कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 367, कुल 709 में से
संदर्भ में पढ़ें| ३२८ | कादम्बरी- | [ कथायाम्- |
|---|
मुहूर्त्त-मनोहराभिर्मनस्विजनगर्हिताभिः सम्पद्भिः प्रलोभ्यमानाः, धन-लवलाभावलेपविस्मृत-जन्मानोऽनेकदोपोपचितेन दुष्टासृजेव^१ रागावेशेन बाध्यमानाः, विविधविषय-ग्रास^२-लालसैः पञ्चभिरप्यनेक-सहस्रसंख्यैरिवेन्द्रियैरायास्यमानाः, प्रकृतिचञ्चलतया लब्धप्रसरेणै^३केनापि सहस्रतामिवोपगतेन मनसा आकुलीक्रियमाणा विह्वलतामुपयान्ति । ग्रहैरिव गृह्यन्ते, भूतैरिवाभिभूयन्ते, मन्त्रैरिवावेश्यन्ते, सत्त्वैरिवावष्टभ्यन्ते, वायुनेव विडम्ब्यन्ते, पिशाचैरिव ग्रस्यन्ते, मदनशरैर्मर्माहता इव^४ मुखभङ्गसहस्राणि कुर्वते, धनोष्मणा पच्यमाना इव विचे-
खद्योतो ज्योतिरिङ्गणः तस्य उन्मेषवत् प्रकाशवत् मुहूर्त्तं क्षणं मनोहराभिः, विनश्वरत्वात् किञ्चित् समय-मात्रचित्तहारिणीभिः, अत एव मनस्विनोजनाः ज्ञानिलोकाः तैः गर्हिताभिः निन्दिताभिः सम्पद्भिः धनादि-समृद्धिभिः, प्रलोभ्यमानाः लोभं प्राप्यमाणाः ।
इह द्वे लुप्तोपमे पदार्थहेतुककाव्यलिङ्गञ्चेत्येतेषां मिथोवैरपेक्ष्येण तिलतण्डुलवत्संसृष्टिः ।
धनलवेति । धनलवस्य अत्यल्पद्रव्यस्यापि लाभावलेपेन प्राप्तिगर्वेण विस्मृतानि विस्मरणं प्राप्तानि जन्मानि जनूंषि यैस्ते तादृशाः, अत्यल्पस्यापि द्रव्यस्य प्राप्तिगवेण 'के वयम्, केषामात्मजाः, कीदृगावस्था अभूम' इति स्मरणरहिता इत्यर्थः । एतद्धि दत्तकसुतपरम् । अनेकैर्नानाविधैः दोषैः वातपित्तकफविकारैः उपचितेन वृद्धिं गतेन दुष्टेन दूषितेन असृजा रक्तेन यथा पीड्यमाना भवन्ति तथा दोषैः कामक्रोधादिभिः प्रवृद्धेन रागावेशेन विषयाशक्तिरूपाभिनिवेशेन बाध्यमानाः अधरीक्रियमाणाः । पूर्णोपमा ।
विविधेति । विविधा अनेके ये विषयाः शब्दस्पर्शादयः तेषां ग्रासेषु ग्रहणेपु लालसैः लोलुपैः 'लोलुपो लोलुभो लोलो लम्पटो लालसोऽपि सः' इति रभसः। पञ्चभिः यथार्थतः पञ्चसङ्ख्यकैरपि विषयाधिक्यात् अनेकसहस्रसंख्यैरिव विद्यमानैः, इन्द्रियैः श्रोत्रत्वगादिज्ञानकरणैः वाक्पाण्यादिकर्मकरणैश्च आयास्यमानाः निजनिजशब्दस्पर्शादिविषयेषु निरन्तरगाढप्रवर्त्तनया परिखिद्यमानाः । गुणोत्प्रेक्षा ।
प्रकृतीति । तथा प्रकृत्या स्वभावेनैव चञ्चलतया चपलतया कारणेन, लब्धप्रसरेण प्राप्तावकाशेन विविधविषयव्याप्तेन, अतएव एकेनापि विद्यमानेन सहस्रतां सहस्रसंख्यत्वम् उपगतेन विषयाधिक्यात् प्राप्तेनेव मनसा चित्तेन आकुलीक्रियमाणाः व्यग्रीक्रियमाणाः सन्तः विह्वलतां चञ्चलताम् उपयान्ति उपगच्छन्ति । क्रियोत्प्रेक्षा ।
तस्मिन् समये च तेषां स्थितिं प्रदर्शयति-ग्रहैरित्यादिना । ग्रहैः शनैश्चरादिभिः गृह्यन्ते ध्रियन्त इव, प्रतिक्षणमनेकविधभावभङ्गीविधानादित्याशयः । एवमग्रेऽपि भावोऽवगन्तव्यः । भूतैः देवयोनिविशेषैः 'भूतोऽमी देवयोनय' इत्यमरः, अभिभूयन्ते आक्रम्यन्त इव । मन्त्रैः आथर्वणिकैः तान्त्रिकैर्वा आवेश्यन्ते कैश्चित्पुरुषैः स्वायत्ततां प्रवेश्यन्त इव वशीक्रियन्त इवेत्यर्थः । सत्त्वैः शार्दूलादिहिंसकप्राणिभिः अवष्टभ्यन्ते हठादवलम्ब्यन्त इव, कस्मिंश्चित्समये यातनाऽवगमादित्याशयः । वायुना वातव्याधिना विडम्ब्यन्ते विचार्यन्त इव । तथा पिशाचैः राक्षसैः ग्रस्यन्ते भक्ष्यन्त इव । अत्र सर्वत्र क्रियोत्प्रेक्षालङ्कारः ।
स्थित्यन्तराणि दर्शयति-मदनेत्यादिना । मदनशरैः कामवाणैः मर्माहता मर्मस्थलं ताडिताः मुखभङ्गसहस्राणि विविधप्रकारा मुखभङ्गीरित्यर्थः । कुर्वते विदधते । धनोष्मणा धनाभिमानोत्पन्नसन्तापेन
समान क्षणभरके लिए देखनेमें सुन्दर, अतएव ज्ञानियों द्वारा निन्दा की गई सम्पत्तिसे कोई-कोई राजा लुब्ध हो जाते हैं। वे सामान्य धन-लाभ के अहङ्कार से अपने-अपने जन्म-समय के वृत्तान्त को भूल जाते हैं; वात-पित्त-कफसे दूषित रक्तके समान कामक्रोधादि दोषोंसे वृद्धि-प्राप्त विषयासक्तिमें यातना भोग करने रहते हैं । शब्द-स्पर्शादि अनेक प्रकार के विषयों के रसका आस्वादन करने के अभिलाषी एवं पञ्चसङ्ख्यक होने पर भी विषय बाहुल्यसे मानो अनेक सहस्रसंख्या प्राप्त किए हुए इन्द्रियोंसे दुःख भोग करते रहते हैं और मन स्वभावतः चञ्चल होनेके कारण अवकाश मिलनेसे अनेक विषय में दौड़ता रहता है । अत एव एक होने पर भी मानो सहस्र संख्या प्राप्त हुए उक्त मनसे राजा लोग आकुल कर एक ही बारमें विह्वल हो जाते हैं। उस समय पूतनाप्रभृति कोई-कोई ग्रह आकर मानो उन लोगोंको घेर लेते हैं । भूत मानो उन पर प्रभाव डालते हैं। किसी-किसी मन्त्र-शक्तिसे ही मानो उन लोगों को वश कर लेते हैं । विकराल प्राणी (हिंसक जन्तु) मानो हठसे उनको पकड़ लेते हैं । वायुरोग से ही मानो वे विचलित किए जाते हैं। पिशाच मानो उनका ग्रास करते हैं और कामके बाणोंसे मर्माहत होकर ही मानो वे हजारों मुख-विकार करते रहते हैं। धनके अहङ्काराग्निमें पच्यमान होकर ही मानो
१. दोषासृजेव । २. विषयरसग्रास...। ३. ...प्रसारेण । ४. ...अभिहता इव ।