कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 358, कुल 709 में से
संदर्भ में पढ़ेंशुकनासोपदेश०-३५ ] चन्द्रकला-विद्योतिनीसहिता । ३१९
वधीर्यन्तः खेदयन्ति हितोपदेशदायिनो गुरून् । अहङ्कार-दाहज्वर-मूर्च्छान्धकारिता विह्वला हि राजप्रकृतिः, अलीकाभिमानोन्मादकारीणि धनानि, राज्य-विष-विकार-तन्द्रीप्रदो- राजलक्ष्मीः । आलोकयतु तावत् कल्याणमभिनिवेशी लक्ष्मीमेव प्रथमम् । इयं हि सुभट-खड्गमण्डलोत्पल-वन-विभ्रम-भ्रमरी लक्ष्मीः क्षीरसागरात् पारिजातपल्लवेभ्यो रागम्, इन्दुकलादेकान्तवक्रताम्, उच्चैःश्रवसश्चञ्चलताम्, कालकूटान्मोहनशक्तिम्, मदिराया मदम्, कौस्तुभमणेरतिनैष्ठुर्यम्; इत्येतानि सहवास-परिचयवशाद्विरहविनोदचिह्नानि गृहीत्वेवोद्गता ।
अहो राजानो ह्येवं कथं कुर्वन्तीत्यत आह—अहङ्कारेति । हि यतः राजप्रकृतिः नृपतीनां स्वभावः, अहङ्कारोऽभिमान एव दाहज्वरः तीव्रतापः तेन या मूर्च्छा मोहः तया अन्धकारिता समुत्पन्नध्वान्तता सदसद्विचाररहितेत्यर्थः, अत एव विह्वला व्याकुला चञ्चला। विशेषतश्च, धनानि सम्पत्तयः अलीकाभिमानेन धनानां विनाशशालित्वान्मिय्यागर्वेण उन्मादं मत्ततां कर्तुं शीलं येषां तानि तथोक्तानि, अन्यतश्च राज्यलक्ष्मीः आधिपत्यश्रीः, राज्यम् आधिपत्यमेव विषं विस्रंसनकारणत्वात्, तेन यो विकारः तेन तन्द्रीं तन्द्रां आलस्यं प्रददातीति सा तादृशी। एभ्य एव हेतुभ्यो राजान उक्तदोषं विदधत इत्याशयः। निरङ्गकेवलरूपकम् ।
राज्यविषेत्यादिकथितविषयं समर्थयितुमाधिक्येन लक्ष्मीस्वभावमेव दर्शयति—आलोकयत्वित्यादिना। कल्याणं मङ्गले अभिनिवेशी साग्रहान्वितो भवान्, प्रथमम् आदौ लक्ष्मीं श्रियमेव तावत् आलोकयतु वस्तुतो विचारयतु । हि तथाहि सुभटा निपुणयोद्धारः तेषां खड्गमण्डलम् असिसमूह एव उत्पलवनं कमलकाननं तत्र विभ्रमे विहरणे भ्रमरी मधुकरीस्वभावा, इयं पुरोदृश्यमाना लक्ष्मीः। पारिजातपल्लवेभ्यः क्षीरसमुद्रादेवोत्पद्यमानमन्दारतरुकिसलयेभ्यः रागं रक्तिमानमिव रागम आत्मनि लोकानुरागं गृहीत्वेव आदायेव क्षीरसागरात् दुग्धाम्बुधेः उद्गता तन्मध्यतस्तनय उत्थिता। एवमन्यत्रापि सम्बन्धः। इन्दुकलात् शशिशकलात् एकान्तवक्रतां नितान्तकुटिलतामेव एकान्तवक्रतां नितान्तदुर्व्यवहारम्। उच्चैःश्रवसः इन्द्राश्वात् चञ्चलतां स्पन्दितशरीरत्वमेव चञ्चलता लघुकृत्यस्थायित्वम् । कालकूटात् कालकूटसंज्ञकविषात् मोहनशक्तिं मूर्च्छात्पादनसामर्थ्यमेव मोहनशक्तिम् अन्यवशीकरणसामर्थ्यम् । मदिराया मद्यतः मदं मत्ततोत्पादनसामर्थ्यमेव मदम् औद्धत्यम् । तथा कौस्तुभमणेः मणवतौ विष्णोः कण्ठरत्नस्य सकाशात् अतिनैष्ठुर्यम् अत्यन्तकठोरत्वमेव अतिनैष्ठुर्यं नितान्तनिर्द्दयत्वम्। इत्येतानि रागप्रभृतीनि सहवासपरिचयवशात् एकत्रावस्थानप्रत्ययवशात्, विरहस्य मन्दारादिभिर्विश्लेषस्य विनोदर्चह्नानि अपनोदनचिह्नरूपतानि गृहीत्वेव आदायेव क्षीरसागराद् दुग्धाम्बुधेः उद्गता उत्थिता, तत्तद्गुणवत्त्वादित्यस्याशयः। अपरोऽपि सहचरैर्विश्लेषसन्भावनायां तदीयचिह्नाभूतं छत्रपादुकादिकमादाय परदेशं यातीत्यवगन्तव्यम्। इह 'सुभटखड्गमण्डलोत्पलवने' त्यादौ परम्परितरूपकमलङ्कारः। रक्तिमानुरागप्रभृतीनां
समान आँखें बन्द कर उस उपदेशकी अवहेलना (बेपरवाही) करते हुए उन हितोपदेशदाता गुरुओंको दुःखित करते रहते हैं, क्योंकि—राजाओंका स्वभाव, अहङ्काररूप दाहज्वर-जनित मूर्च्छासे विवेकहीन होकर एक बार ही विकट हो जाता है। विशेषतः धनसम्पत्ति, मिथ्या अभिमानसे उन्मत्त कर देती है और राज्यलक्ष्मी, राज्यरूप विषके विकारसे तन्द्रा (सुस्ती) उत्पन्न कर देती है।
तुम मङ्गल-प्राप्तिके लिए यत्नवान् हो, इसलिए पहले लक्ष्मीको ही विचार कर देखो—यह लक्ष्मी, चतुर योद्धाओंके खड्गसमूहरूपी कमल-वनमें विहार करनेवाली भ्रमरी-सदृश है। एवं यह, क्षीरसागरमेंसे निकलने के समयमें पारिजातादिकोंके साथ एक जगह रहनेसे पहलेसे ही प्रेम उत्पन्न हो गया था, उसे उन लोगोंके विरह दुःख दूर करनेके चिह्नस्वरूप, पारिजातपल्लवके समीपसे राग (रक्तिमा, अनुराग), चन्द्रकलासे अत्यन्त वक्रता (कुटिलता, प्रतिकूलता) उच्चैःश्रवके समीपसे चञ्चलता (चञ्चलता अस्थिरता) कालकूट विषके समीपसे मोहनशक्ति (मूर्च्छित करनेकी शक्ति, वशीकरण करनेकी शक्ति), मद्यके समीपसे मदमत्तता (उन्मादकारिता) एवं कौस्तुभमणिके समीपसे अत्यन्त निष्ठुरता ये सब, साथ लेकर ही मानों बाहर आई है। अधिक समय परिचयवश
१. अवधारयन्तः। २. ०००तन्द्राप्रदा विमर्दत्रीः। ३. राज्यलक्ष्मीः। ४. क्वचित् सुभटखड्ग नीलोत्पले। ५. दिकला। ६. नैष्ठुर्यम् । ७. गृहीत्वेवोद्गता।