भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 381, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 381
३४२कादम्बरी—[ कथायाम्-

इव कैलासशिखरिणि त्र्यम्बकवृषभेण, कृत-गम्भीर-कण्ठगर्जितेन प्रत्युद्गम्यमान इव मेरौ^१ ऐरावतेन, अश्रुतपूर्व-रव रोषावेश^२-तिर्यगवनमितविषाणमण्डलेन प्रणम्यमान इव यमसद्मनि^३ कृतान्तमहिषेण, सन्त्रस्त-सकललोकपालाकर्णितो बभ्राम त्रिभुवनमखिलं^४ निनादः। ततो दुन्दुभिरवमाकर्ण्य जय जयेति च सर्वतः समुद्घुष्यमाण-जयशब्दः सिंहासनात् सह द्विषतां श्रिया सञ्चचाल चन्द्रापीडः। समन्तात् ससम्भ्रमोत्थितैश्च परस्पर-सङ्घट्ट विघटितै^५-हारसूत्रविगलितान् अनवरतमा- शाविजयप्रस्थानमङ्गललाजानिव^६ मुक्ताफल-प्रकरान् क्षरद्भिः, पारिजात इव सित-कुसुममुकुल-

र्जनितपूर्वो यः शर्वस्य महेश्वरस्य अट्टहासः उच्चहास्यं तस्य शङ्कया आकर्णिते तस्मिन् दुन्दुभिशब्देन महेश्वराट्टहासभ्रमेणेत्यर्थः, यो हर्षः प्रमोदः तेन यद् हुङ्कृतं स्वस्य हुङ्कारः तेन करणेन आभाषयमाण आह्वप्यमान इव। इह क्रियोत्प्रेक्षालङ्कारः तथा भ्रान्तिमांश्च अनयोरङ्गाङ्गिभावेन सङ्करः।

कृतेति। मेरौ सुमेरुगिरौ, कृतं विहितं गम्भीरम् अत्युच्चं कण्ठगर्जितं गलघोषो येन तेन तादृशेन, ऐरावतेन अभ्रमुप्रियेण (हस्तिना) प्रत्युद्गम्यमान इव गौरवद्योतनार्थम् अभिमुखं व्रज्यमान इव। क्रियोत्प्रेक्षालङ्कारः।

अश्रुतेति। यमसद्मनि धर्मराजभवने, अश्रुतपूर्वेण प्रागनाकर्णितेन रवेण शब्देन यो रोषावेशः क्रोधरूपापस्मारः तेन तिर्यगवनमितं कुटिलेन नम्रीभूतं विषाणमण्डलं शृङ्गमण्डलं यस्य तेन तादृशेन, कृतान्तमहिषेण धर्मराजमहिषेण प्रणम्यमान इव नमस्क्रियमाण इव। क्रियोत्प्रेक्षालङ्कारः।

सन्त्रस्तेति। सन्त्रस्तैः किमिदमिति भयान्यितैः सकलैः समस्तैः लोकपालैः इन्द्रादिभिः आकर्णितः श्रुतः, अखिलं समस्तं त्रिभुवनं बभ्राम भ्रमणं चकार।

इह तेषां तथाविधश्रवणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः।

तत इति। ततस्तदनन्तरं दुन्दुभिरवं पटहध्वनि जयजयेति शब्दं च आकर्ण्य श्रुत्वा सर्वतः चतुर्दिक्षु समुद्घुष्यमाणः उद्घोषं विधाय कथ्यमानः जयशब्दो यस्य स तादृशः, चन्द्रापीडः द्विषतां वैरिणां श्रिया लक्ष्म्या सह सिंहासनात् नरेन्द्रासनात् सञ्चचाल चलितो बभूव। दिग्विजय्राय चन्द्रापीडस्य चलनेन द्विषतां श्रीरपि बहुकालनिवासासम्भवत्रपत्तीश्या चपला ज्ञातेत्याशयः। इह सहोक्तिः।

समन्तादिति। किञ्चेति चार्थः। समन्तात् सर्वदिग्भ्यः, ससम्भ्रमं शीघ्रम् उत्थितैः कृतोत्थानैः, परस्परसङ्घट्टेन मिथः सङ्घर्षेण विघटितानि भिन्नानि यानि हारसूत्राणि तेभ्यो विगलितान् च्युतान्, आशा विजयाय दिग्विजय्राय प्रस्थाने गमने मङ्गललाजान् माङ्गलिकधाना इव मुक्ताफलप्रकरान् मौक्तिकजालान्, अनवरतं निरन्तरं क्षरद्भिः पातयद्भिः, नरपतिसहस्रैः राजमण्डलैः, अनुगम्यमानः अनुव्रज्यमान इत्यन्वयः, सितकुसुमानां शुभ्रवर्णपुष्पाणां यानि मुकुलानि कुद्मलानि तानि पातयन्ति वर्षयन्तीत्येवं


वृषभ (नन्दी) कैलाशकी चोटी पर आह्वान करता हो, गम्भीर कण्ठसे गर्जना करके ऐरावत हस्ती देवलोकमें मानो उसका सत्कार करता हो, ऐसे अश्रुत-पूर्व शब्द सुनकर क्रोधवश सींग टेढ़े कर यम के घरमें यममहिष मानो नमस्कार करता हो और अत्यन्त भीत समस्त दिक्पालगणद्वारा सुने जाने से उस दुन्दुभीका वह शब्द मानो तीनों भुवनोंमें परिभ्रमण करता था।

तदनन्तर चन्द्रापीड़ दुन्दुभी का शब्द सुनकर विपक्षी राजाओं की राजलक्ष्मीके साथ सिंहासन पर से उठ गया। इधर समस्त सैन्य एवं सामन्तगण समस्त दिशाओं में 'चन्द्रापीड़की जय हो, चन्द्रापीड़की जय हो' इस प्रकार जय-जय शब्द करने लगे।

सिंहासन पर से चन्द्रापीड़ के उठते ही चारों ओर से सामन्त राजगण (छोटे-छोटे अधीन राजा लोग) शीघ्रतासे उठ गए, उस समय आपस में टकराने से उन लोगों के गलेके हारोंके ताग टूटने लगे, जिनसे दिग्विजय के लिए प्रस्थान के समयके माङ्गलिक लाजों के समान मोतियाँ निरन्तर गिरने लगीं, उस समय शुभ्रवर्ण फूलोंकी


१. क्वचिद् 'मेरौ' इति न विद्यते।
२. ॰॰॰रवजनितरोष, रव इव।
३. विद्युत्सद्मनि।
४. क्वचिद् अखिलमिति पदं नोपलभ्यते।
५. ॰॰विघट्टित॰॰।
६. ॰॰॰मङ्गललीलालाजानिव, मङ्गललाजानिव।

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका) · पृष्ठ 381, कुल 709 में से · BharatKosha