भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 242, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 242

स्वप्नविषयवर्णनम्-१२ ] चन्द्रकला-विद्योतिनीसहिता । २०३

विकास-स्फीततरेण चक्षुषा धवलीकृतवासभवनस्तस्मिन्नेव क्षणे सबहुमानं शुकनासमाहूय तं१ स्वप्नमकथयत् ।

समुपजातहर्षः स तं प्रत्युवाच—'देव ! सम्प्रन्नाः सुचिरादस्माकं प्रजानाञ्च मनोरथाः । कतिपयैरेवाहोभिरसंशयमनुभविष्यति स्वामी सुतमुखकमलावलोकनसुखम् । अद्य खलु मयापि निशि स्वप्ने धौतधवल-वाससा शान्तमूर्त्तिना दिव्याकृतिना द्विजेन विकचं५ चन्द्र-कलावदात-दलशतम्, आलोलकेसरसहस्रजटालम्, मकरन्द-विन्दु-सन्दोहवर्षि-७ पुण्डरीकमुत्सङ्गे देव्या मनोरमाया निहितं दृष्टम् । आवेदयन्ति हि प्रत्यासन्नमानन्दमप्रजातानि८ शुभानि निमित्तानि । किञ्च९ अन्यदानन्दकारणमतो भविष्यन्ति१० । अवितथफला हि१२

उन्मीलनं तेन स्फीततरम् अत्यन्तं प्रसृतं तेन तादृशेन, चक्षुषा नयनेन धवलीकृतं शुभ्रीकृतं वासभवनं निवासगृहं येन स तादृशः, तस्मिन्नेव क्षणे समये सबहुमानं सादरं शुकनासं प्रधानसचिवम् आहूय आह्वानं कृत्वा आकारयित्वेत्यर्थः । तं स्वप्नं निशादृष्टम् अकथयत् कथितवान् ।

समुपेति । समुपजातः समुत्पन्नो हर्षः आनन्दो यस्य स तादृशः, स शुकनासः तं भूपतिं प्रत्युवाच प्रत्यब्रवीत्—देव राजन् ! सुचिरात् अतिचिरसमयेन अस्माकं सचिवादिवर्गाणां प्रजानां जनानां च मनोरथाः अभिलषितानि सम्पन्नाः सफला जाताः । कतिपयैरेव अल्पैरेव अहोभिः वासरैः असन्देहं निःसंशयं स्वामी प्रभुर्भवान् सुतमुखकमलस्य तनयवदनपद्मस्य अवलोकनेन वीक्षणेन सुखम् आनन्दम् अनुभविष्यति अनुभवविषयीकरिष्यति । खलु निश्चयेन, अद्य निशि अस्यां रात्रावेव, धौतं क्षालितम् अतएव धवलं शुभ्रं वासो वस्त्रं यस्य तेन तादृशेन, दिव्या रमणीया आकृतिः स्वरूपं यस्य तेन तादृशेन, द्विजेन अनिर्दिष्टनाम्ना केनचिद् विप्रेण । विकचं विकसितं चन्द्रकलावत् शशिकलावत् अवदातं शुभ्रं दलानां पत्राणां शतं समूहो यस्य तत्तादृशम्, आलोलेन चपलेन केसरसहस्रेण किञ्जल्कवृन्देन जटालं जटिलं तथाविधकिञ्जल्करूपजटायुक्तमित्यर्थः । 'प्राणिस्थादातो लजन्यतरस्याम्' इत्यनेनेन मत्वर्थे लच् प्रत्ययः । मकरन्दविन्दूनां पुष्परसकणानां संदोहं समूहं वर्षतीति तत्तादृशम्, 'पुण्डरीकं सिताम्भोजम्', देव्या मनोरमायाः तन्नामिकायाः स्वपत्न्याः उत्सङ्गे क्रोडे निहितं स्थापितम् इति मया शुकनासेनापि स्वप्ने दृष्टम् अवलोकितम् इति सम्बन्धः । इह चन्द्रकलावदातेत्यत्र लुप्तोपमा ।

आवेदयन्तीति । अग्रे पूर्वं जातानि उत्पन्नानि शुभानि शिवानि निमित्तानि स्वरूपाणि प्रत्यासन्नं निकटभाविनम् आनन्दं प्रमोदम् आवेदयन्ति प्रकटयन्ति ।

किञ्चेति । अतः सुताननदर्शनानन्दाद् अन्यत् आनन्दकारणं प्रमोदहेतुः किं भविष्यति न किमपीत्यर्थः । ननु केवलस्वप्नावलोकनेनैव कथमेवंविधानन्दहेतुरित्यत आह—अवितथफलेति । हि यस्मात्, प्रायः आधिक्येन निशावसानसमयदृष्टाः रात्रिशेषसमयावलोकिताः स्वप्नाः अवितथं सत्यम् अवश्यम्भावि फलं येषां ते तादृशाः भवन्ति सम्पद्यन्ते ।


दिन-समय जाग शय्यासे उठकर, हर्षसे प्रफुल्लित नेत्रके आलोकसे शयनागारको धवलवर्ण कर, उस समयमें ही आदरके साथ मन्त्री शुकनासको बुलाकर उस स्वप्नका वृत्तान्त कहा ।

शुकनासने भी अत्यन्त प्रसन्न होकर उत्तर दिया—'महाराज ! बहुत कालके बाद हम लोगोंका और प्रजावर्गका मनोरथ पूर्ण हुआ है, क्योंकि थोड़े दिनके मध्यमें ही आप निःसन्देह पुत्रके मुख-कमल-दर्शनका सुख अनुभव करेंगे । मैने भी आज रातको स्वप्नमें देखा है कि-धुले हुए श्वेतवर्ण-वस्त्र पहननेवाला, शान्तिमूर्त्ति-सुन्दराकृति एक ब्राह्मणने, प्रकाशित चन्द्रकलाके समान श्वेतवर्ण, सौ पंखुड़ियोंसे युक्त, जटाके समान चञ्चल केसरसमूह-समन्वित एवं प्रचुर मधुविन्दुवर्षी खिला हुआ एक सफेद कमल, मनोरमा देवीकी गोदमें रक्खा है । पहले ही दिखाई देनेवाले शुभ लक्षण निकट आनेवाली किसी विशेष आनन्दकी सूचना करते हैं । इसकी अपेक्षा


१. शुकनासं समाहूय स्वप्नम् । समाहूय शुकनासाय तम् । २. असन्देहं । ३. धौतसकल..., धौतसकलधवल... । ४. प्रशान्तमूर्त्तिना । ५. विकचं चन्द्र... । ६. जटालमकरन्द..., जटिलमकरन्द... । ७. विन्दुसीकरवर्षि । ८. अग्रेजातानि, आनन्दपातानि, अग्रेपातानि, अग्रपातीनि । ९. शुभंनिमित्तानि । १०. किं वान्यद् प्रियतरं परमानन्द, अधिकानन्द... । ११. विद्यते । १२. च ।

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका) · पृष्ठ 242, कुल 709 में से · BharatKosha