भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 380, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 380

चन्द्रापीडदिग्विजययात्रा पृ० ३७ ] चन्द्रकला-विद्योतिनीसहिता । ३४१

कोणैः¹ अभिहन्यमानः प्रस्थानदुन्दुभिरा मन्थरं दध्वान । येन ध्वनता समाध्मातानीव उन्मीलितानीव मुखरीकृतानीव पृथक्कृतानीव विस्तारितानीव गर्भीकृतानीव प्रदक्षिणीकृतानीव बधिरीकृतानीव रवेण भुवनान्तराणि, विश्लेषिता इव दिशामन्योन्यबन्धसन्धयः। यस्य च भयवशविषमचलितोत्तान³-फणासहस्रेणालिङ्गयमान इव रसातले शेषेण, मुहुर्मुहुरभिमुख-दत्त-दन्तोर्ध्वघातैः⁴ आहूयमान इव दिक्षु दिक्कुञ्जरैः, सन्त्रास-रचित-रेचित⁵-मण्डलैः प्रदक्षिणीक्रियमाण इव नभसि दिवसकर-रथतुरगैः,६ अपूर्व⁷ शर्वाट्टहास-शङ्का-हृष्ट-हुङ्कृतेनं आभाष्यमाण-

सामयिकमेघ इव, तया महावराहः श्रीविष्णोस्तृतीयावतारः तस्य घोणा नासिका तस्याः अभिघातैः प्रहारैः पातालस्य चलितघ्नः कुक्षिर्मध्यभाग इव, आमन्थरं नितान्तविस्तृतं दध्वान शब्दं चकार । इहाप्युत्प्राङ्कारः ।

'मन्थरः कोशफलयोर्बाधमन्द्यानयोः पुमान् । कुसुम्भ्यां न द्वयोर्मन्दे पृथौ वक्रेऽभिधेयवत् ॥'

इति मेदिनी।

येनेति । ध्वनता शब्दं कुर्वता येन दुन्दुभिना रवेण शब्देन भुवनान्तराणि विश्वमध्यदेशः, समाध्मातानीव आपूरितानीव, उन्मीलितानीव जागरितानीव, मुखरीकृतानीव शब्दायमानीकृतानीव, पृथक्कृतानीव भिन्नीकृतानीव, विस्तारितानीव विपुलीकृतानीव, गर्भीकृतानीव अन्तर्हितानीव, प्रदक्षिणीकृतानीव आवर्त्तीकृतानीव, बधिरीकृतानीव अकर्णीकृतानीव, जातानीति सर्वत्र शेषः । तथा दिशां ककुभाम् अन्योन्यसन्धयः मियोबन्धनजनितसंश्लेषाः विश्लेषिता विघटिता इव जाताः। सप्तसु समाध्मातादिषु क्रियोत्प्रेक्षालङ्कारः ।

यस्येति । क्लिन्नेति चार्थः। यस्य दुन्दुभेः निनादः शब्दः त्रिभुवनं त्रिविष्टपं बभ्राम भ्रमणं चकारेति सम्बन्धः। रसातले पाताले भयवशेन त्रासत्रशेन विषमम् अतुत्यम् इतस्तत इत्यर्थः । चलितं कम्पितम् उत्तानम् ऊर्ध्वमुखं फणानां सहस्रं यस्य तेन तथोक्तेन सत्ता, शेषेण वासुकिना आलिङ्गयमानः समन्तात् प्राप्यमाण इव सन् । उक्तालङ्कारः ।

मुहुरिति । दिक्षु आशासु मुहुर्मुहुः वारंवारम् अभिमुखे गिरिमित्यादौ दत्ता निहिता दन्ताभ्यां दशनाभ्याम् ऊर्ध्वघाताः ऊर्ध्वप्रहाराः यैः तैः तादृशैः, दिक्कुञ्जरैः दिग्हस्तिभिः आहूयमानः आमन्त्र्यमाण इव, प्रतिगजगर्जनशङ्कयेत्याशयः । इहाप्युत्प्रालङ्कारः, तेन दुन्दुभिशब्दे प्रतिगजगर्जनशङ्कनाद् भ्रान्तिमानलङ्कारो ध्वन्यते इत्यलङ्कारेणालङ्कारध्वनिः ।

सन्त्रासेति । नभसि गगने, सन्त्रासेन भयेन रचितं कृतं रेचितमण्डलं मध्यमवेगानुसारेण परिश्रमरण यैः तैः तादृशैः, सन्त्रासवशादेवातिजवशालिनामपि मध्यमजवेन परिभ्रमणमित्याशयः । 'उत्तेजितं रेचितं स्यानमध्यवेगेन या गतिः' इति हयनान्ममाला । दिवसकररथतुरगैः सूर्यस्यन्दनवाहितुरङ्गमैः प्रदक्षिणीक्रियमाण इव आवर्त्तीक्रियमाण इव । क्रियोत्प्रेक्षालङ्कारः ।

अपूर्वेति । कैलासशिखरिणि रजताद्रिसानुनि त्र्यम्बकवृषभेन महेश्वरवलीवर्हेन कर्त्रा, अपूर्वः अना-


मेघके समान एवं नारायण के तृतीय अवतार महावराह की नासिका के प्रहारसे पाताल-मध्यदेशके समान अत्यन्त गर्जना (विशाल शब्द) करने लगा। शब्दायमान जित दुन्दुभीके शब्दसे समस्त त्रिभुवनका मध्यभाग, मानो परिपूरित, जागरित, शब्दिदत, विदारित, विस्तारित, अभ्यन्तरगत, प्रदक्षिणीकृत और बधिरोकृत हो गया था, एव समस्त दिशाओंके आपसके मन्धिवन्ध मानो विभक्त हो गया था। उसके शब्दको पातालमें, भयवश हजारों फन निकाल, उन्हें उल्टा सीधा फेन और ऊँचा करके शेषनाग मानो आलिङ्गन करता हो सम्मुखवर्त्ता पर्वतभित्तिमें वारम्बार दांत को ऊपर उठाकर विपक्ष हाथी का गर्जन समझ कर दिग्गज्जो मानो समस्त दिशाओं में आह्वान करते (बुलाते) हों, अत्यन्त भयवश मध्यमगति से मण्डलाकार भ्रमण करने सूर्य्यरथ के घोड़े मानो आकाशमें प्रदक्षिणा करते हों, महादेव के अपूर्व उच्च हास्यरव की शङ्कासे आनन्दपूर्वक हुङ्कार करता शिवका


१. कनककोणैः कनकणैः। २. क्वचिदयं पाठो न विद्यते। ३. दलितोत्तान "। ४. 'दन्त्वातिः। ५. ०००रेचक ०००। ६. ०००तुरङ्गमैः। ७. क्वचित् 'अभूतपूर्व' इत्यभिः पाठोऽवलोक्यते।