अस्या विलासवत्याः परिजनोऽपि परिवारजनोऽपि सततं निरन्तरम् उपश्रुत्यै दैवप्रश्नाय दैवं मनुष्यादिद्वारा कीदृशं वचनं श्रावयतीति जिज्ञासायै निर्जगाम निर्ययौ । तन्निमित्तानि ज्योतिर्विद्भिः शुभाशुभलक्षणवाक्यानि जग्राह प्रयत्नेनाग्रहीत् विलासवल्यै कथयितुमित्याशयः । अनुदिनं प्रत्यहं मांसवलिपिण्डं पल्लवल्पमुपहारं शिवान्यैः शृगालीभ्यः निशि रात्रौ उत्ससर्ज उत्सृष्टवती । स्वप्नदर्शनाश्चार्याणि स्वप्नालोकनकुतूहलानि आचार्याणां दैवज्ञगुरूणां (निकटे) आचचक्षे उक्तवती । चत्वरेषु भवनप्राङ्गणेषु, शिवाभ्यो बलिम् उपहारम् उपजहार दत्तवती । अयमुपहारस्तु दिन इति प्राक्तनेन सह पौनरुक्त्यं नेति विभावनीयम् ।
एवमिति । एवं पूर्वोक्तप्रकारेण काले समये गच्छति व्रजति, सति, कदाचिद् कस्मिंश्चित् समये स्वप्ने राजा, क्षीणभूयिष्ठायां समाप्तप्रायायां रजन्यां रात्रौ नभसि गगने अल्पावशेषपाण्डुतारेके स्वल्पावशिष्टश्वेतनक्षत्रे, जरतः स्थविरस्य पारावतस्य कपोतस्य पक्षवद् वाजवद् धूसरे धूम्रवर्णे च सति । सौधशिखरस्थितायाः प्रासादोपर्युपविष्टाद्या विलासवत्याः आनने वदने, करिण्या गजपत्न्याः आनने विसवलयमिव, मृणालमण्डलमित्र, सकलाभिः समस्ताभिः कलाभिः षोडशरूपाभिः पूर्ण पूरितं मण्डलं विम्वं यस्य तं तादृशम्, शशिनं चन्द्रं प्रविशन्तम् अन्तःप्रवेशमानम् अद्राक्षीद् ददर्श ।
इहाद्ये 'जरत्पारावतपक्षधूसरे' इत्यत्र 'विसवलयमिव' इत्यत्र च श्रौतीपुपमा, उभयोर्मिंथोऽनपेक्षतया विद्यमानत्वात्संसृष्टिः ।
प्रबुद्ध इति । प्रबुद्धो विगतनिद्रः सन् उत्थाय शयनादुत्थानं विधाय हर्षेण प्रमोदेन यो विकासः
रात जिनका प्रचार था ऐसा श्रीकृष्णजन्मनादि पवित्र कथाओंको कथावाचकोंके समीप जाकर सुनती थी । गोरोचन-द्वारा लिखित भोजपत्र पर मन्त्रोंसे युक्त डब्बों (गण्डोंका) पहनती थी । हाथमें रक्षाकङ्कण और औषधयुक्त सूत्र बाँधती थी । उसके परिजन भी दैवज्ञके निकट शुभाशुभ वाक्य सुननेके लिए बाहर जाते थे, एवं यत्नपूर्वक उन लोगोंके वाक्य विलासवतीको कहनेके लिए सुनते थे । वे प्रतिदिन रात्रिमें गोदड़ोंको मांसके बलिपिण्ड देते थे, स्वप्नमें देखे हुए आश्चर्यको ब्रह्माचार्योस कहते थे और गृहप्राङ्गणमें (अथवा चौराहों पर ) दिनमें भी गोदड़ोंके लिए बलि देते थे ।
इस प्रकार कुछ दिन बीतने पर एक दिन, जब रात अधिकांश रूपसे बीत गई थी, आकाश भी वृद्ध कबूतरके पङ्खके समान धूसर वर्ण हो गया था, एवं नक्षत्रगण (तारे) भी, पाण्डुवर्ण होकर थोड़े-थोड़े और मन्द-मन्द दीखते थे तब राजाने स्वप्नमें देखा कि-हथिनीके मुखमें मृणालमण्डलके समान, महलोंके शिखरपर शयन करती हुई विलासवतीके मुखमण्डलमें समस्त कलाओंसे परिपूर्ण चन्द्रमण्डल प्रवेश कर रहा है । राजाने शीघ्र वहीं
१. अनवरतं । २. पुण्याः कथाः । ३. मन्त्रगण्डकान्, मन्त्रदण्डकान् । ४. रक्षाप्रतिसरोपेतानि । ५. औषधिसूत्राणि, ओषधीसूत्राणि । ६. समुत्ससर्ज । ७. शिवावलि । ८. दहद । ९. मूलरेव......। १०. जरत्पारावतपक्षधूसरे । ११. स्थितायास्तदभिशखर......। १२. विसवलयम्, विसकिसलयम् । १३. ......परिपूर्ण । १४. विशन्तम् ।