कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 370, कुल 709 में से
संदर्भ में पढ़ेंशुकनासोपदेश० ३५ ] चन्द्रकला-विद्योतिनीसहिता । ३३१
भवनाः, श्रूयमाणा अपि प्रेतपटहा इवोद्वेजयन्ति, चिन्त्यमाना अपि महापातकाध्यवसाया इवोपद्रवमुपजनयन्ति, अनुदिवसमापूर्यमाणाः पापेनेवाध्मातमूर्त्तयो भवन्ति, तदवस्थाश्च व्यसनशतशरव्यतामुपगताः वल्मीकतृणाग्रावस्थिता जलविन्दव इव पतितमप्यात्मानं नावगच्छन्ति ।
अपरे तु स्वार्थनिष्पादनपरैर्धन-पिशित-ग्रास-गृध्रैरास्थाननलिनीवकैः, द्यूतं विनोद-
तादृशाः, अन्यत्र तु क्षुद्रैः विटैः अधिष्ठितं भवनं यासां ताः तादृश्यः । 'उपसृष्टं मैथुनं स्यात्' इति त्रिकाण्डशेषः ।
श्रयेति । श्रयमाणा आकर्ण्यमानसंज्ञा अपि, अवलोकनादौ का कथा, इति भावः । प्रेतपटहा इव मृतशरीरसामयिककैङ्काहाश्वा इव उद्वेजयन्ति उद्वेगं जनयन्ति । मृतशरीराणां पुरस्ताद् पटहा वाद्यन्त इति देशविशेषव्यवहारः ।
चिन्त्येति । संयोगादौ का कथा चिन्त्यमाना अपि चेतसि स्मर्यमाणा अपीत्यर्थः, महापातकादीनां ब्रह्महत्यादीनाम् अध्यवसाया उद्योगा इव, उपद्रवं चित्तस्याशान्तिम् उपजनयन्ति निष्पादयन्ति । न केवलं महापातकानि कृतान्येव चित्ताशान्ति जनयन्ति अपि तु तदुद्योगा अपीति 'चिन्त्यमाना अपि' इत्यस्य सादृश्यद्योतनार्थमध्यवसायपदमिति कुशला विभावयन्ति । मनुना च महापातकसङ्गणमेवमुक्तम्-
'ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥'
इह 'ससत्त्वद्वतरव इव' इत्यारभ्य 'चिन्त्यमाना अपि महापातकाध्यवसाया इव' इत्यन्तं यावत् सर्वत्र पूर्णोपमालङ्कारः । केवलं 'तृष्णाविषमूर्च्छिताः कनकमयमिव' इत्यत्र निरङ्गकेवलंरूपकम्, गुणो- त्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावेन सङ्करालङ्कारः ।
अन्विति । अनुदिवसं प्रतिदिनं पापेन अधर्मेण आपूर्यमाणा म्रियमाणा इव आध्मातमूर्त्तयः स्फीत- शरीरा भवन्ति भूपतयः । क्रियोत्प्रेक्षा ।
एवं च सति किं भवेदित्यत आह—तदीति । किञ्चेति चार्थः । ताः पूर्वोक्तरूपा अवस्था येषां ते तादृशाः, व्यसनशतस्य कामक्रोधोत्पन्नदोषजालस्य शरव्यं लक्ष्यं तस्य भावः तत्त्वम् आश्रयत्वञ्च उपगताः प्राप्ताः सन्तः, वल्मीकं कीटविशेषेण निस्सारितमृत्तिकाराशिः तत्र, तृणाग्रावस्थिता उत्पन्नतृणादिप्रान्त- विद्यमानाः जलविन्दव इव, पतितं स्वधर्मच्युतं पृथिव्यां परिनष्टं चापि आत्मानं स्वं नावगच्छन्ति पाति- त्येन युक्ततया नावबुध्यन्ते, एकत्र मोहादन्यत्र शुष्कत्वादित्याशयः । उपमा । व्यसनान्युक्तानि मनुना-
'मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ पैशुन्यं साहस द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजञ्च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥'
अपर इति । अपरे अन्ये तु राजानोऽप्रेतनरूपेण दोषानपि गुणपक्षमध्यारोपयद्भिर्धूर्तः स्तुतिभिः प्रतार्यमाणाः सर्वजनस्योपहास्यतामुपयान्तीति दूरेण सम्बन्धः । धूर्त्तविशेषणानि प्रथमं प्रदर्शयति- स्वार्थेति । स्वस्यात्मनो योऽर्थः प्रयोजनं तस्य निष्पादनं करणं तत्परैः, तदर्थमेव वञ्चनोद्योगिभिरित्याशयः । धनानि द्रव्याण्येव पिशितानि मांसानि तेषां ग्रासे ग्रहणे गृध्रैः दूरदृग्भिः पक्षिविशेषैः । आस्थानं नृपो- पवेशनस्थलमेव नलिनी मनोहरत्वात्स्नानावर्त्तत्वाच्च कमलिनी तस्या वकैः पक्षिविशेषैः । धूर्त्तवकपक्षिणो
अग्निका भस्म जिस प्रकार अत्यन्त भयङ्कर होता है, उन लोगोंकी सम्पत्ति भी उसी प्रकार अत्यन्त भयङ्कर होती है; नेत्ररोग उत्पन्न होनेपर लोग जिस प्रकार दूरकी चीजको नहीं देख पाते हैं, वे लोग भी उसी प्रकार परिणामको नहीं देख पाते हैं; वेश्याओंके गृह जिस प्रकार कामुक लोगोंसे युक्त होते हैं, उन लोगोंके गृह भी उसी प्रकार नीच जनोंसे युक्त होते हैं; मृतव्यक्तियोंके दाहकालीन डङ्काशब्दके समान उनके नाम सुन लिए जांय तो उद्वेग उत्पन्न करते हैं; ब्रह्महत्यादि महापातकोंका अनुष्ठान करनेके उद्योगके समान उनका ध्यान करनेसे भी मनमें अशान्ति उत्पन्न होती है; वे प्रतिदिन पापसे परिपूर्ण रहकर ही मानो प्लीहोदर हो (फूल) जाते हैं; और ऐसी दशामें वे, काम और क्रोध जनित अनेकविध दोषोंके आश्रय होकर वल्मीकके ऊपरके तृण के अग्रभाग पर पड़ी हुई जलकी बूंदोंके समान पतित (भूमिभ्रष्टा) होनेपर भी अपनेको पतित (स्वधर्मच्युत) नहीं समझ पाते हैं।
दूसरे ऐसे अनेक राजा हैं, जिनकी सभामें, स्वार्थसम्पादनपरत, धनरूपी मांसका ग्रास करनेमें गृध्रस्वरूप
१. "शरव्यता" । २. "...स्थिताः । ३. "...पूर्त्तवकैः ।