कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 373, कुल 709 में से
संदर्भ में पढ़ें| ३३४ | कादम्बरी- | [ कथायाम्- |
|---|
माशङ्कन्ते । दर्शनप्रदानमपि अनुग्रहं गणयन्ति, दृष्टिपातमप्युपकारपक्षे स्थापयन्ति, सम्भाषणमपि संविभागमध्ये कुर्वन्ति, आज्ञामपि वरप्रदानं मन्यन्ते, स्पर्शमपि पावनमाकलयन्ति । मिथ्यामाहात्म्यगवनिर्भराश्च न प्रणमन्ति देवताभ्यः, न पूजयन्ति द्विजातीन्, न मानयन्ति मान्यान्, नार्चयन्त्यर्चनीयान् , नाभिवादयन्त्यभिवादनाहार्न् , नाभ्युत्तिष्ठन्ति गुरून् । अनर्थकायासान्तरितविषयोपभोगं-सुखमित्युपहसन्ति विद्वज्जनम्, जरावैक्लव्यप्रलपितमिति पश्यन्ति वृद्धजनोपदेशम्, आत्मप्रज्ञापरिभव इत्यसूयन्ति सचिवोपदेशाय, कुप्यन्ति हितवादिने । सर्वथा तमभिनन्दन्ति, तमालपन्ति, तं पार्श्वे कुर्वन्ति, तं संवर्द्धयन्ति, तेन सह
यत्र तयोक्तम, शङ्कन्ते मन्यन्ते । अनेन स्वस्य महेशत्वं प्रख्याप्यते । इत्यञ्च वस्तुता वस्तुध्वनिः।
दर्शनेति । दर्शनप्रदानं लोकानां स्वात्मप्रकटनम् अनुग्रहं प्रसादं गणयन्ति मन्यन्ते । दृष्टिपातमपि चक्षुषाऽवलोकनपि उपकारपक्षे उपकृतिपक्षे स्थापयन्ति निक्षिपन्ति । सम्भाषणम् आलापमपि संविभागमध्ये विभजनपूर्वकदानव्यद्रव्यदानमध्ये, कुर्वन्ति अर्पयन्ति दातव्यद्रव्यदानजनितसन्तोषः सम्भाषणेनैवोत्पन्न इति मन्यन्त इत्येवार्थः । आज्ञां निदेशमपि वरप्रदानं समीहितप्रदानं मन्यन्ते जानन्ति । स्पर्शं संश्लेषमपि पावनं पवित्रतोत्पादकम् आकलयन्ति भावयन्ति । इह प्रतिवाक्ये प्रायः प्रतीयमानोत्प्रेक्षा ।
मिथ्येति । मिथ्यामाहात्म्येन असत्यात्ममहिम्ना यो गर्वोऽभिमानः तेन निर्भराः परिपूर्णाः देवताभ्यो हरिहरादिदेवेभ्यो न प्रणमन्ति नमस्कारं न कुर्वन्ति । द्विजातीन् ब्राह्मणान् न पूजयन्ति प्रमादपूर्वकवस्त्रादिप्रदानेन न तर्पयन्ति । मान्यान् माननीयन् श्वशुरादीन् मानयन्ति न सम्मानंददते । अर्चनीयान् पूजनीयानुपाध्यायादीन् नार्चयन्ति न पूजयन्ति, अभिवादनाहार्न् उपसंग्रहयोग्यान् पुरोहितादीन् नाभिवादयन्ति चरणपतनादिकं न कुर्वन्तीत्यर्थः । गुरून् हिताहितप्रतिपरिहारोपदेष्टॄन् न अभ्युत्तिष्ठन्ति नाभ्युत्थाय सत्कुर्व्वन्ति ।
अनर्थकेति । अनर्थकेन निष्प्रयोजनेन आयासेन विद्यार्जनपरिश्रमेण होमानुष्ठानपरिश्रमेण वा अन्तरितं व्यवहितं दूरीकृतं विषयोपभोगसुखं कामिन्यादिसुरतिसुखं येन तं तादृशम्, इति तस्मादेव कारणात्, विद्वज्जनं विदुषजनम् उपहसन्ति उपहासं कुर्वन्ति, जडत्वबोधनेत्याशयः । जरया परिणतवयसा यत वैक्लव्यं बुद्धेश्चाञ्चल्यम्, तेन प्रलपितं जल्पितम् इति कृत्वा वृद्धजनोपदेशस्थविरजनशिक्षां पश्यन्ति निस्तत्त्वं मन्यन्ते । आत्मप्रज्ञायाः निजमतेः परिभवोऽवमानोऽयमिति कृत्वा सचिवोपदेशाय प्रधानशिक्षायै असूयन्ति दोषाविर्भावपूर्वकं कुप्यन्ति । 'क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः' इति सूत्रेण चतुर्थी; तथा हितवादिने कल्याणवादिने कुप्यन्ति क्रुद्ध्यन्ति ।
सर्वथेति । तं पुरुषं सर्वथा सर्वप्रकारेण अभिनन्दन्ति । प्रशंसन्ति । तन् आलपन्ति सम्भाषन्ते । तं पार्श्वे समीपे कुर्वन्ति गृण्हन्तीत्यर्थः । तं संवर्द्धयन्ति विविधसाहाय्येन उच्चनयन्ति । तेन पुरुषेण सह सुखं यथा स्यात्तथा अवतिष्ठन्ते अवस्थानं कुर्वन्ति । तस्मै पुरुषाय ददति प्रयच्छन्ति । तं मित्रताम् उपनयन्ति तं सुहृदं कुर्वन्तीत्यर्थः । 'नी' धातुर्हि 'दुह्याच्पच्' इत्यादिना द्विकर्मकः । तस्य वचनं वाक्यं शृण्वन्ति आकर्णयन्ति । तत्र वर्षन्ति तस्मै सततं धनानि वितरन्ति । तं बहु अधिकं मन्यन्ते आद्रियन्ते । तम् आप्ततां विश्वस्तनाम आपादयन्ति प्रापयन्ति ।
देना भी मानो बड़ा अनुग्रह करनेकी गणना करते हैं, दृष्टिपात करना भी मानो उपकारपक्षमें रखते हैं, आलप (बातचीत) करना भी विभागपूर्वक देयद्रव्यदानमध्ये मानते हैं (अर्थात् देनेके स्थानमें बातचीतसे ही पूर्ण कर देते हैं), आज्ञाको भी मानो वरप्रदानरूपमें समझते हैं, स्पर्श करना भी मानो पवित्रताका कारण समझते हैं । और मिथ्या माहात्म्य के अहङ्कारसे भरे हुए वे देवताओंको प्रणाम नहीं करते, ब्राह्मणोंका पूजन नहीं करते, मान्य व्यक्तियोंका सम्मान नहीं करते, पूजनीय लोगोंकी पूजा नहीं करते, नमस्कार करनेके योग्य व्यक्तियोंको नमस्कार नहीं करते एवं गुरुओंको देखकर भी उठ खड़े नहीं होते हैं । और 'ये विद्योपार्जनके निरर्थक परिश्रम कर विषयसम्भोगजनित सुखको दूर किये हैं' इस प्रकार समझ कर विद्वानोंका उपहास करते रहते हैं 'ये वार्धक्यवश बुद्धिकी अस्थिरता द्वारा चित्तने प्रलाप करते हैं' ऐसी भावना कर वृद्धोंके उपदेशको असार समझते हैं, 'इससे मेरी बुद्धि तिरस्कृत हो रही है' ऐसा मनमें समझ कर मन्त्रियोंके उपदेशसे द्वेष प्रकट करते हैं
१. प्रदानेऽपि ।
२. संस्पर्शमपि ।
३. द्विजान् ।
४. "-अन्तरितोपभोग-" ।
५. विद्वज्जनशीलम् ।
६. न पश्यन्ति वृद्धोपदेशम् ।