कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 372, कुल 709 में से
संदर्भ में पढ़ेंशुकालोपदेशवर्णनम् ३५ ] चन्द्रकला-विद्योतिनीसहिता । ३३३
दोषानपि गुणपक्षमध्यारोपयद्भिरन्तः स्वयमपि विहसद्भिः प्रतारणकुशलैर्धूर्तैरमानुषोचिताभिः स्तुतिभिः प्रतार्यमाणा वित्तमदमत्तचित्ता निश्चेतनतया तथैवेत्यन्यारोपितालीकाभिमानां मर्त्यधर्म्माणोऽपि दिव्यांशावतीर्णमिव सदैवतमिवातिमानुषम् आत्मानमुत्प्रेक्षमाणाः प्रारब्धदिव्योचितचेष्टानुभावाः सर्वजनस्योपहास्यतामुपयान्ति । आत्मविडम्बनाञ्चानुजीविना जनेन क्रियमाणमभिनन्दन्ति । मनसा देवताध्यारोपणप्रतारणो सम्भूत सम्भावनोपहताश्चान्तःप्रविष्टपरभुजद्वयमिवान्मनबाहुयुगलं सम्भावयन्ति । त्वगन्तरिततृतीयलोचनं स्वललाट-
दोषानिति । दोषान् अपराधानपि गुणपक्षं गुणपंक्तावन्तर्भावम् आरोपयद्भिः प्रशंसद्भिरित्यर्थः । अन्तः अन्तःकरणेषु स्वयमपि आत्मनापि विहसद्भिः हास्यं कुर्वद्भिः तान् राज्ञ इति शेषः, अप्रतिहतेन लघुकार्यमनाङ्गीकरणादत्यन्ताज्ञत्वबोधेनेत्याशयः । प्रतारणकुशलैः वञ्चनाचतुरैः धूर्त्तैः विप्रतारकैः पुरुषैः, अमानुषोचिताभिः देवतायोग्याभिः स्तुतिभिः प्रशंसाभिः प्रतार्यमाणा वञ्च्यमानाः । वित्तमदेन धनाभिमानेन मत्तानि चित्तानि हृदयानि येषां ते तादृशाः, निश्चेतनतया निर्ज्ञानतया कारणेन, तथैव 'एते यथा शंसंस्ते तादृशाः, मर्त्यस्य मरणशीलस्य मनुष्यस्यैव धर्मा व्याधिजरामरणप्रभृतयो येषां ते तथोक्ताः सन्तोऽपि, आत्मानं स्वीयम्, दिव्यस्य अलौकिकस्य देवस्य अंशेन भागेन अवतीर्णमिव उत्पन्नमिव, अत एव सदैवतमिब देवाश्रितमिव । अतिमानुषं मानवमतिक्रान्तम् , उत्प्रेक्षमाणाः सम्भावयन्तः, अत एव प्रारब्धा अवलोकयितुमुपक्रान्ताः दिव्योचिताः स्वर्गीयोपयोगाः चेष्टाः सङ्कल्पनमात्रेण सागरलङ्घनादिव्यापारा अनुभावाः शापमात्रेण रिपुमरणादिप्रभावाः यैः ते तादृशाः, अत एव सर्वजनस्य समस्तलोकस्य उपहास्यताम् उपहासयोग्यताम् उपयान्ति प्राप्नुवन्ति ।
इह 'अवतीर्णमिव' इत्यत्र क्रियोत्प्रेक्षा, 'सदैवतम्' इत्यत्र गुणोत्प्रेक्षालङ्कारः ।
आत्मनेति । किञ्चेति चार्थः । अनुजीविना जनेन सेवकपुरुषेण क्रियमाणां विधीयमानाम् आत्मविडम्बनां स्वस्मिन्नविद्यमानगुणरोपणरूपां वञ्चनाम् अभिनन्दन्ति साधुवादेन सादरं प्रशंसन्ति ।
मनसेति । देवताध्यारोपणं धूर्त्तः स्वस्मिन् हरिहराद्यारोपगमेव प्रतारणा वञ्चना तया सम्भूता सञ्जाता या सम्भावना स्वस्मिन् हरिहरत्वादिरूमनं तया उपहता विनाशितमतयः सन्तः, मनसा चेतसा आत्मबाहुयुगलं स्वकीयभुजयुगम्, अन्तःप्रविष्टम् अभ्यन्तरगतत्वेनालक्ष्यम् अपरम् अन्यं भुजद्वयं बाहुयुगलं यस्य तस्य तत् तथोक्तमिव सम्भावयन्ति मन्यन्ते ।
इह बाहुयुगलस्यान्तः प्रवेशोत्प्रेक्षणात् क्रियोत्प्रेक्षा, तेन च स्वस्य विष्णुत्वं व्यज्यत इत्यलङ्कारेण वस्तुध्वनिः । किञ्चात्र 'भुजद्वयम्' इति 'बाहुयुगलम्' इति समानार्थकपर्यायशव्दप्रयोगाद् भग्नप्रक्रमत्वं दोषः समापतति, स च 'आत्मबाहुयुगलमन्तःप्रविष्टद्वयम्' इति पाठं विधाय समुद्धरणीयः ।
त्वगिति । स्वललाटं निजभालं त्वचा चर्मणा अन्तरितम् आच्छादितं तृतीयं त्रिपमं लोचनं नयनं
न जानना) नासमझता है' इस प्रकार प्रतारणनिपुण धूर्त्तलोग दोषोंको भी गुणोंकी श्रेणीमें आरोप करते हैं, किन्तु मनमें अपनेसे भी उपहास करते हैं और देवताके उपयुक्त स्तुति (मनुष्योंके अयोग्य खुशामद) करके राजाओंको प्रतारणा करने (ठगने) रहते हैं। एक ही धनके अहङ्कार से उन्मत्त होकर उन लोगोंकी इस प्रकारकी स्तुतिसे चेतनाविहीन हो जाते हैं, अतः एव 'ये लोग जैसे बोलते हैं, ठीक मैं उसी प्रकारका हूं' इसतरह वे. इन सबोंको यथार्थ समझकर मिथ्या अभिमानका आरोप करते हैं, मनुष्य होनेपर भी अपनेको मानो देवताके अंशसे अवतीर्ण अथवा जिन्में देवता द्वारा अधिष्ठित, अतः एव देवता मानकर दिव्य पुरुषोंके उपयुक्त काम करके अपना माहात्म्य दिखते हैं, जिससे सब लोगोंके उपहासास्पद बन जाते हैं और अनुचरगण उनकी विडम्बना करें तो उसका भी वे अभिनन्दन करते हैं। अपने मनमें देवत्वसंस्थापनरूप मिथ्या विचारसे ठगाये जानेके कारण जो धारणा उत्पन्न होती है, उसीसे ही बुद्धि विनष्ट हो जाती है अनन्तर 'मेरे दो भुजाओंके अन्दरमें दो भुजाएं और छिपकर घुसे हुए हैं' ऐसा समझकर वे, मानो अपनेको विष्णुके समान मानते रहते हैं। एवं 'अपने ललाटमें और एक तीसरा नेत्र त्वचासे ढका हुआ है' ऐसी शङ्का करके शिवके समान समझते रहते हैं। वे अपना दर्शन
१. अमानुषलोकोचिताभिः । २. मदातिशयेन । ३. तथेति, यथेति, अन्यारोपित ० । ४. अतिमानुष्यम् । ५. विप्रतारणा । ६. असद्भूत०...सद्भूत ।