भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 379, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 379
३४०कादम्बरी-[ कथायाम्-

न्तरनिचितशरीरतया धवलवेशपरिग्रहतया च नरसिंह इव विधृतै-केसरनिकरः, कैलास इव स्रवत्स्रोतस्विनी-स्रोतोराशिः, ऐरावत इव मन्दाकिनी-मृणाल-जालजटिलः, क्षीरोद इव स्फुरित-फेनलताकुलः,^२ तत्काल-प्रतिपन्न-वेत्रदण्डेन पित्रा स्वयं पुरःप्रारब्धसमुत्सारणः सभामण्डपमुपगम्यै^३ काञ्चनमयं शशीव मेरुशृङ्गं चन्द्रापीडः सिंहासनमारुरोह।

आरूढस्य चास्य कृतयथोचितसकलराजलोकसन्मानस्यै^४ मुहूर्तं स्थित्वा दिग्विजय-प्रयाणशंसी प्रलय-घन-घटा-घोष-घर्घरध्वनिः, उदधिरिव मन्दरघातैः,^५ वसुन्धरापीठमिवै^६ युगा-न्तनिर्घातैः, उत्पातजलधर इव तडिद्दण्डपातैः,^७ पातालकुक्षिरिव महावराह-घोणाभिघातैः, कनक-

यष्टियष्ट्यङ्किश्चिनुरसि' इत्यमरः, तद्रूपाभिः स्रग्भिः मालाभिः, निरन्तरम् अंशतो निरवकाशं निचितो व्याप्तो देहः शरीरं यस्य तस्य भावस्तया तथा धवलवेशं शुभ्रनेपथ्यं परिगृह्णाति स्वीकरोतीति तस्य भावः तथा च कारणेन, विधृतो गृहीतः केसरनिकरः स्वच्छसटासमूहो येन तथोक्तो नरसिंहो नारायणस्य नृसिंहावतार इव। स्रवन् निस्स्रवन् स्रोतस्विनीनां नदीनां राशिः समूहो यस्मात्तथोक्तः कैलासो हिमा-लय इव। मन्दाकिन्या आकाशगङ्गाया मृणालजालेन विसतन्तुहेन जटिलो व्याप्तः ऐरावत इन्द्रगज इव। तथा स्फुरिताभिः प्रकंटिताभिः फेनानां डिण्डीराणां लताभिः परम्पराभिः आकुलो व्याप्तः क्षीरोदः समुद्र इव। इह नरसिंहकैलाशैरावतसागरैः सह चन्द्रापीडस्य, केसरनिकरस्रोतोराशिविससमूहफेनपरम्परा-भिश्च सह तदीयस्रजामौपम्यम् । अत एवेह मालोपमा । तदुक्तं दण्डि—

'मालोपमा यदेकस्योपमानं बहु दृश्यते ।'

तत्कालेति । तत्काले तस्मिन् समये प्रतिपन्नो गृहीतो वेत्रदण्डो वेतसयष्टियेन तेन तादृशेन, पित्रा तारापीडेन, स्वयम् आत्मनैव पुरोऽग्रतः प्रारब्धाः प्रमोदेन लब्धसत्कारप्रदर्शनेनोद्देशेन च उपक्रान्ताः समुत्सारणा जनानां निवारणानि यस्य स तादृशः चन्द्रापीडः, सभामण्डपं आस्थानमण्डपम् । उपगम्य तत्समीपं प्राप्य काञ्चनमयं स्वर्णाद्रिशिखरमयं मेरुशृङ्गशशीव काञ्चनमयं सिंहासने नृपासनम् आरुरोह आरूढवान् । उपमा ।

चन्द्रापीडस्य दिग्विजययात्रां निरुपयितुमुपक्रमं दर्शयति—आरूढस्य चेति । अपि चेति चार्थः । कृतो विहितो यथोचितं यथायोग्यं सकलगजलोकस्य उपस्थितनरेन्द्रमण्डलस्य सम्मानः सत्कारो येन स तस्य मुहूर्तं क्षणं स्थित्वा विद्यमानस्येत्यर्थः । अस्य चन्द्रापीडस्य, दिग्विजयस्य यत्प्रयाणं गमनं तस्य शंसी सूचकः, प्रलये नाशमये या घनघटा मेघसमूहः तस्याः घोषवत् गर्जितवत् घर्धरो 'घरघर' इत्येवं रूपो ध्वनिः शब्दो यस्य स तादृशः, प्रयाणदुन्दुभिः यात्रापटहः कनककोणैः सुवर्णरचितवादनदण्डैः 'कोणो वीणादिवादनम्' इत्यमरः, अभिहन्यमानो वद्यमानः सन्, मन्दरघातैः अमन्तममन्मन्दरताडनैः उदधिः दुग्धाब्धोधिः इव, युगान्ते प्रलयसमये निर्घातैः उत्पातसमये आकाशादनिपतितैः वायुविशेषैः अभिहन्यमानं ताड्यमानं वसुन्धरापीठं भूमिष्ठष्ठमिव । निर्घातलक्षणमभिहितं नारदसंहितायाम्—

'वायुनाभिहतो वायुर्गगनात् पतितः क्षितौ । यदा दीप्तः खगाहतः स निर्घातोऽतिदोपकृत् ॥' इति।

तडित् विद्युत् तस्य दण्डा यष्टय इव लम्बमानत्वात् तेषां पातैः पतनः उत्पातजलघर इव उत्पात-


समान पहनी गई—मालाओंसे समस्त शरीर व्याप्त हो जाने और वेश (पोशाक) श्वेतवर्ण होनेके कारण चन्द्रा-पीड, शुक्लवर्ण फैली हुई सटाओले भगवान् नरासिंहके समान, नदियोंके प्रवाहवाले कैलासपर्वतके समान, आकाश-गङ्गाके मृणाल-जालसे व्याप्तशरीरवाले ऐरावतके समान और आविर्भूत (उछलती) फेनपङ्क्तियोंसे व्याप्त क्षीरसागरके समान शोभायमान हुआ। उस समय महाराज तारापीड, अपनेसे ही बेतकी छड़ी लेकर चन्द्रापीडके आगेसे लोगोंको हटाने लगे। इस प्रकार चन्द्र जिस प्रकार सुवर्णमय सुमेरु शिखर पर आरोहण करता है उसी प्रकार कुमार चन्द्रापीड सभामण्डपमें जाकर काञ्चनमय सिंहासन पर बैठा।

वह सिंहासनपर बैठकर उपस्थित सामन्त राजाओंका यथायोग्य सम्मान कर कुछ देर ठहरा। बाद दिग्विजयके लिए प्रस्थान करनेके समयका सूचक, प्रलयकालकी मेघघटाके घोषके समान 'घर घर' शब्द करता, सुवर्णके डण्डोंसे बजाये जाने पर वह प्रस्थानदुन्दुभी, मन्दराचलके आघातसे क्षीरसागरके समान प्रलयकालीन निर्घातवायुके आघात (महान्‌तोंके आपसमें टकराने) से भूतलके समान विद्युत्‌के आघातसे उत्पात


१. विधृत, विधूत^...। २. ॰लताकुलः, फेनवला। ३. चागम्य । ४. संन्मानस्य । ५. घातैः । ६. पीठः। ७. तडिद्दण्डपातः ।