भारतकोश
संग्रह पर लौटें

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ
३४२कादम्बरी—[ कथायाम्-

इव कैलासशिखरिणि त्र्यम्बकवृषभेण, कृत-गम्भीर-कण्ठगर्जितेन प्रत्युद्गम्यमान इव मेरौ^१ ऐरावतेन, अश्रुतपूर्व-रव रोषावेश^२-तिर्यगवनमितविषाणमण्डलेन प्रणम्यमान इव यमसद्मनि^३ कृतान्तमहिषेण, सन्त्रस्त-सकललोकपालाकर्णितो बभ्राम त्रिभुवनमखिलं^४ निनादः। ततो दुन्दुभिरवमाकर्ण्य जय जयेति च सर्वतः समुद्घुष्यमाण-जयशब्दः सिंहासनात् सह द्विषतां श्रिया सञ्चचाल चन्द्रापीडः। समन्तात् ससम्भ्रमोत्थितैश्च परस्पर-सङ्घट्ट विघटितै^५-हारसूत्रविगलितान् अनवरतमा- शाविजयप्रस्थानमङ्गललाजानिव^६ मुक्ताफल-प्रकरान् क्षरद्भिः, पारिजात इव सित-कुसुममुकुल-

र्जनितपूर्वो यः शर्वस्य महेश्वरस्य अट्टहासः उच्चहास्यं तस्य शङ्कया आकर्णिते तस्मिन् दुन्दुभिशब्देन महेश्वराट्टहासभ्रमेणेत्यर्थः, यो हर्षः प्रमोदः तेन यद् हुङ्कृतं स्वस्य हुङ्कारः तेन करणेन आभाषयमाण आह्वप्यमान इव। इह क्रियोत्प्रेक्षालङ्कारः तथा भ्रान्तिमांश्च अनयोरङ्गाङ्गिभावेन सङ्करः।

कृतेति। मेरौ सुमेरुगिरौ, कृतं विहितं गम्भीरम् अत्युच्चं कण्ठगर्जितं गलघोषो येन तेन तादृशेन, ऐरावतेन अभ्रमुप्रियेण (हस्तिना) प्रत्युद्गम्यमान इव गौरवद्योतनार्थम् अभिमुखं व्रज्यमान इव। क्रियोत्प्रेक्षालङ्कारः।

अश्रुतेति। यमसद्मनि धर्मराजभवने, अश्रुतपूर्वेण प्रागनाकर्णितेन रवेण शब्देन यो रोषावेशः क्रोधरूपापस्मारः तेन तिर्यगवनमितं कुटिलेन नम्रीभूतं विषाणमण्डलं शृङ्गमण्डलं यस्य तेन तादृशेन, कृतान्तमहिषेण धर्मराजमहिषेण प्रणम्यमान इव नमस्क्रियमाण इव। क्रियोत्प्रेक्षालङ्कारः।

सन्त्रस्तेति। सन्त्रस्तैः किमिदमिति भयान्यितैः सकलैः समस्तैः लोकपालैः इन्द्रादिभिः आकर्णितः श्रुतः, अखिलं समस्तं त्रिभुवनं बभ्राम भ्रमणं चकार।

इह तेषां तथाविधश्रवणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः।

तत इति। ततस्तदनन्तरं दुन्दुभिरवं पटहध्वनि जयजयेति शब्दं च आकर्ण्य श्रुत्वा सर्वतः चतुर्दिक्षु समुद्घुष्यमाणः उद्घोषं विधाय कथ्यमानः जयशब्दो यस्य स तादृशः, चन्द्रापीडः द्विषतां वैरिणां श्रिया लक्ष्म्या सह सिंहासनात् नरेन्द्रासनात् सञ्चचाल चलितो बभूव। दिग्विजय्राय चन्द्रापीडस्य चलनेन द्विषतां श्रीरपि बहुकालनिवासासम्भवत्रपत्तीश्या चपला ज्ञातेत्याशयः। इह सहोक्तिः।

समन्तादिति। किञ्चेति चार्थः। समन्तात् सर्वदिग्भ्यः, ससम्भ्रमं शीघ्रम् उत्थितैः कृतोत्थानैः, परस्परसङ्घट्टेन मिथः सङ्घर्षेण विघटितानि भिन्नानि यानि हारसूत्राणि तेभ्यो विगलितान् च्युतान्, आशा विजयाय दिग्विजय्राय प्रस्थाने गमने मङ्गललाजान् माङ्गलिकधाना इव मुक्ताफलप्रकरान् मौक्तिकजालान्, अनवरतं निरन्तरं क्षरद्भिः पातयद्भिः, नरपतिसहस्रैः राजमण्डलैः, अनुगम्यमानः अनुव्रज्यमान इत्यन्वयः, सितकुसुमानां शुभ्रवर्णपुष्पाणां यानि मुकुलानि कुद्मलानि तानि पातयन्ति वर्षयन्तीत्येवं


वृषभ (नन्दी) कैलाशकी चोटी पर आह्वान करता हो, गम्भीर कण्ठसे गर्जना करके ऐरावत हस्ती देवलोकमें मानो उसका सत्कार करता हो, ऐसे अश्रुत-पूर्व शब्द सुनकर क्रोधवश सींग टेढ़े कर यम के घरमें यममहिष मानो नमस्कार करता हो और अत्यन्त भीत समस्त दिक्पालगणद्वारा सुने जाने से उस दुन्दुभीका वह शब्द मानो तीनों भुवनोंमें परिभ्रमण करता था।

तदनन्तर चन्द्रापीड़ दुन्दुभी का शब्द सुनकर विपक्षी राजाओं की राजलक्ष्मीके साथ सिंहासन पर से उठ गया। इधर समस्त सैन्य एवं सामन्तगण समस्त दिशाओं में 'चन्द्रापीड़की जय हो, चन्द्रापीड़की जय हो' इस प्रकार जय-जय शब्द करने लगे।

सिंहासन पर से चन्द्रापीड़ के उठते ही चारों ओर से सामन्त राजगण (छोटे-छोटे अधीन राजा लोग) शीघ्रतासे उठ गए, उस समय आपस में टकराने से उन लोगों के गलेके हारोंके ताग टूटने लगे, जिनसे दिग्विजय के लिए प्रस्थान के समयके माङ्गलिक लाजों के समान मोतियाँ निरन्तर गिरने लगीं, उस समय शुभ्रवर्ण फूलोंकी


१. क्वचिद् 'मेरौ' इति न विद्यते।
२. ॰॰॰रवजनितरोष, रव इव।
३. विद्युत्सद्मनि।
४. क्वचिद् अखिलमिति पदं नोपलभ्यते।
५. ॰॰विघट्टित॰॰।
६. ॰॰॰मङ्गललीलालाजानिव, मङ्गललाजानिव।

चन्द्रापीडदिग्विजयप्रस्थान व० ३८] चन्द्रकला-विद्योतिनीसहिता । ३४३

पानिभिः कल्पपादपैः, ऐरावत इव विमुक्तकरशीकरैराशागजैः, गगनाभोग इव तारागणवर्षि- भिर्दिगन्तरैः, जलदकाल इव स्थूल-जललवासार-स्यन्दिभिर्जलधरैः, अनुगम्यमानो नरपति- सहस्रास्थानमण्डपान्निर्गत्य । निर्गत्य च पूर्वारूढया पत्रलेखया अध्यासितान्तरासनाम् उपपादितप्रस्थानसमुचि- तमङ्गल्यालङ्कारां समम्भ्रमाधोरणोपनीतां करेणुकामन्वारुह्य अचलरेचक-चक्रीकृत-क्षीरोदावर्त्त- पाण्डुरेण दशवदन-बाहुदण्डावस्थित-कैलासकान्तिना मुक्ताफलजालिना शतशलाकेनात- पत्रेण निवार्यमाणातपो निर्गन्तुमारेभे । निर्गच्छंश्च अभ्यन्तरावरोधत एव प्राकारान्तरित-दर्शनानां द्वारावस्थितानां प्रतिपाल-

नीतः कल्पपादपैः देववृक्षैः पारिजात इव, मन्दार इव, विमुक्ता विक्षिप्ताः करेभ्यः शुण्डादण्डेभ्यः शीकराः जलकणा यैः तैः तादृशैः आशागजैः दिग्दन्तिभिः, ऐरावतो गज इव तारागणवर्षिभिः नक्षत्रसमूहपातिभिः दिगन्तरैः विविक्तदिग्भिः गगनाभोगो प्रसारितव्योमदेश इव, तथा स्थूलाः स्थविष्ठा ये जललवाः सटिलबिन्दवः तेषाम् आसारस्यन्दिभिः धारावर्षिभिः जलधरैः मेघैः जलदकालो वर्षासमय इव, अनुगम्यमानः चन्द्रापीडः, आस्थानमण्डपात् सभामवनात् निरगात् निर्गतो बभूव ।

इह 'कल्पपादपैः पारिजात इव' इत्यारभ्य 'जलधरैः जलदकाल इव. इत्यन्तं यावत् मालोपमालङ्कारः । ****'प्रस्थानमङ्गलत्वात्ताजानीव' इत्यत्र जात्युत्प्रेक्षा । अनया च मालोपमा सङ्कीर्यते ।

*निर्गत्येति । किञ्चेति चार्थः । निर्गत्य बहिरागत्य पूर्वं प्रथमम् आरूढया उपरिस्थितया पत्रलेखया ताम्बूलकरङ्कवाहिन्या अध्यासितम् अधिष्ठितम् अन्तरासनं मध्यस्थितासनं यस्याः तां तादृशीम् । उपपादिताः सेवकैः यथास्थानं योजिताः प्रस्थानसमुचिताः सङ्ग्रामयात्रायोग्या मङ्गल्यालङ्कारा मङ्गलकभूषाणि यस्याः तां तादृशीम् । ससम्भ्रमेण शीघ्रेण आधोरणेन हस्तिपकेन उपनीताम् उपस्थापितां करेणुकां काञ्चित् गजपत्नीम् आरुह्य आरोहणं कृत्वा चन्द्रापीडः, अचलरेचकेन मन्दरभ्रमणेन चक्रीकृतो भ्रामितो यः क्षीरोदस्य दुग्धाम्बुधेः आवर्त्तः अम्भसां भ्रमिः तद्वत् पाण्डुरेण शुभ्रेण, दशवदनस्य लङ्काधिपतेः रावणस्य बाहुदण्डे भुजदण्डे अवस्थितः कृतावस्थानो यः कैलासो हिमालयः तस्य कान्तिः प्रभेव कान्तिर्यस्य तेन तादृशेन । आतपत्रस्यापि परिचारकहस्तावस्थितत्ववात् समतानिरूपणाय 'दशवदनबाहुदण्डावस्थित' इत्येकदेशविवर्त्तिरुपकमवगन्तव्यम् । मुक्ताफलजालं मौक्तिकसमूहोऽस्यास्तीति तेन तादृशेन, तथा शतं संख्याकाः शलाका यस्य तेन तादृशेन, आतपत्रेण छत्रेण निवार्यमाणो दूरीक्रियमाण आतपः सूर्यातपो यस्य स तथोक्तः सन्, निर्गन्तुं निःसरितुम् आरेभे आरम्भं चकार ।

इह 'अचलरेचके' त्यादौ द्वे लुप्तोपमे अनयोश्च परस्परनरपेक्षेण संसृष्टिः ।

निर्गच्छन्निति । किञ्चेति चार्थः । वाटीतो निर्गच्छन् व्रजन् चन्द्रापीडः, अभ्यन्तरावरोधत एव अन्त-

र्गाभयों गिराते कल्पवृक्षके जिस प्रकार पारिजात वृक्षके, सूँड़ोन्से जलकी बूंदें गिराते दिग्गजन जिस प्रकार ऐरावत के, तारागण बरसाते दिङ्मण्डल जिस प्रकार आकाशके, एवं स्थूल जलबिन्दु बरसाने मेघसमूह जिस प्रकार वर्षाकाल के पीछे रहते हैं, उसी प्रकार सामन्त नरपतिगण चन्द्रापीडके पीछे-पीछे होकर जाने लगे; इस प्रकार चन्द्रापीड सभामण्डपमें से बाहर निकला ।

चन्द्रापीडके बाहर निकलने पर, महावतने शीघ्र एक हथिनी लाकर उपस्थित की पत्रलेखा पहले ही जिसपर चढ़कर मध्यवर्ती आसन पर जा बैठी थी, मङ्गलमय युद्धयात्राके उपयोगी सर्व मांगलिक अलङ्कार जिसे पहनाये थे, चन्द्रापीडने उस हथिनी पर चढ़ कर राजभवनसे चलना प्रारम्भ किया; उस समय मन्दराचलके भ्रमणमे चक्राकार घूर्णित क्षीरसागरके आवर्त्तके समान श्वेतवर्ण, रावणके बाहुदण्ड पर स्थित कैलासपर्वतके समान कान्तिममय, मोतियोंके जालसे युक्त एवं शतशलाका निर्मित (सौ तानवाले) एक छत्र धारण कर कोई भृत्य चन्द्रापीडका रौद्र (धूप) निवारण करता था ।

सामन्त-नरपतिगण चन्द्रापीड की प्रतीक्षा करते हुए दरवाजे के समीप खड़े हैं, किन्तु प्रानोर (परकोटे) के


१. इत्युत्प्रेक्षानुप्राणितः । २. अचिराय । ३. चक्रीकृत । ४. धवलाकारावरोध... । ५. क्वचिद् इदं पाठो न विद्यते ।

३५४कादम्बरी-[ कथायाम्-

यतां राज्ञामुन्मयूखानां चूडामणीनामलक्तकद्रवद्युतिमुपा बहुलेनालोकवालातपेन राज्याभिषेकानन्तरप्रसृतेन स्वप्रतापवह्निनेवात्यर्थं पिञ्जरीक्रियमाणा दश दिशः यौवराज्याभिषेकजन्मना निजानुरागेणेव रज्यमानमवनितलम्, आसन्नरिपुविनाशपिशुनेन दिग्दाहेनेव पाटलीक्रियमाणमम्बरतलम्, अभिमुखागतभुवनतललक्ष्मीचरणालक्तकरसेनेव लोहितायमानातपं दिवसं ददर्श।

विनिर्गतञ्च ससम्भ्रम-प्रचलित-गजघटाँ-सहस्रैरन्योन्यसङ्घट्ट-जर्जरितातपत्रमण्डलैरारादवनत-मौलि शिथिलैं मणिमुकुटपङ्क्तिभिरवर्जितरत्नकर्णपूरैः कपोलस्थल-स्खलितरत्न-

र्विद्यमान एवापश्या इति शेषः। प्रकारेण वप्रेण अन्तरितं व्यवहितं दर्शनम् अवलोकनं येषां तेषां तादृशानाम्। द्वारावस्थितानाम् द्वारोपविष्ठानाम्, प्रतिपालयताम् आत्मानं प्रतीक्षमाणानां राज्ञां सामन्तभूपतीनाम्। उद्गता ऊर्ध्वं प्राप्ता मयूखा रश्मयो येषां तेषाम्। अलक्तकद्रवो लाक्षारसः तस्य द्युतिं शोभां मुष्णाति हरतीति तेन तादृशेन। बहुलेन प्रचुरेण, आलोकः कान्तिः बालातपः प्रत्यग्रोदितसूर्यरश्मिरिव तेन तादृशेन। राज्याभिषेकानन्तरं यौवराज्याभिषेकस्य पश्चात् प्रसृतेन विस्तृततेन, स्वप्रतापस्वकीयकोशदण्डजं तेजः स एव वह्निः अग्निः तेनेव विद्यमानेन। अत्यर्थं पिञ्जरीक्रियमाणाः पिङ्गलवर्गा विधीयमाना दश दिशः सर्वककुभः कर्म, यौवराज्याभिषेकात् जन्म उत्पत्तिर्यस्य तेन तादृशेन, निजानुरागेणैव आत्मीयस्नेहेनेव चूडामणीनामालोकवालातपेनेत्यन्वयः रज्यमानं रक्तीक्रियमाणम् अवनितलं पृथिवीतलं ददर्श। आसन्नानां शीघ्रभाविनां रिपुविनाशानां शत्रुक्षयाणां पिशुनेन सूचकेन दिग्दाहेनेव, चूडामणीनामालोकवालातपेनेत्यन्वयः, पाटलीक्रियमाणं श्वेतरक्तीक्रियमाणम् अम्बरतलं व्योमतलंददर्श। तथा अभिमुखागताया जगज्जयेन आगामिन्याः भुवनतललक्ष्म्‍याः जगच्छ्रियः चरणालक्तकरसेनेव पाद्यावकद्रवेणेव, चूडामणीनामालोकवालातपेन, लोहितायमानः रक्तवदाचरन् आतपः आलोको यत्र तथोक्तं दिवसं ददर्श अवलोकयामास।

इह 'अलक्तकद्रव्यद्युतिमुपा' इत्यत्र निदर्शना। 'आलोकवालातपेन' इत्यत्र लुप्तोपमा। 'अत्यर्थं पिञ्जरीक्रियमाणा दश दिशः' इत्यत्र पिङ्गलीकरणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः। 'निजानुरागेणेव' इत्यत्र गुणोत्प्रेक्षा। 'दिग्दाहेनेव' इत्यत्र क्रियोत्प्रेक्षा। 'चरणालक्तकरसेनेव' इत्यत्र जात्युत्प्रेक्षालङ्कारः।

विनिर्गत इति। विनिर्गतो बहिरागतश्चन्द्रापीडः प्रथममेव शातक्रतवीमाशामभिपतस्थ इति संबंधः। प्रथमतः तृतीयाबहुवचनान्तानि पदानि 'अवनिभुजां चक्रवालैः' इत्यग्रेतनस्य विशेषणानि बोध्यानि। ससम्भ्रमं शीघ्रं प्रचलितं प्रस्थितं गजघटानां हस्तिवृन्दानां सहस्रं येषां तैः तादृशैः। अन्योन्यं परस्परं यः सङ्घट्टः सङ्घर्षः तेन जर्जरितं बहुधा भग्नम् आतपत्रमण्डलं छत्रसमूहो येषां तैः तादृशैः। आदरेण गौरवेण अवनता नम्रा ये मौलयः शिरांसि तेभ्यः शिथिला श्लथीभूता मणिमुकुटानां रत्नकिरीटानां पङ्किः श्रेणिः

व्यवधान हो जाने से वे लोग अन्दर से देख नहीं पड़ते थे; उन लोगों के मुकुटमणिके किरणजाल लत्ता (महावर) के रसके सौन्दर्य को अपहरण करता (चुराता) था एवं नवोदित सूर्यकिरणके समान दीप्ति पा रहा था, उस समय चन्द्रापीड़ निकलते निकलते अन्दर रहकर ही देखने लगा कि—राज्याभिषेक के बाद विस्तृत स्वकीय प्रतापानलके समान मानो वे मुकुटमणिफे प्रचुर किरणजाल दसों दिशाओंको अत्यन्त पिङ्गलवर्ण (लाल-पीले) कर दिये हैं, राज्याभिषेकते उत्पन्न हुए अपने अनुरागके समान ही मानों उनसे भूतल लाल हो गया है, शीघ्र होने वाले रिपुविनाशसूचक दिग्दाहके समान ही मानो वे (किरणजाल) आकाश को रक्तवर्ण (गुलाबी रङ्ग) कर दिये हैं और सामने आई हुई भुवन-लक्ष्मीके चरणोंके अलक्तक रस (महावर) के समान ही मानो वे दिन को धूपको लोहित वर्ण कर दिये हैं।

बाहर निकलते ही सब ओर से सामन्त-नरपतिगण आकर उसको (चन्द्रापीड़को) प्रणाम करने लगे, उस समय उनके बहुतसंख्यक हस्तिगण शीघ्रता (तेजी) से चल रहे थे, उनके छत्रमण्डल एक दूसरे से टकरानेसे जर्जरित हो गये थे, आदर-पूर्वक माथा नीचा करनेसे उनकी मणिमुकुटोंकी कतार शिथिल हो गई थी, रत्नमय कर्णपूर टेढ़े झुक गये थे, मणिमय कुण्डल खिसक खिसक कर गालों पर आकर झूलने लग गये थे और चन्द्रापीट-


१. अलक्तक इव।
• २. क्रियमाणाद्दशदिश।
३. गन्धगजघटा ।
४. आदरादनवरतप्रणामशिथिल***।
५. आवर्जितकर्णपूरैः ।

चन्द्रापीडदिग्विजयप्रस्थानव० ३८ ] चन्द्रकला-विद्योतिनीसहिता । ३४५

कुण्डलैरक्षित-सेनापति-निर्दिश्यमान-नामभिरवनिभुजां चक्रवालैः प्रणम्यमानः, बहलसिन्दू- ररेणुपाटलेन क्षितितल-दोलायमान-स्थूलमुक्ताकलापावचूलेन सित कुसुम-माला-जाल-शबल- शिरसा संलग्नसन्ध्यात्तपेन तिर्यगावज्जित-श्वेतगङ्गाप्रवाहेण तारागण-दन्तुरित-शिखर- शिलातलेन मेरुगिरियेव गन्धमादनेनानुगम्यमानः, कनकालङ्कारप्रभा-प्रताने-कल्मापिता- वयवेन च दत्तकुङ्कुमस्थासकेनेवाकृष्यमाणेनेन्द्रायुधेन सनाथीकृतपुरोभागः शनैः शनैः प्रथममेव शातक्रतवीमाशामभिप्रतस्थे । अथ चलित-गजघटा-कम्पित-धवलातपत्रै-वनम्, अनेककल्लोल-परम्परापतित-चन्द्र-

येषां तैः तादृशैः। आवर्जिता आनमिता रत्नकर्णपूरा मणिमयकर्णभूषणानि येषां तैः तादृशैः। कपोलस्थ- लयोः गण्डभागयोः उपरि स्खलिते मस्तकमनमाद् गते रत्नकुण्डले मणिमयश्रवणकुण्डलयुगलं येषां तैः तादृशैः। तथा आज्ञप्तेन तेषां नामानि कथयितुमादिष्टेन सेनापतिना सैन्याध्यक्षेन निर्दिश्यमानानि निवेद्यमानानि नामानि संज्ञा येषां तैः तादृशैः, अवनिभुजां राज्ञां चक्रवालैः मण्डलैः प्रणम्यमानः नमस्क्रियमाणः चन्द्रापीडः।

बहलेति। इतः आरभ्य तृतीयवचनान्तानि पदानि 'गन्धमादनेन' इत्यग्रेतनस्य विशेषणानि। बहलैः अधिकैः सिन्दूररेणुभिः शृङ्गारभूषणकुङ्कुमधूलिभिः पाटलेन श्वेतरक्तीकृतकुम्भदेशेन। क्षितितले पृथिवीतले दोलायमानः कम्पमानः स्थूलमुक्ताकलापः स्थूलमौक्तिकप्रकरो यस्य तथोक्तः अवचूलः पताकाप्रमद्वाधोमुखवसनं यस्य तेन तादृशेन। 'अवचूलः (पुं०) ध्वजाग्रवद्वाधोमुखवस्त्रम्' इति शब्द- कल्पद्रुमः। तथा सितं यत् कुसुममालाजालं पुष्पस्रक्समूहः तेन शबलं विचित्रं शिरो मस्तकं यस्य तेन तादृशेन। अतएव संलग्नः संश्लिष्टः सन्ध्याया आतपो रागो यत्र तेन तादृशेन, इति सिन्दूरभूषितकण्ठ- शौपम्यम्। तिर्यक् आवर्जितः पतितः श्वेतः शुभ्रो गङ्गाप्रवाहः भागीरथीधारा यस्मात्तेन तादृशेन। एतेन पृष्ठबद्धध्वजगतपताकौपम्यम्। तथा तारागणेन ऋक्षमण्डलेन दन्तुरितं विषमीकृतं शिखरशिलातलं शृङ्गस्थप्रस्तरो यस्य तेन तादृशेन । एतेन श्वेतपुष्पपङ्क्तिसाम्यम्। एवंविधेन मेरुगिरिनेव सुमेरुपर्वतेनेव गन्धमादनेन तत्संज्ञकेन प्रगलद्धितेन गन्धहस्तिना अनुगम्यमानोऽनुव्रज्यमानश्चन्द्रापीडः। इह श्रौत्यु- पमा पदार्थहेतुकेन काव्यलिङ्गालङ्कारेण सङ्कीर्यते ।

कनकेति। कनकस्य सुवर्णस्य योऽलङ्कारो भूषणं तस्य याः प्रभाः कान्तयः तासां प्रतानेन आधि- क्येन कश्मापिताः कर्बुरीकृताः अवयवा अङ्गानि यस्य तेन तादृशेन, अत एव दत्ताः शरीरेषु अर्पिताः कुङ्कु- मस्थासकाः कुङ्कुमद्रवकृतपाणिबिम्बचिह्नानि यत्र तेनेव सता। आकृष्यमाणेन केनाप्याकृष्य नीयमानेन इन्द्रायुधेन प्राङ्निरूपितेन तत्संज्ञकाश्वेन मनायीकृतः स्वसंयुक्तिकृतः पुरोभागः सम्मुखदेशो यस्य स तादृशः चन्द्रापीडः । शतक्रतोरिन्द्रस्येयमिति शातक्रतवी तामाशां पूर्वा दिशम् अभिप्रतस्थे अभिमुखं चचाल ।

अथेति। अथ चन्द्रापीडप्रस्थानानन्तरम् चलिता गन्तुं प्रवृत्ता या गजघटा हस्तिसमूहः। तासु


द्वारा उनके नामोंको कहनेके लिए आदेश किये जाने पर सेनापति उनके नामोंको बतलाता जाता था। गन्धमादन नामक हाथी चन्द्रापीडके पीछे-पीछे चलता था, उसका कुम्भमण्डल खूब सिन्दूर लगानेसे लाल हो गया था, पीठ के ऊपर में जो ध्वजा थी, उसमें लटकती हुई घूमती मोतियोंकी झालर भूतल पर दोलायमान हो रही थी, श्वेतवर्ण फूलोंकी मालाओंके जालते उसका मस्तक विचित्र दीखता था, अतएव सन्ध्यासमयकी रक्तिमासे युक्त, टेढ़े बहते श्वेतवर्ण गङ्गाप्रवाहवाले और नक्षत्रसमूहोंसे छाए शिखरवाले सुमेरुपर्वतके समान वह गन्धमादन शोभायमान लगता था। कोई नौकर चन्द्रापीडके आगे-आगे उस इन्द्रायुधको खींच कर ले जाना था, सुवर्णमय अलङ्कारके प्रभाराशिसे उसका समस्त अवयव विचित्र हो गया था। इससे प्रतीत होता था मानो कुङ्कमरस द्वारा उसके अङ्गमें हाथ का पञ्चा चित्रित कर दिया गया है। इस प्रकार चन्द्रापीड धीरे-धीरे पहले ही पूर्व दिशाकी ओर प्रस्थान किया।

चन्द्रापीडके प्रस्थान करने पर समस्त सैन्यगण अद्भुत कोलाहल करते-करते महीतलको प्लावितकर


१. रश्चात। २. निर्दिश्यमानानामवनि। ३. क्वचित् 'स्थूल' इति पदं न विद्यते। ४. दन्तुरितशि- लातलेन ५. ....प्रभावल्माषित ..। ६. क्वचित् 'अथ' इति पदं नास्ति। ७. ....कम्पितातपत्र...।

२२ का०

३४६कादम्बरी-[ कथायाम्-

मण्डल-प्रतिबिम्ब-सहस्रम्; महाप्रलय-जलधि-जलमिव प्लावितमहीतलम, अद्भुतोद्भूत-कलकलम्; अखिलं सञ्चचाल बलम्।

उच्चलितस्य चास्य स्वभवनादुपपादितप्रस्थानमङ्गलो दुकूल-वासाः सितकुसुमाङ्ग-रागो महता बलसमूहेन नरेन्द्रवृन्दैरनुगम्यमानैः धृतधवलातपत्रो द्वितीय इव युवराज-स्त्वरितपदसञ्चारिण्या करिण्या वैशम्पायनः समीपमाजगाम। आगत्य च रजनिकर इव रवेरासन्नवर्ती बभूव।

अनन्तरमितश्चेतश्च 'निर्गतो युवराजः' इति समाकर्ण्य प्रधावतां बलानां भरणे चलि-त-कुलशैल-कीलित-जलधि-जल-तरङ्ग-गतेव तत्क्षणमाचकम्पे मेदिनी। सम्मुखागतैरन्यैश्चा-


कम्पितं धूतं धवलातपत्राणाम् आरोहिगणमितच्छत्राणां वनं समूहो यत्र तत्तादृशम्, अत एव अनेका विविधां याः कल्लोलपरम्पराः महान्तरङ्गश्रेणयः तासु पतितं चन्द्रमण्डलप्रतिबिम्बानां शशीमण्डलप्रति-च्छायानां सहस्रं सन्दूहो यस्य तत्तादृशम्, महाप्रलयकालीनजलधिक्षलद्रुमिव महाप्रलयसामयिकसमुद्रमिव प्लावितमहीतनं प्रलयनीतपृथवीतलम्, अद्भुत आश्चर्यकारी उद्भूत उत्पत्रः कलकलः कोलाहलो यस्मिन् तत्तादृशम् अखिलं समस्तं बलं चन्द्रापीडसैन्य सञ्चचाल सम्यक्प्रकारेण चलितं बभूवेत्यर्थः। ततश्चादिति शेषः। उपमा।

उच्चलेदत्येति। किञ्चेति चार्थः। उच्चलितस्य प्रस्थितस्य अस्य चन्द्रापीडस्य वैशम्पायनः समीप-माजगामेत्यन्वयः। स्वभवनात् निजगृहात् उपपादितं दैवज्ञिकोद्भादिना ऋत्विभिर्विहितं प्रस्थानमङ्गलं यस्य स तादृशः, दुकूलवासाः परिहितसूक्ष्मवसनः सितकुसुमैः श्वेतपुष्पैः अङ्गरागः शरीरशोभा यस्य स तादृशः। महता महीयसा बलसमूहेन सैन्यसङ्घातेन नरेन्द्रवृन्दैः राजसमूहेश्च अनुगम्यमानः अनुव्रज्य-मानः। धृतं केनचित्सेवकेन उत्तमाङ्गोपरि धवलातपत्रं श्वेतच्छ्त्रं यस्य स तादृशः, त्वरितपदसञ्चारिण्या शीघ्रचरणगामिन्या करिण्या हस्तिन्या करणभूतयेत्यर्थः। वैशम्पायनः द्वितीयो युवराज इव समीपं पार्श्वम् आजगाम आययौ तथाविधाडम्बरयुक्तत्वादित्याशयः। इह 'द्वितीयो युवराज इव'इति दृम्भोत्प्रेक्षा।

आगत्येति। आगत्य अभ्येत्य च वैशम्पायनः, रवेः सूर्यस्य रजनिकरः निशापतिरिव आसन्नवर्ती चन्द्रापीडस्य समीपवर्ती बभूव संजज्ञे। शुक्लपक्षप्रथमभागे दिनान्ते गगने चन्द्रः सूर्यस्य समीपवर्ती भवतीति ज्यौतिषम्। उपमा।

'अनन्तरमिति। इतश्चेतश्च इतस्तत इत्यर्थः, युवराजो निर्गतो निःसृत इति वाक्यं समाकर्ण्य श्रुत्वा प्रधावतां शीघ्रेण चलतां तत्तक्षादिति शेषः, बलानां सैन्यानां भरणे भारेण, मेदिनी पृथिवी, चलितैः पद्धत्या गमनशीलैः कुलपर्वतैः पूर्वप्रतिपादितैः महेन्द्रप्रभृतिभिः कीलितो विद्धो यो जलधिः समुद्रः तस्य जलतरङ्गातेव सलिलकल्लोलप्राप्तेव सती तत्क्षणं तात्कालम् आचकम्पे चचाल। चलितहस्तिसमूह-सादृश्यसूचनार्थं चलितकुलशैलकीलिवेति विशेषणम्। इह 'जलतरङ्गत्वेव' इति क्रियोत्प्रेक्षा।

सम्मुखेति। परस्परं सम्मुखागतैः अभिमुखयातैः अन्यैश्च अन्यैश्च मिलितैः प्रणमद्भिः नमस्कुं


उसके पीछे-पीछे जाने लगे, हाथियोंके चलने पर महावतोंके श्वेतवर्ण छत्रसमूह कम्पित होने लगे, उनसे कम्पित तरंगों पर हजारों चन्द्रप्रतिबिम्ब पङ्क्ति होने पर प्रलयकालीन समुद्र-जलप्रवाहके समान सौन्दर्य देखे जाने लगे।

वैशम्पायन द्वितीय युवराजके समान एक शीघ्रतासे चलनेवाली हथनी पर बैठकर अपने महलसे प्रस्थित चन्द्रापीडके समीपमें आ गया; पुरोहितगण उसकी यात्राकालीन माङ्गलिक क्रिया सम्पादन कर रहे थे, उसके पहननेका कपड़ा सूक्ष्म था और श्वेतवर्ण पुष्पसे शरीरकी शोभा की हुई थी, एवं कोई नौकर मस्तकके ऊपर श्वेतवर्ण छत्रको पकड़कर चल रहा था, बड़ी सेना और नृपसमुदाय उसके पीछे-पीछे आ रहे थे। चन्द्र जिस प्रकार सूर्यका आसन्नवर्ती होता है, उसी प्रकार वैशम्पायन आकर चन्द्रापीडका आसन्नवर्ती हो गया।

उसके बाद 'युवराज महलसे निकले हुए हैं,- इधर-उधर यह सुनकर सेनाके उनके पीछे-पीछे दौड़ने लगी, उस समय उनके पदभारसे पृथिवी, मानो चलायमान हुए कुलपर्वतोंसे पीड़ित समुद्रकी तरंगोंमें प्रविष्ट हुई (डुबी) हो इस प्रकार काँपने लगी। सान्त्वनादगण, परस्पर सामने उपस्थित होकर राष्ट्रपुत्रको प्रणाम करने


१. सकलं। २. धवलदुकूल...। ३. ....अनुगम्यमानः। ४. समागच्छन् ५. शशिकर इव। ६. ....शैलकीलितजलधितरङ्ग।

चन्द्रापीडदिग्विजयप्रस्थानम्० ३८ ] चन्द्रकला-विद्योतिनीसहिता । ३४७

न्यैश्च प्रणमद्भिर्भूमिपालैः, अंशुलता-जाल-जटिल-चूलिकानां मणिमुकुटानामालोकेनोन्मिषि- तवहुलरोचिषाञ्च पत्रभङ्गिनीनां' केयूरमण्डलीनां प्रभासन्तानेन क्वचिद्विकीर्यमाण-चाप- पक्ष-क्षोदा इव, क्वचिदुत्पतित-शिखि-कुलचन्द्रक-शत-शारा इव, क्वचिदकाल-जलधर-तडि- स्तरला इव, क्वचित् सकलपतरुपल्लवा इव, क्वचित् सशक्तऋतुचापा इवे, क्वचित् सवालातपा इवाक्रियन्त३ दश दिशः । धवलान्यपि विविध-मणि-निकर-कल्माषैरूत्सर्पिभिश्चूडामणिमरीचि- भिर्मयूराणीवाराजन्त४ राज्ञामातपत्राणि ।

क्षणेन च तुरगमयमिव महीतलम्, कुञ्जरमयमिव दिक्कचक्रवालम्, आतपत्रमण्ड- लमयमिवान्तरिक्षम् , ध्वजवनमयमिवान्बरतलम् , इभमदगन्धमय इव समीरणः, भूपाल- मयीव प्रजासृष्टिः, आभरणांशुमयीव दृष्टिः५, किरीटमय इवातपः, चामरमय इव

कुर्वद्भिः भूमिपालैः पृथिवीपतिभिर्हेतुभिः, अंशुलता रश्मिपंक्तयः तासां जालेन समूहेन जटिला विषमाः चूलिकाः चूडाः प्रान्तभागा येषां तेषां तादृशानां मणिमुकुटानां स्वकिरीटानाम् आलोकेन प्रकाशेन, तथा उन्मिषितानि उद्गतानि बहुलानि सातिशयानि रोचींषि कान्तयो यासां तासां नादृशीनां पत्रभङ्गिनीनां पत्रलताविशिष्टानां केयूरमण्डलीनाम् अङ्गदश्रेणीनां प्रभासन्तानेन कान्तिप्रवाहेन च कर्त्रा, क्वचिद्देशे कस्मिंश्चित्प्रदेशे विक्षीर्यमाणा विक्षिप्यमाणाः चापाणां किकीदिवीनां पक्षक्षोदाः पत्रचूर्णानि यासु ता इव, दश दिशः अक्रियन्त इति सम्बन्धः। इत्थमुत्तरत्र । क्वचित् उत्पतितस्य उड्डीनस्य शिखिकुलस्य मयूर- गणस्य चलता दीप्यमानेन चन्द्रकशतेन मेचकगणेन पुच्छगतकर्बुरितचिह्नगणेनेति तात्पर्यम् शारा विचित्रा इव। क्वचित् अकाले असमये यो जलधरो मेघः तस्य तडिता विद्युता तरलाश्चञ्चला इव। क्वचित् कल्पतरुपल्लवैः देववृक्षकिसलयैः सह विद्यमाना इति सकल्पतरुपल्लवा इव। क्वचिच शतऋतुचापः इन्द्र- धनुर्भिः सह इति सशक्तऋतुचापा इव। क्वचिच्च बालातपः प्रभाकालीनोदितसूर्यरश्मिः तेन सहेति सपाला- तपा इव दश दिशः दशककुभः अक्रियन्त ।

इह 'विकीर्यमाणे' त्यादौ क्रियोत्प्रेक्षाऽलङ्कारः। 'उत्पतिते' त्यारभ्य 'सबालातपा इव' इत्यन्तं यावत् सर्वत्र गुणोत्प्रेक्षालङ्कारः।

धवलानीति । धवलानि श्वेतान्यपि राज्ञां सामन्ततृपतीनाम् आतपत्राणि छत्राणि, विविधानामनेक- रूपाणां मणीनां रत्नानां तद्रश्मीनामित्यर्थः, निकरेण समूहेन कल्माषैः कर्बुरितैः नानावर्णैः, उत्सर्पिभिः ऊर्ध्वप्रसारिभिः चूडामणिमरीचिभिः शिरोरत्नरश्मिभिः करणैः, मायूराणि मयूरपिच्छरचितानीव। अराजन्त अशोभन्त । क्रियोत्प्रेक्षा ।

क्षणेनेति। क्षणेन क्षणमात्रेण च महीतलं पृथिवीतलं तुरगमयमिव अश्वमयमिव, दिक्‌चक्रवालं दिक्- मण्डलं कुञ्जरमयमिव, हस्तिमयमिव, अन्तरिक्षम् आकाशम् आतपत्रमण्डलमयमिव छत्रमण्डलमयमिव अम्बरतलं गगनतलं ध्वजवनमयमिव पताकासमूहमयमिव, समीरणो वायुः दृभमदगन्धमयमिव गजदा- नवारिसुगन्धमयमिव, प्रजासृष्टिः प्रकृतिसर्गः भूपालमयीव राजमयीव, दृष्टिर्दर्शनम् आभरणांशुमयीव

लगे । उस समय उनके-किरणजालसे चमकती कलँगीवाले-मणिमय मुकुटोंके प्रकाशसे एवं अत्यन्त-दीप्तिशाली नानाविध पत्र-भङ्ग-युक्त केयूरसमूह (बाजूबन्दों) के प्रभाओंसे दशों दिशाएँ ऐसा प्रतीत होने लगीं मानो किसी स्थानमें नीलकण्ठके परों का चूर्ण विक्षिप्त (बिखरा) हुआ हो, किसी स्थानमें उड़ते मयूरोंके हिलते हुए चन्द्रकोंसे विचित्र की हुई हों, किसी स्थानमें असामयिक मेघकी बिजलीसे चमकने लगी हों, किसी स्थानमें कल्पवृक्षके पल्ल- वोंते, किसी स्थान में इन्द्र-धनुषोंसे और किसी स्थानमें नवोदित सूर्य के प्रकाश से समन्वित हों। राजाओं के छत्र श्वेतवर्ण होने पर भी, नानाविध मणियोंके किरणसमूहसे विचित्र होनेसे एवं ऊपर की ओर फैलती हुई चूडामणिके किरणोंसे मानो मयूर-पुच्छ-निर्मित के समान शोभायमान होने लगे ।

क्षणभरमें पृथिवीतल मानो तुरङ्गमय हो, दिङ्मण्डल मानो हस्तिमय हो, अन्तरिक्ष मानो छत्र-मय हो, आकाश मानो केतु-मय हो, वायु मानो हाथीके मदजल-गन्धमय हों, सब लोग मानो राजमय हों, दृष्टिपात मानो अलङ्कार-किरण-मय हो, आतप मानो मुकुटमय हो, दिन मानो चामरमय हो एवं त्रिभुवन मानो जय-जय


१. पत्रभङ्गीनां ।
२. सशक्तपक्षचापा इव ।
३. क्रियन्ते ।
४. राजन्ते, अरज्यन्त ।
५. दृष्टिः ।

३४८कादम्बरी-[ कथायाम्-

दिवसः, जयशब्दमयमिव त्रिभुवनमभवत् । सर्वतश्च कुलपर्वताकारैः प्रचलद्भिर्मत्तवारणैः उत्पातचन्द्रमण्डलनिभैश्च प्रेङ्खद्भिरातपत्रैः संवर्तकाम्भोदगम्भीरभीमनादेन च ध्वनता दुन्दुमिना, तारकावर्षसदृशेन विसर्पता गजशीकरनिकरेण, धूमकेतुधूसरैश्चोल्लसद्भिरवनिरजोदण्डकैः, निर्घात-पात-परुषगम्भीरघोषैश्च करिकण्ठगज्जितैः, क्षतज-कण-वर्ष-बभ्रुंणा च भ्रमता मतङ्गजकुम्भसिन्दूरेण, संक्षुभित-जलधि-जल-कल्लोल-चञ्चलाभिश्च विसर्पन्तीभिः तुरङ्गमालाभिः, अन्धकारितदिगन्तरेण चानवरतं क्षरता गज-मदजल-धारादुर्दिनेन, कलकलेन च भुवनान्तरव्यापिना महाप्रलयकाल इव सञ्जज्ञे ।


सामन्ततृपतीनां भूषणरश्मिमयीव, आतपः आलोकः किरीटमयमिव मुकुटमयमिव, दिवसो वासरः चामरमय इव बालव्यजनमय इव, त्रिभुवनं त्रिविष्टपं जयशब्दमयमिव मागधानां शुभसूचकरवमयमिव अभवत् अजायत ।

इह सर्वत्र विकारार्थे मयट्प्रत्ययविधानाद् विकारस्य च अन्यथाप्रवृत्त्वेन गुप्तत्वाद् गुणोत्प्रेक्षा ।

सर्वत इति । किञ्चेति चार्थः । कुलपर्वताकारैः महेन्द्रादिसप्तकुलाचलाकृतिभिः, सर्वतः समन्तात् प्रचलद्भिः गच्छद्भिः मत्तवारणैः मत्तहस्तिभिः । अत्युद्धत्वसाम्यात् प्रलये कुलपर्वतानामपि चलन सद्भावात् समस्तसाहश्यमित्याशयः । उत्पातकाले उत्पातसमये यानि चन्द्रमण्डलानि शशिचक्रवालानि तन्निभैः तादृशैः प्रेङ्खद्भिः प्रचलद्भिः आतपत्रैः छत्रैः प्रलयसमये जगतामुत्पातद्योतनायैव चन्द्रमण्डलसञ्चलन-मिति सूचनाथैमुत्पातग्रहणम् । संवर्तकाम्भोदवत् प्रलयकालीनमहामेघवद् गम्भीरो भीषणः भयानकश्च नादो ध्वनिर्यस्य स तेन तादृशेन । ध्वनता शब्दायमानेन दुन्दुभिना पटहेन । तारकावर्षसदृशेन नक्षत्रवृष्ट्यनुकारिणा, विसर्पता समन्तात प्रसरता गजशीकरनिकरेण हस्तिशुण्डनिःसृतसलिलबिन्दुसमूहेन । धूमकेतुर्ग्रहविशेषः तद्वद् धूसरैर्धूम्रैः, उल्लसद्भिः उत्तिष्ठद्भिः अवनिरजोदण्डकैः दण्डवद्भवन्मानवसुन्धरा रेणुपंक्तिभिः । निर्घातः पूर्वप्रतिपादितस्वरूपः पवनः तस्य पातवत् परुषाः कठिनाः गम्भीराश्च घोषा निनादा येषां तैः तादृशैः करिणो हस्तिनो यः कण्ठो गलः तद्वत् गर्जितैः रसितैः । क्षतजकणः शोणितबिन्दुः तस्य वर्षवत् वृष्टिवत् बभ्रुना पिङ्गलवर्णेन मतङ्गजकुम्भसिन्दूरेणुना गजकुम्भस्थित सिन्दूरबिन्दुना । संक्षुभिता उद्वेलिता ये जलधिकल्लोलाः समुद्रतरङ्गाः तद्वत् चञ्चलाभिः चपलाभिः, विसर्पन्तीभिः प्रसरन्तीभिः तुरङ्गमालाभिः अश्वपंक्तिभिः । अन्धकारितानि समुत्पन्नान्धकारीणि दिगन्तराणि येन तेन तादृशेन, अनवरतं निरन्तरं चरता स्रवता गजमदजलधारादुर्दिनेन हस्तिमदसलिलधारावर्षेण । तथा भुवनान्तरव्यापिना विष्टपविवरप्रसरशीलेन कलकलेन सैनिकानां कोलाहलेन च करणेन, महाप्रलयकालः कल्पान्तसमयः सञ्जज्ञे सञ्जात इव, तत्रापि पूर्वप्रतिपादितकुलपर्वतसञ्चलनाद्यवश्यम्भावादित्याशयः ।

इह 'कुलपर्वताकारैः,' इत्यत्र 'उत्पातचन्द्रमण्डलनिभैश्च' इत्यत्र चार्थोपमा । 'संवर्त्तकाम्भोदगम्भीरे' त्यत्र लुप्तोपमा । 'तारकावर्षसदृशेन' इत्यत्रार्थोपमा । 'धूमकेतुधूसरैः,' 'क्षतजकणबभ्रुना,' 'संक्षुमितजलधि-


प्रसन्नय हो ऐसा दीखने लगा। एवं कुलपर्वतों के समान बड़े-बड़े स्वरूपवाले मत्तहस्तिगण सब दिशाओंमें व्याप्त होकर जाने लगे, औत्पातिक चन्द्रमण्डल के समान छत्रसमूह चलने लगे; ताड्यमान दुन्दुभी, प्रलयकालके मेघ के समान गम्भीर और भयङ्कर शब्द करने लगी, हाथियोंकी सूँड़ों से जलविन्दुसमूह गिरने लगे, पृथिवी में से धूमकेतु के समान धूसरवर्ण धूलके गुब्बारें उठने लगे, हाथियों निर्घात-वायुपतन (वज्रपात) के समान कठोर और गम्भीर शब्द से गर्जना करने लगीं, हाथियोंके कुम्भस्थल से रुधिरकणों वर्षी के समान सिन्दूर की धूलियाँ उड़ने लगीं, क्षुभित हुए समुद्रजलकी महातरंगों के समान तुरङ्ग-पङ्क्तियाँ चलने लगीं, हाथियों की मद-जल धारा, सब दिशाओंमें अन्धकार कर दिन-रात क्षरित होने लगी, एवं सैनिकोंके कोलाहल से जगत् व्याप्त हो गया, इन सब कारणों से उस समयमें मानो महाप्रलयकाल उपस्थित हुआ हो—ऐसा दीखने लगा।


१. किरीटमय इव दिवसः, जय... । २. प्रहसितातपत्रैः । ३... प्रविस्तृण्वतीभिः । ४. तुरङ्गम । ५. अनवरतक्षरता । ६. क्वचित् गद्यपदं न विद्यते ।

चन्द्रापीडदिग्विजयप्रस्थानव० ३८ ] चन्द्रकला-विद्योतिनीसहिता । ३४६

बल बहल-कोलाहलभीता इव धवल-ध्वज-निवह-निरन्तरादृता ययुः क्वापि दश दिशः। मलिनावनीरंजःसंस्पर्शाङ्कितमिव समद-गज-घटावचूल-सहस्र-संरुद्धमतिदूरम-म्बरम्³ अपससार । प्रवल-वेत्रिवेत्रलता⁴समुत्सार्यमाणा इव तुरग-खुररजो धूसरम्⁵ अर्ककि-रणा मुमुचुः पुरोभागम् । इभ-कर-शीकर⁶-निर्वापण-त्रस्त इवातपत्र-संच्छादितातपो दिवसो ननाश । बल-भर⁷-जर्जरीकृता मद-कल-करि-चरण-शत-ताडिता⁸ द्वितीयेव प्रयाणभेरी भैरवं


'जलकल्लोलचञ्चलाभिश्न' इत्येतेषु लुप्तोपमा । 'सञ्झ इव' इत्यत्र क्रियोत्प्रेक्षालङ्कारः । अनेन हि वैरिणां विनाशः सूच्यत इत्यलङ्कारेण वस्तुध्वनिः ।

बलेति । धवलेन शुभ्रेण ध्वजनिवहेन पताकागणेन निरन्तरं निरवकाशं यथा स्यात्तथा आवृता आच्छादिताः दश दिशः, बलानां सैन्यानां बहलेन अधिकेन कोलाहलेन कलकलेन भीताः त्रस्ता इव सत्यः क्वापि अनिर्दिष्टस्थाने ययुः अलक्ष्यतां गता इत्यर्थः ।

इह क्रियोत्प्रेक्षा, ध्वजनिवहनिरन्तराच्छादनसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः, पदार्थहेतुकं काव्यलिङ्गम्, तथा दिशासु कार्यद्वारा कोलाहलभयापगतकुलवधूव्यवहारसमारोपात् समासोक्तिश्च इत्येतेषां परस्परमङ्गाङ्गिभावेन सङ्करालङ्कारः ।

मलिनेति । समदा मदेन सह वर्त्तमाना या गजघटा हस्तिसमूहाः तासाम् अवचूलसहस्रेण पृष्ठस्थ-पताकागणेन संरुद्धम् आच्छन्नम् अम्बरं गगनं कर्तृ, मलिनानि कश्मलानि यानि अवनिरजांसि धूलयः तेषां संस्पर्शात् संश्लेषात् शङ्कितमिव सत् अतिदूरम् अतिदविष्ठम् अपससार अपसृतं बभूव तत्सैन्यानां दूर एव दृश्यतां गतवानित्याशयः । इहापि पूर्ववदेव सर्वाळङ्काराणां सङ्करः ।

**प्रवलेति-**अर्ककिरणाः सूर्यरश्मयः प्रबलस्य राजनियोगात् पूर्णप्रभावस्य वेत्रिणो वेतसदण्डधारिणो रक्षकपुरुषस्य वेत्रलतया वेतसयष्ट्या समुत्सार्यमाणा दूरीक्रियमाणा इव सन्तः तुरगखुररजोघूसरम् अश्वशफधूलिपाण्डुरं पुरोभागम् अग्रभागं मुमुचुः तत्यजुः, राजाग्रगामिसामान्यपुरुषवदित्याशयः ।

इह अर्ककिरणेषु अपसार्यमाणत्वरूपक्रियाया उत्प्रेक्षा । अपि च परित्यागे अश्वशफधूलिधूसरपदस्यार्थो हेतुरिति पदार्थहेतुकं काव्यलिङ्गं च । कार्यद्वारा अर्ककिरणेषु राजपुरोभागपरित्यागरूपसामान्यजनव्यवहारसमारोपात् समासोक्तिरिति त्रयाणामेतेषामङ्गाङ्गिभावेन सङ्करः ।

इभेति । आतपत्रैः छत्रैः संच्छादितः आवृत आतपः सूर्यरश्मिः यत्र तथोक्तः स दिवसः, इभानां गजानां करशीकरैः शुण्डानिर्गतसैलिककणैः यन्निर्वापणं स्वस्य विलयः तेन त्रस्तो भीत इव सन्, ननाश अलक्ष्यतां प्राप्तः, छत्रैराच्छादनाद्दिवसातपो नासीदित्याशयः ।

इह जलविन्दुभिर्यथा वह्नेर्निर्वापणं तथा दिवसेऽपि सम्भावनमित्युत्प्रेक्षा । तथा दिवसनाशे आतपत्रावरणं पदार्था हेतुरिति पदार्थहेतुकं काव्यलिङ्गम्, दिवसनाशसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिरिति त्रयाणामेतेषामङ्गाङ्गिमायेन सङ्करः ।

बलेति । भूमिः वसुन्धरा बलानां सैन्यानां भरेण भारेण जर्जरीकृता क्षुण्णा तथा मदकलानां मदमत्तानां करिणां गजानां चरणशतेन अङ्घ्रिसमूहेन ताडिता च सती, द्वितीया अपरा प्रयाणभेरीव भैरवं भयानकं यथा स्यात्तथा ररास शब्दं चकार ।


श्वेतवर्ण ध्वजाओंके समूह से निरन्तर आच्छादित दसो दिशायें सैन्यगणके बड़े भारी कोलाहलसे भयभीत होकर ही मानो कहीं चली गई, गगनतल, मदमत्त हाथियोंके पृष्ठवर्ती पताकाओं से आच्छादित होकर, मलिन पृथिवी की धूलि-स्पर्श करनेकी आशङ्कासे मानो बहुत दूर सरक (खिसक) गया, सूर्यकी किरणें, वेत्र-दण्डधारी प्रबल प्रतीहारोंकी वेंतकी छड़ियोंसे दूर की गई हों इस प्रकार-मानो अग्रगणके खुरोंसे उड़ती धूलसे धूसरवर्ण आगेके हिस्सेको छोड़ गई, छत्रसमूहसे ढँके हुए आलोकवाला दिन,-हाथियोंके सूँडोंसे निकलते जलकी बूंदोंसे अपने नष्ट हो जानेके भयसे ही मानो भाग गया, सेनाओंके पद-भारसे अत्यन्त जर्जरित हुई और मदमत्त हाथियोंके सैकड़ों चरणों ने ताड़ित हुई पृथिवी मानो द्वितीय प्रयाण-दुन्दुभी के समान भयहूर नाद


१. बहलबल...।
२. मलिनावनिम्।
३. अम्बरतलम्।
४. प्रचलिनवेत्रलता, प्रचुरवेत्रलता...।
५. ...धूसरताभीता इवार्के..., धूसरताभीतार्कं...।
६. सीकरातिकर।
७. बहद्वटभर...।
८. ...सहस्रणशततन्ताडिता, चरणशतखण्डिता।

३५० | कादम्बरी- | [ कथायाम्-

भूमौ ररास । गुल्फद्वयसे च तुरङ्ग-मुख-विनिःसृत-सितफेन-पल्लविते^१ मदपयसि मदस्रुतां करिणां प्रचस्खलुः पदे पदे पदातयः। हरिताल-परिमलनिभेन चातिपटुना गजमदामोदेनानुलिप्तस्य सामजस्य वाऽयं ययौ^२ निखिलान्यगन्धग्रहणसामर्थ्यं घ्राणेन्द्रियस्य।

क्रमेण च प्रसर्पतो बलस्य पुरः प्रधावतां जन-कदम्बकानां कोलाहलेन, तारतरदीर्घेण च काहलानां निनादेन, खुर-रव-मिश्रितेन च वाजिनां हेषारवेणं^३, अनवरत-कर्णताल-स्वनं-सम्पृक्तेन च दन्तिनामाडम्बररवेण, ग्रैवेयककिङ्किणीकणितानुसृतेन^४ च गतिवशाद्विषमं-विराविणीनां घण्टानां टङ्कृतेन, मङ्गलशङ्ख-शब्द-संवर्द्धित-ध्वनीनाञ्च प्रयाणपटहानां निनादेन-मुहुर्मुहुरितस्ततस्ताड्यमानानाञ्च डिण्डिमानां^५ निःस्वनेन, जर्जरीकृतश्रवणपुटस्य मूर्च्छवभव-

इह भूमौ भेरीस्वरूपस्य द्रव्यस्योत्प्रेक्षा तथा शब्दकरणे 'बलभर०मदक०' इत्यादिविशेषणद्वयार्थो हेतुरिति काव्यलिङ्गमित्युभयोरङ्गाङ्गिभावसङ्करः।

गुल्फेति। पदातयः सैन्याः पदे पदे प्रतिपादक्षेपम्, गुल्फद्वयसे चरणग्रन्थिपरिमिति, इह प्रमाणे द्वयसच्प्रत्ययः। तुरङ्गाणां घोटकानां मुखेभ्यो वदनेभ्यो विनिःसृतैः बहिरागतैः सितैः धवलैः फेनैः कफैः पल्लविते विस्तारिते, मदस्रुतां दानवारिस्राविणां करिणां हस्तिनां मदपयसि दानसलिले प्रचस्खलुः प्रस्खलनं प्रापुः।

इह गुल्फद्वयसत्वादिसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः।

हरितालेति। हरितालस्य स्वनामप्रसिद्धधातुविशेषस्य परिमलनिभेन सुगन्धितुल्येन, अतिपटुना अतीवतीव्रेण च गजमदामोदेन हस्तिदानसलिलपरिमलेन अनुलिप्तस्य संयुक्तस्य अक्षितस्य च, सामजस्य तत्तन्मतङ्गजस्य इव घ्राणेन्द्रियस्य नरवृन्दनासिकायाः, निखिलानि समस्तानि अगन्धग्रहणसामर्थ्यम् अयं ययौ विननाश, गजमदामोदेन स्वस्वमदपरिमलेन च परिपूर्णत्वात्। प्रबलगन्धाकृष्टस्य घ्राणस्य तदपेक्षया दुर्बलगन्धानां ग्रहणं न भवतीत्यभिप्रायः। 'सामञ्जस्तु गजे पुंसि सामोत्ये पुनरन्यवत्।' इति मेदिनी।

इह यथाक्रमं लुप्तोपमा, श्रौतोपमा च, अनयोश्चाङ्गाङ्गिभावसङ्करः।

क्रमेणेति। परिपाट्या प्रसर्पतो गच्छतो बलस्य सैन्यस्य पुरःप्रधावताम् अग्रे शीघ्रं प्रचलनां जनकदम्बानां लोकवृन्दानां कोलाहलेन कलकलेन, तारतरदीर्घेण नितान्तोच्चैस्तरेण काहलानां बृहदुडुक्कानां निनादेन शब्देन। तथा खुररवैः शफस्वनैः विमिश्रेण संपृक्तेन वाजिनाम् अश्वानां हर्षद्देषारवेण प्रमोदहेषाशब्देन। अनवरतो निरन्तरो यः कर्णतालयोः अखण्डतालपत्रवद्विस्तृतयोः श्रोत्रयोः स्वनः शब्दः तेन संपृक्तः संमिलितः तेन तादृशेन, दन्तिनां हस्तिनाम् आडम्बररवेण विशालेन बृंहितध्वनिना। ग्रैवेयकाणि कण्ठभूषणानि तेषु याः किङ्किण्यः क्षुद्रघण्टिकाः तासां क्वणितैः शब्दैः अनुसृतेन अनुगतेन, गतिवशेन गमनवशेन विषमविराविणीनां भीषणध्वनिविधायिनीनां घण्टानां गलबन्धितानामित्यर्थः। टङ्कृतेन 'टंटं' रवेण। मङ्गलशङ्खशब्दैः संवर्धिता वृद्धिं प्राप्ताः ध्वनयो येषां तेषां तादृशानाम्, प्रयाणपटहानां प्रस्थानढक्कानां निनादेन शब्देन। मुहुर्मुहुः वारंवारम् इतस्ततः ताड्यमानानां हन्यमानानां डिण्डिमानां


करने लगी; मदस्रावी हाथियोंके घुटने तक आते-अश्वगणके मुखमेंसे निकले श्वेतवर्ण फेनपुञ्जसे विस्तृत हुए-मद-जलमें पैदल सैनिकगण पद-पद पर फिसलने लगे, हरतालकी गन्धके समान अतितीव्र मद-सुगन्धके भर जानेसे, हस्तिगणकी नासिकाके समान सैन्यगणकी नासिकाओं के अन्य गन्ध ग्रहण करने की सब शक्ति लुप्त हो चली।

क्रमसे चली जाती सेनाके आगे दौड़ते जन-समूहोंके कोलाहलसे, नगारोंकी अतितीव्र और ऊँची आवाज से, खुरोंके शब्दसे मिले हुए घोड़ों के हिनहिनाहटसे, हाथियोंके अविश्रान्त सञ्चालित वृहद कर्णतालके शब्दसे मिली हुई उनकी तेज और विशाल गर्जना से, गलोंमें; डाली हुई किङ्किणियों (घुघरियों) के आवाजके साथ सुनाई देती-चलनेके कारण कभी-कभी बजती-घंटालियोंके 'टन्, टन्' शब्दसे, माङ्गलिक शङ्खकी ध्वनिसे परिवर्द्धित-हुई आवाजवाले प्रस्थान दुन्दुभी (ढक्का) के नादसे और बार-बार चारों ओर बजते डिण्डिम (डमरू) के


१. ०००पल्लवे।
२. उपययौ, समुपययौ, समाययौ।
३. हेषारवेण।
४. ०००स्वररव।
५. ०००अनुगृहीतेन।
६. गतिवशविपम।
७. द्विरदडिण्डिमानाम्।

चन्द्रापीडदिग्विजयप्रस्थान० ३८] चन्द्रकला-विद्योतिनीसहिता । ३५१

ध्वनस्य ।

शनैः शनैश्च बलसंक्षोभजन्मा क्षितेरनेकवर्णतया क्वचिज्जीर्ण-शफर क्रोड-धूम्रः, क्वचित् क्रमेलक-सटा-सन्निभः, क्वचित् परिणत-रल्लकरोम-पल्लवमलिनः, क्वचित् पत्रोर्ण-तन्तुपा-ण्डुरः, क्वचिज्जरठ-मृणालदण्डधवलः, क्वचिज्जरत्कपि-केशर-कपिलः, क्वचिद्धर-वृषभ-रोमन्थ-फेन-पिण्ड-पाण्डुरः, त्रिपथगाप्रवाह इव हरिचरणप्रभवः, कुपित इव मुञ्चन् क्षमाम्, आरब्ध-परिहास इव रुन्धन्नयनानि, तृषित इव पिबन् करिकर-शीकरजलानि, पक्षवानिवोत्पतन्

पटहविनेषाणां निःस्वनेन ध्वनिना, जर्जरीकृतं प्रव्यथितं श्रवणपुटं श्रोत्रपुटं यस्य तस्य तादृशस्य लोकस्य मूर्च्छा मोहः समवदिक्ष समजायत इव। क्रियोत्प्रेक्षा।

शनैरिति । शनैः शनैः मन्दं मन्दं बलसंक्षोभात् सैन्यस्य संवेगचलनात् जन्म उत्पत्तिर्यस्य स तादृशो रेणुः धूलिः उत्पपात ऊर्ध्वं जगाम इति वक्ष्यमाणक्रियया सम्बन्धः। क्षितेः चलनालम्बनभूतभूत-लस्य अनेकवर्णतया नानारूपतया कारणेन । क्वचित् पाण्डुरमृण्मयमूमौ जीर्णशफरस्य परिणतप्रौष्टीमीन-विशेषस्य क्रोडवत् उपरिभागवत् धूम्रो धूम्रवर्णः। क्वचित् पिङ्गलमृण्मयभूतले, क्रमेलकस्य उष्ट्रस्य सटासन्निभः जटासदृशः। क्वचित् श्याममृन्मयभूमौ, परिणतस्य जीर्णावस्थो रल्लकस्य मृगविशेषस्य रोम्णां तनूरुहां पल्लववत् स्तबकवत् मलिनः श्यामवर्णः। 'रल्लकः कम्बले स्मृतः। तथैव कम्बलमृगे' इति हैमः। क्वचित्। पाण्डुमृत्तिकामयमूमौ वटलकुचादियहलेषु कृमिभिः ऊर्णाया विहितत्वात् पत्रसम्बन्धिनी ऊर्णा अत्रेति पत्रोर्णम्, धौतकौशेयवसनं तस्य तन्तुवत् पाण्डुरः श्वेतारक्तः, 'पत्रोर्णं धौतकौशेयम्' इत्य-मरः। क्वचित् विशदमृन्मयमस्थले, जरठो दीर्घकालीनो यो मृणालदण्डो बिसदण्डः तद्वद् धवलः शुभ्रवर्णः। क्वचित् पिङ्गलवर्णमृन्मयान्यभूमौ, जरतो वृद्धस्य कपेर्वानरस्य केसरवत् कपिलः पिङ्गलवर्णः। क्वचित् पाण्डुवर्गमृन्मयस्थले, हरवृषभस्य महेशवृषस्य रोमन्थेन चर्वितचर्वणेन यः फेनपिण्डः कफपुञ्जः तद्वत् पाण्डुरः। इह सर्वत्र लुप्तोपमालङ्कारः।

त्रिन्थेति । त्रिपथगा त्रिस्रोता गङ्गा तस्याः प्रवाहो धारा इव, हरीणां घोटकानां चरणेभ्यः पादेभ्यः पदे हरेः श्रीविष्णोः चरणात् प्रभवतीति सः तादृशः।

कुपित इति । कुपितः क्रुद्धो जन इव, क्षमां पृथिवीं सहिष्णुताञ्च मुञ्चन् परित्यजन्। एकत्र तदुत्प-नादपरत्र अधीरत्वादिग्याशयः।

आरब्धेति । आरब्धः प्रम्रुतः परिहासः कैश्चित् सार्द्धं नर्म, येन स तथोक्तो लोक इव, नयनानि जनानां लोचनानि परिहासशीलानां चक्षूंषि च रुन्धन् आवृण्वन्। पाणिना लोचनाच्छादनं लौकिकपरि-हासे प्रसिद्धम्।

तृषित इति । तृषितः पिपासया व्यथिनो लोक इव, करिकरशीकरजलानि गजशुण्डानिर्गतसलिल-कणान् पिबन् कर्दमौभूय शोषयन्, पीतानि विदधच्च।

पक्षेति । पक्षवान् गरुत्मान् इव, गगनतलम् आकाशम् उत्पतन् उद्डीयमानः।


ध्वनि से लोगों के कानपुण्ड सन्न हो जाते थे और सुनते ही मानो उनको मूर्च्छा आ जाती थी।

धीरे धीरे सैन्यबलके क्षोभसे उत्पन्न हुई धूल उड़ने लगी। वह भूतलके अनेक वर्ण होनेके कारण किसी स्थानमें बूढ़े प्रोष्ठीमत्स्य (पोठी मछली) की छातीके समान धूसर वर्ण (धुँधली), किसी स्थानमें ऊँटके बालके समान पिङ्गलवर्ण, किसी स्थानमें बूढ़े हरिणविशेषके लोमगुच्छके समान श्यामवर्ण, किसी स्थानमें धुले हुए रेशमी वस्त्रके सूतके समान पाण्डुवर्ण, किसी स्थानमें पके हुए मृणालकी डन्डीके समान शुभ्रवर्ण, किसी स्थानमें बूढ़े बानरके केशके समान पिङ्गल वर्ण और किसी स्थानमें शङ्करके वृषभके चर्वितचर्वण (जुगाली) करनेके समय उत्पन्न फेनपुञ्ज के समान पाण्डुवर्ण थी। गङ्गाजीके चरणकमलसे महाप्रवाहके समान अश्वगणके खुरोंसे वह धूल निकलती थी; क्रोधित व्यक्ति जिस प्रकार सहिष्णुता त्याग करता है वह धूल भी उसी प्रकार पृथिवीका त्याग करता थी; हँसीमें पीछेसे आकर कोई व्यक्ति जिस प्रकार हाथद्वारा दूसरे व्यक्तिके नेत्रोंको बन्द करता है, वह धूल भी उसी प्रकार लोगोंके नेत्रोंको बन्द करती थी; पिपासातुर व्यक्ति जिस प्रकार जल-पान करता है, वह धूल भी उसी प्रकार हाथियोंकी सूँडोंसे निकलता हुई जलका बूंदोंको पान (शोषण) करती थी; वह पक्षीके समान आकाशमें उड़ती थी; भ्रमरोंके

१. सहसा । २. उत्प्रेक्षा...। ३. ...हेतु...। ४. वर...।

३५२ कादम्बरी- [ कथायाम्-

गगनतलम्, अलिनिवह इव चुम्बन् मदरेखाम्, मृगपतिरिव रचयन् करिकुम्भस्थलीषु पदम्, उपात्त-विजय इव गृह्णन् पताकाः$^१$ जरागम इव पाण्डुरीकुर्वन्$^२$ शिरांसि, मुद्रयन्निव पक्ष्माग्रसंस्थितो दृष्टिम्, आजिघ्रन्निव मकरन्द-मधु-बिन्दुपङ्कलग्नः$^३$ कर्णोत्पलानि, मद-कल-करि-कर्ण-ताल ताडन-त्रस्त इव विशन्$^४$ कर्ण$^५$-शङ्खोदर-विवराणि, पीयमान इवोन्मुखीभिरवनिपति-मुकुटमणि-भङ्ग-मकरिकाभिः, अभ्यर्च्यमान इव तुरग-मुख-विक्षेप-विप्लुतैः फेन-पल्लव-कुसुम-स्तवकैः-अनुगम्यमान इव मत्तगज-घटा-कुम्भ-भित्ति-सम्भवेन धातुधूलिवलयेन,

अलीति । अलिनिवहो भ्रमरगण इव, मदलेखां करिणां दानवारिपंक्तिं चुम्बन् स्पृशन् मुख-संयोगं विदधच्च ।

मृगेति । मृगपतिः सिंह इव, करिकुम्भस्थलीषु गजशिरसः पिण्डस्थलीषु पदं प्रतिष्ठां चरणनिक्षेपञ्च रचयन् कुर्वन् एकत्र पतनादन्यत्राक्रमणादित्याशयः ।

उपात्तेति । उपात्तः संग्रामे प्राप्तो विजयो जयो येन स तादृशः राजेव, पताका ध्वजान् गृह्णन् स्पृशन् अपहरंश्च । विजयी हि विजितरिपूणां ध्वजान् हरतीति प्रथितमेतत् ।

जरेति । जरागमो वृद्धावस्थेव, जनानां शिरांसि मस्तकानि पाण्डुरीकुर्वन्, एकत्र कचश्यापनाद्-अन्यत्र कचपाकादित्याशयः । इह 'त्रिपथगाप्रवाह इव' इत्यारभ्य 'जरागम इव' इत्यन्तं यावत् पूर्णोपमालङ्कारः ।

मुद्रयन्निति । पक्ष्मणां लोचनरोम्णाम् अग्रेषु संस्थितः पुरोवर्त्ती सन् दृष्टिं मुद्रयन् सङ्कोचयन्निव, सङ्पतनशक्त्या जनानां लोचनोन्मीलनसम्भवादित्याशयः । क्रियोत्प्रेक्षा ।

आजीति । मकरन्देषु श्रवणोत्पलानामेव किञ्जल्केषु च मधुविन्दुद्रङ्गाः गाढद्रवकणाः तेषु लग्नः संसक्तः सन्, जनानां कर्णोत्पलानि श्रवणोत्पलानि आजिघ्रन् तत्सौरभं गृह्णन्निव । 'मकरन्दः (पुं)*** किञ्जल्के क्लीबम्' इति शब्दकल्पद्रुमः ।

इह 'आजिघ्रन्निव' इति क्रियोत्प्रेक्षा, अनया च पुनरुक्तवदाभासः सङ्कीर्यते । मकरन्दमधुपदयोः पर्यायतया श्रवणमात्रेण पुनरुक्तावगमेऽपि अनन्तरं मकरन्दपदस्य किञ्जल्कार्थे पर्यवसितार्थत्वाह पुनरुक्तवदाभासो ज्ञेयः ।

मदेति । मदकला मदमत्ता ये करिणो हस्तिनः तेषां कर्णतालाभ्यां तालपत्रवद्विस्तृतश्रवणाभ्यां यत्ताडनं प्रहारः तस्मात् त्रस्तो भीत इव सन्, कर्णयोः श्रवणयोः शङ्खानां भालास्थ्नाञ्च उदरविवराणि अभ्यन्तरच्छिद्राणि विशन् प्रविशन् ।

पीयमान इति । उन्मुखीभिः ऊर्ध्वाननाभिः, अवनिपतीनां नृपाणां मुकुटेषु याः मणिभङ्गमकरिकाः रत्नखण्डरचिता मकरसदृशांशाः ताभिः पीयमान इव, तदन्तर्गतत्वादित्याशयः ।

अभ्यर्च्येति । तुरगाणाम् अश्वानां मुखविक्षेपेण वदनप्रसारणक्रियाविशेषेण विप्लुतैः विक्षिप्तैः फेनपल्लवा मुखकफपरम्परा एव कुसुमस्तबकाः पुष्पगुच्छाः तैः अभ्यर्च्यमानः पूज्यमान इव तदुपरि पतनादित्याशयः ।

अन्वीति । मत्ता मदयुक्ता या गजघटा हस्तिसमूहाः तासां कुम्भाः शिरसां पिण्डाः ते एव भित्तयः


मदान हाथियोंकी मद-रेखाका चुम्बन करती थी; सिंहके समान हाथियोंके कुम्भस्थल पर पद धरनी (जम जाती) थी; विजयी राजा जिस प्रकार संग्राममें विजित शत्रुकी पताकाओंको ग्रहण करते हैं, वह धूल भी उसी प्रकार रथकी पताकाओंका ग्रहण (स्पर्श) करती थी; बुढ़ापेके समान लोगोंका मस्तक सफेद करती था; लोगोंके पक्ष्मों के आगे रहकर मानो उन लोगोंकी दृष्टिको सङ्कुचित करती थी; कर्णोत्पलके मधुकी बूँदोंसे लिपट कर मानो उस कर्णोत्पलको सूँघती थी; मद-मत्त हाथियोंके हिलने कानोंसे ताड़ना किए जानेके भयसे ही मानो उनके कान और कनपटीके अन्दर भर जाती थी; समक्ष आई हुई, राजाओंके मुकुट-माणियोंमें बनी हुई मकरियोंसे उन्मुख होकर मानो पान की गई थी; अश्वगणके मुंहमेंसे इतस्ततः गिर कर फैले फेन-पल्लव-रूपी फूलोंके गुच्छों से मानो पूजित हुई थी; मदमत्त हस्तिगणके कुम्भस्थलमेंसे निकला हुआ गैरिकादि धातुका रेणु (सिन्दूर) मानो उसका अनुगमन करता था; हस्तिगणके कुम्भस्थलका पश्चात् (रेणु), चामरोंके झूलनेसे उड़ कर मानो उसका


१. पताकान्। २. पाण्डरी। ३. बिन्दुलग्नः। ४. आविशन्। ५. करिकर्ण...। ६. ...मणिरत्नभङ्ग...।

चन्द्रापीडदिग्विजयप्रस्थान० ३८ ] चन्द्रकला-विद्योतिनीसहिता । ३५३

आलिङ्ग्यमान इव चलचामर-कलापविधुतेन पटवासपांशुना, प्रोत्साह्यमान इव नरपति-शेखर-सहस्र-परिच्युतैः कुसुमकेशररजोभिः, उत्पातराहुरिव दिवसकरमण्डलमकाण्ड एव पिबन्, नृप-प्रस्थान-मङ्गल-प्रतिसर-वलय-मालिकासु गोरोचनाचूर्णायमानः, क्रकच-कृत-चन्दन-क्षोद-धूसरो रेणुरुत्पपात। अपरिमाण-बल-सङ्घट्ट-समुपचीयमानश्च शनैः शनैः संहरन्निव विश्वमशेषम्, अकाल-काल-मेघ-पटल-मेदुरो विस्तारमुपगन्तुमारेभे। तेन च क्रमेणोपचीयमानबहुलमूर्त्तिना दिग्विजयमङ्गलध्वजेन, रिपु-कुल-कमल-प्रलय-

इत्येतानि तेभ्यः सम्भवति प्रसरति इति तेन तादृशेन, धातुधूलिवलयेन गैरिकादिरजोमण्डलेन, अनुगम्यमान इव अनुसृज्यमान इव, तस्यापि रेणोरनुसरणादित्याशयः ।

आलिङ्ग्येति । चलतां स्पन्दमानानां नृपाणां निकटे सेवकैः संवीजितानामित्यर्थः, चामराणां बालव्यजनानां कलापेन समूहेन विधुतः सञ्चालितः तेन तादृशेन, पटवासपांशुना पिष्टातकचूर्णेन आलिङ्ग्यमान इव आलिष्यमाण इव, अन्योन्यसंसृष्टत्वादित्यभिप्रायः ।

प्रोत्साहेति । नरपतीनां राज्ञां शेखरसहस्रात् शिरोवेष्टनसहस्रनिवहाद् परिच्युतैः स्खलितैः कुसुमकेशररजोभिः पुष्पकिञ्जल्कधूलिभिः प्रोत्साह्यमानः प्रसर्तुं प्रकृष्टसुयोगं नीयमान इव, तेषामपि प्रसारणेन पश्चात्प्रसारितत्वादित्याशयः ।

इह 'मुद्रयन्निव' इत्यारभ्य 'प्रोत्साह्यमान इव' इत्यन्तं यावत् क्रियोत्प्रेक्षाऽलङ्कारः । 'अभ्यर्थ्यमान इव, तुरगमुखे'त्यादौ तु निरङ्गरूपकसङ्कीर्णा क्रियोत्प्रेक्षेति बोध्यम् ।

उत्पातेति । उत्पातराहुः अकालोत्पातः जनानामशुभपातद्योतकः सैंहिकेय इव, अकाण्डे एव अकाल एव दिवसकरमण्डलं सूर्य्यबिम्बं पिबन् आच्छादयन् प्रसभम् । इह पूर्णोपमा ।

नृपेति । नृपाणां राज्ञां प्रस्थाने प्रयाणसमये ये मङ्गलप्रतिसराः माङ्गलिककरसूत्राणि त एव वलयानि कटकाः तेषां मालिकासु पङ्क्तिषु, गोरोचनाचूर्णायमानः गोरोचनाधूलिवद् व्यवहरन् सर्व्वतो-ऽभ्यर्च्यमान इत्यर्थः ।

इह 'गोरोचनाचूर्णायमान इव' इत्यत्र व्यङ्ग्योपमा ।

क्रकचेति-क्रकचेन करपत्रेण कृतः छेदनसमये विहितो यः चन्दनक्षोदः मलयजवृक्षचूर्णः तद्वत् धूसरः, रेणुः भूमिरजः । अन्वयस्तूक्त एव । लुप्तोपमा ।

अपरिमाणेति । अपि च अपरिमाणम् अगणितं यद् बलं सैन्यं तस्य सङ्घट्टेन पदसम्मर्द्देन समुपचीयमानो वर्द्धमानः, अत एव अशेषं समग्रं विश्वं संसारं शनैः शनैः मन्दं मन्दम्, संहरन्निव व्यापनेन सङ्कोचयन्निव, अकाले असमये यत् कालं श्यामवर्णं मेघपटलं सम्रवृन्दं तद्वत् मेदुरो निबिडः, स रेणुरिति शेषः, विस्तारं विशालम् उपगन्तुं प्राप्तुम् आरेभे प्रारम्भं चकार ।

इह 'संहरन्निव' इत्यत्र क्रियोत्प्रेक्षा, 'अकालकालमेघपटलमेदुर' इत्यत्र लुप्तोपमा, अनयोश्चाङ्गाङ्गिभावप्रसरः ।

तेनेति । अपि चेति शेषः । तेन रजसा 'रिपुबलमगलध्वज' इति सम्बन्धः । अग्रेतनस्य 'रजसा' इत्यस्य तृतीयेकवचनान्तानि पदानि विशेषणानि योज्यानि । उपचीयमाना वर्द्धमाना बहुला विपुला मूर्त्तिः शरीरं यस्य तेन तादृशेन । अत एव दिग्विजयस्य दिगात्मसात्करणस्य मङ्गलध्वजेन माङ्गलिकपताकादण्डस्वरूपेण, तद्बुद्ध्योत्थानादित्याशयः । रिपुक्लान्त्येव शत्रुगोत्राण्येव कमलानि पङ्कजानि तेषां प्रलये

आलिङ्गन करता था और राजाओंके हजारों मुकुटों में से गिरी फूलों की रज देखकर मानो उसे उठने के लिए उत्साहित करती थी; अशुभसूचक राहु के समान असमय में ही सूर्यमण्डल को ग्रास करती थी; वह राजाओं के यात्रा करने के समय हाथ में बाँधे गए मङ्गलसूत्रों और हारों पर गोरोचन के चूरे के समान दीखती थी और वह आरी से काटे गए चन्दन के वृक्ष में से नीचे गिरे हुए (बुरादे) के समान धूसरवर्ण होकर उड़ने लगी। अकालोद्गत कृष्णवर्ण मेघसमूह के समान घनीभूत हो वह असंख्य सेनाओं के पद-संघर्ष से वृद्धि पाकर धीरे-धीरे समग्र भूमण्डल को ही मानो संहार करती हुई क्रम से फैलने लगी।

इस प्रकार उस धूल का समूह जो क्रमशः बढ़कर बहुत विशाल हो गया था, वह दिग्विजय माङ्गलिक


१. ०विधुतेन। २. प्रक्षाल्यमानः, प्रोत्साह्यमानः । ३. ०सङ्घट्टवलद् । ४. ०प्रतिसरमालिकासु ।

दिग्विजय यात्रा, अच्छोद सरोवर व महाश्वेता दर्शन

३५४कादम्बरी-[ कथामुखम्-

नीहारेण, राजलक्ष्मी-विलास-पटवासचूर्णेन, अहितातपत्र पुंडरीक-पंड-तुषारेण, सेनाभरे-पीडित-महीतलं-मूर्च्छान्धकारेण, चलद्धूलं-जलद-काल-कदम्ब कुसुमोद्गमेन, दिवसकर-कर-कमल वनोद्दलने-द्विपयूथेन, गगन-महीतल-प्लावन-प्रलय-पयोधिपूरेण, त्रिभुवन-लक्ष्मी-शिरोऽवगुंठन-पटेन, महावराह-केशर-निकर-कर्बुरेण, प्रलयानल-धूम-राजि-मांसेलेन, पातालतलादिवोत्तिष्ठता, चरणेभ्य इव निर्गच्छता, लोचनेभ्य इव निष्पतता, दिग्भ्य इवागच्छता,

विनाशो नीहारेण हिमस्वरूपेण, हिमपातेन पङ्कजानामिव तद्रजःपातेन शत्रूगोत्राणां विनाशद्योतनादित्याशयः । राजलक्ष्म्या नृपश्रिया विलासस्य वेशविन्यासस्य पटवासचूर्णं पिष्टातकरजः फगुरिति तात्पर्यम्, तेन तादृशेन । वीरभोग्या हि राज्यश्रीर्वीरमारोप्यितेनैव रजसारमानं भूषयनीत्याशयः । अहितानां वैरिणां सातपत्राणि छत्ररायेव पुण्डरीकाणि सिताम्भोजानि तेषां षण्डस्य समूहस्य तुषारस्तुहिनं तेन तादृशेन । सेनायाः सैन्यस्य भरेण भारेण पीडितस्य व्यथितस्य महीतलस्य मूर्च्छा मोहः तस्या अन्धकारः तमः तेन तादृशेन । चलद् गच्छद् बलं सैन्यमेव जलदकालः वर्षासमयः तस्य कदम्बकुसुमोद्गमेन नीपपुष्पोद्गमेन विषमत्वात् । दिवसकरस्य रवेः करा रश्मय एव कमलवनानि नलिनखण्डानि तेषाम् उद्दलने विनाशने द्विपयूथः हस्तिगणः तेन तादृशेन । हस्तिसमूहो यथा पङ्कजवनानि विनाशयति तथाऽसौ धूलिगणेऽपि रविरश्मीन् अलक्ष्यतानयनेन विनाशयति स्मेत्याशयः । गगनमेव आकाशमेव महीतलं तस्य प्लावने जलद्वारा तिरोधापने प्रलयपयोधिपूरः कल्पान्तसमुद्रप्लवः तेन तादृशेन । त्रिभुवनलक्ष्म्याः त्रैलोक्यश्रियः शिरोऽवगुण्ठनपटः उत्तमाङ्गावरणवसनं तेन तादृशेन ।

इह 'दिग्विजयमङ्गलध्वजेन' इत्यत्र निरङ्गं केवलरूपकमलङ्कारः । 'रिपुकुलकमलप्रलयनीहारेण' इत्यत्र परम्परितरूपकमलङ्कारः । 'राजलक्ष्मीविलासपटवासचूर्णेन' इत्यत्रैकदेशविवर्त्तिरूपकं निरङ्गरूपकं वालङ्कारः । 'अहितातपत्रपुण्डरीकषण्डतुषारेण' इत्यत्र परम्परितरूपकम् । 'सेनाभरे' त्यादौ निरङ्ककेवलरूपकम् । 'चलद्धूल०' दिवसकरकर० 'गगनमहीतलो' इत्येतेषु हि परम्परितरूपकमलङ्कारः । 'त्रिभुवनक्ष्म्या' इत्यादिौ च निरङ्गं रूपकम्, एकदेशविवर्त्तिरूपकं वाऽलङ्कार इत्यवधेयम् ।

महावराहेति । महावराहो नारायणस्य तृतीयावतारः तस्य केशरनिकरवत् सटासमूहवत् कर्बुरेण विचित्रवर्णेन । प्रलयानलः कल्पान्तवह्निः तस्य धूमराजिवत् दहनकेतनपङ्क्तिवत् मांसेलेन परिपुष्टेन । उभयत्र लुप्तोपमा ।

पातालेति । पातालतलात् अधोभुवनात् उत्तिष्ठतेव उत्थानं कुर्वतेव मूलादर्शनात्, सैन्यानां चरणेभ्यः पादेभ्यो निर्गच्छतेव निःसरतेव प्रत्येकपादुलग्नत्वात्, सैनिकानां लोचनेभ्यो नयनेभ्यो निष्पततेव तत्रापि संसक्तत्वात्, दिग्भ्यः हरिद्भ्य आगच्छतेव आयातेनेव तासु समस्तास्वेव दर्शनात्, नभस्तलाद् व्योमतलात् पततेव पतनं विदधतेव तत्र दृष्टिपथं यावदवलोकनात्, पवनात् समीरात् उल्लसता प्रादुर्भवेतेव सर्वपवनसञ्चरणात्, तथा रविकिरणेभ्यः सूर्यरश्मिभ्यः सम्भवतेव प्रादुर्भवतेव तत्रापि सर्वत्र दर्शनात् ।

इह 'उत्तिष्ठतेव' इत्यारभ्य 'सम्भवतेव' इत्यन्तं यावत् सर्वत्र क्रियाप्रेक्षालङ्कारः । अत एव च सर्वतो विस्तारित्वं व्यज्यत इत्यलङ्कारेण वस्तुध्वनिः ।


ध्वजस्वरूप था, शत्रुकुलरूपी कमल-वनका नाश करनेके लिए तुषार (पाला) था, राजलक्ष्मीके वेशविन्यासका पटवास चूर्ण (अबौर) था, शत्रुओंके छत्ररूपी श्वेतकमलका तुहिन (पाला) था, सेनाओंके पदभारसे परिपीडित हुई पृथिवीकी मूर्च्छाका अन्धकार था, चलती हुई सेनारूप वर्षाकालमें हुआ कदम्बकुसुमोद्गम था, सूर्यरश्मिरूपी कमल-वनको नष्ट करनेवाला हस्तिसमूह था, आकाश और महीतलके मध्य-भूमिको डुबानेवाला प्रलयकालीन समुद्रका प्रवाह था, त्रिभुवन-लक्ष्मीके मस्तकको ढंकनेवाला वस्त्र-स्वरूप था, आदिवराहके केसरसमूहके समान विचित्रवर्ण था और प्रलयाग्निके धूमसमूहके समान परिपुष्ट (स्थूल) था। और वह मानो पातालमेंसे उठता था, सैनिकोंके चरणोंमेंसे निकलता था, उनके नेत्रोंमेंसे बाहर जाता था, दिशाओंमेंसे आता था, आकाशमेंसे गिरता था, वायुमेंसे उड़ता था एवं सूर्यके किरणोंमेंसे उत्पन्न होता था। एवं वह धूलका समूह सब लोगोंका ही निद्रास्वरूप


१०००षण्डतुषारेण । २. सैन्यभर००० । ३. चलद्बहलदल००० । ४. दिवसकरकमल, दिवसकरकिरणकमल ।

चन्द्रापीडदिग्विजयप्रस्थान० २८] चन्द्रकला-विद्योतिनीसहिता ३५५

नभस्तलादिव पतता, पवनादिवोल्लसता, रविकिरणेभ्य इव सम्भवता, अनपहृतचेतनेन¹ निद्रागमेन, अनवगणितसूर्येण² अन्धकारेण, अघर्मकालोपस्थितेन भूमिगृहेण, अनुद्गिता-रागगनिवहेन बहलनिशाप्रदोषेण, अपतित-सलिलेन जलधरसमयेन, अभ्रान्तभुजङ्गेन रसातलेन, हरिचरणेनेव संवर्द्धमानेन त्रिभुवनमलङ्घयत रजसा। विकचकुवलयवनमिव नवोदकेन गगनतलमवष्टभ्यमानमलक्ष्यत क्षीरोदफेन-

अनपहृतेति । अनपहृता न विलोपिता चेतना चैतन्यं येन तेन तादृशेन, निद्रागमेन प्रमीलासमा-गमनस्वरूपेण । निद्रा चेतनामपहरति, किन्तु इदं रजश्चेतनां न हरतीति ततो वैशिष्टयमित्याशयः । न अवगणितः अस्तगमनादवबुद्धः सूर्यो रविर्येन तेन तादृशेन, अन्धकारेण तमोरूपेण । अन्धकारेण हि सर्व-पदार्थावरणं क्रियते, सूर्यसत्त्वे तु नायं तथेति भवति ततो वैशिष्टयमित्याशयः । अघर्मकाले ग्रीष्मसमये उपस्थितेन विद्यमानेन भूमिगृहेण भूगर्भान्तर्वर्तिभवनस्वरूपेण । ग्रीष्मसमये हि जनैः सूर्यरश्मिसन्ताप-निवारणाय भूगर्भभवनमवलम्ब्यते । भूगर्भग्रहेण रविकिरणनिवारणं भवति, ग्रीष्मकाले च स्थितिर्भवति अस्य त्वग्रीष्मकाल इति भवति ततो वैशिष्टयमित्याशयः । न उदितः उदयं न प्राप्तः तारागणानां नक्षत्र-गणानां निवहः समूहो यत्र तेन तादृशेन, बहलनिशाप्रदोषेण कृष्णपक्षरात्रिमूखस्वरूपेण । बहलनिशा-प्रदोषे हि तारागणानामुदयः अत्र तु न तथेति वैशिष्टयम् । यद्यपि 'तारागणनिवहे' इत्यत्र गणनिवहेति पर्याययोर्मध्येऽन्यतरस्यैव प्रयोगेनार्थलाभः सिद्ध्यति तथापि अतिप्राचुर्यसूचनाय तद्वयोपादानमित्य-वधेयम् । न.पतितं च्युतं सलिलं प्रावृड्जलं यत्र तेन तादृशेन, जलधरसमयेन प्रावृट्कालेन । वर्षाकाले सूर्यावरणपूर्वकं वृष्टिमर्भवति अत्र तु वृष्टिर्बलाभाव इति ततो वैशिष्टयम् । न भ्रान्ता विचरिता भुजङ्गाः सर्पा यत्र तेन तादृशेन, रसातलेन ·पातालस्वरूपेण । पाताले हि गाढान्धकारप्रादुर्भावात् सर्पविचरणा-भावः, इह तु गाढान्धकारप्रादुर्भावेऽपि सर्पविचरणं मवत्येवेति भवति ततो वैशिष्टयम् ।

इह 'अनपहृतचेतनेन निद्रागमेन' इत्यारभ्य 'अभ्रान्तभुजङ्गेन रसातलेन' इत्यन्तं यावत् सर्व-त्राधिकानेदरूपकम् । प्राचां मते-अधिकाहढवैशिष्टयरूपकम् । प्राचीनतराणां (वामनादीनां) मते तु-एकगुणहानिरूपणायां समस्तगुणदाढर्यं विशेषोक्तिरिति सुधीभिर्विचार्यणीयम् ।

संवर्धमानेन वृद्धि प्राप्नुवता हरिचरणेनेव वामनपादेनेव, यथा नारायणचरणो बलिविनाशाय यथाक्रमं वृद्धिं प्राप्तस्तथाऽयमपीत्याशयः । एतादृशेन रजसा धूत्या त्रिभुवनं त्रैलोक्यम् अलङ्घयत व्याप्यत ।

इह पूर्णोपमा, त्रिभुवनलङ्घनसम्वन्धाभावेऽपि तत्सम्वन्धप्रतिपादनादतिशयोक्तिः। उभयोश्चैकाङ्ग्या-नुप्रवेशसङ्करः ।

विकचेति । क्षीरोदस्य क्षीरसमुद्रस्य फेनः अब्धिकफः तद्वत् पाण्डुना श्वेनेन, नवोदकेन नूतनवृष्टि-सलिलेन, विकचं विकसितं यत् कुवलयवनं नीलोत्पलवनं तदिव, क्षीरोदफेनपाण्डुना क्षितिरोदेन भूरजसा, गगनतलम् आकाशतलम् अवष्टभ्यमानम् आश्रीियमाणं व्याप्यमानम् , अलक्ष्यत अदृश्यत जनै-रिति शेषः ।

इह 'विकचकुवलयवनमिव' इत्यत्र श्रौतीपमा । 'क्षीरोदफेनपाण्डुना' इत्यत्र च लुप्तोपमा । अनयोश्च मिथः सङ्करः ।


होकर था, किन्तु किसीकी भी चेतनाका हरण करनेवाला नहीं था; अन्धकारस्वरूप प्रादुर्भूत होकर था, किन्तु सूर्यास्तके बाद प्रादुर्भूत नहीं होता था; पृथिवीके अभ्यन्तरस्थित गृहस्वरूप (मैखाना) होकर था, किन्तु ग्रीष्मकालमें उपस्थित नहीं होता था; कृष्णपक्षके प्रदोषकालस्वरूप देखनेमें आता था, किन्तु उसमें तारे उदित नहीं हुए थे; वर्षा-कालस्वरूप होकर था, किन्तु वृष्टिने रहिन था; पातालस्वरूप प्रतीत होना था, किन्तु फिरते हुए सर्पोंसे रहित था; इस प्रकार वह वामनदेवके चरणोंके समान वृद्धि प्राप्त कर तीनों भुवनोंमें भर गया था।

नवीन दृष्टिके जलसे जिस प्रकार प्रफुल्लित कुवलयवन देखनेमें आता है, उसी प्रकार क्षीरसागरके फेनके समान शुभ्रवर्ण पृथिवीके धूलिसमूहसे आकाशतल आच्छन्न (घिरा) है इस प्रकार लोग देखने लगे। उस धूलि समूहसे धूसर हुआ सूर्यविम्ब हाथीके कानमें पहने चमरके समान प्रभाशून्य (फीका) हो गया। भूमण्डलके


१. अनपहृतचेतनेनानवगणितसूर्येण ।
२. पतितसलिलेन ।
३. ऽऽऽमुल्लनेन ।

३५६ | कादम्बरी- | [ कथायाम्-

पाण्डुतां क्षितिक्षोदेन। बहुलरजोधूसरितमशिशिरकिरणबिम्बमवचूलचामरमिव निष्प्रभमभवत्। दुकूलपटे धवला कदलिकेव कलुषतानाजगाम गगनापगा। नरपाल-बलभरमतिगुरुमसहमाना पुनरिव भारावतारणार्थममरलोकमरुराह रजोमिषेणं मही। निःशेषनिपीतातपम्, अन्तर्दह्यमानमिव जलधिजलेषु धूसरित-रवि-रथ-ध्वज-पटमपतदवनिरजः। मुहूर्तेन च गर्भवासमिव, संहारसागरजलमिव, कृतान्तजठरमिव, महाकालमुखमिव, नारायणोदरमिव ब्रह्माण्डमिव विवेश पृथिवी। मृन्मय इव बभूव दिवसः, पुस्तमय्य इव चकाशिरे ककुभः, रेणुरूपेणेव परिणतमम्बरतलम्, एकमहाभूतमयमिव त्रैलोक्यमासीत्।

बहुलेति । बहुलैः सातिशयैः रजोभिः पांसुभिः धूसरितं धूम्रवर्णीकृतम्, अशिशिरकिरणबिम्बं रविमण्डलम्, अवचूलचामरमिव पताकाग्रलम्बितवसनबद्धं बालव्यजनमिव । उपमा ।

दुकूलेति । दुकूलं पटः सूक्ष्मवस्त्रं तद्वत् धवला शुक्ला, गगनापगा वियन्नदी मन्दाकिनी, कदलिका रम्भापताकेव, कलुषताम् आविलताम् आजगाम प्राप्तवती, तद्रेणुसंपातादित्याशयः ।

इह 'दुकूलपटधवला' इत्यत्र लुप्तोपमा, 'कदलिकेव' इत्यत्र च श्रौतोपमा । आभ्यां च मन्दाकिन्याः कालुष्यप्राप्तिसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिरलङ्कारः सङ्कीर्यते ।

नरपालेति । अतिगुरु नितान्तविस्तृतं नरपालबलभरं राजसैन्यभारम् असहमाना वोढुमसमर्था मही वसुन्धरा, भारावतारणार्थं रजोमिषेण रेणुव्याजेन, पुनर्मूयः अमरलोकं स्वर्गम् आरोहेव अवरोहणं चकारेत्र । दशाननकंसप्रभृतिभारावतारणाय प्रथमारोहणवदित्याशयः । सापह्नवा क्रियोत्प्रेक्षा ।

निःशेषेति । धूसरितो धूम्रवर्णीकृतः रविरथस्य सूर्यस्यन्दनस्य ध्वजपटः पताका येन तत्तादृशम्, तथा निःशेषेण साकल्येन निपीतो ग्रस्त आतपः रविप्रकाशो येन तत्तादृशम्, अत एव आतपग्रसनाद् अन्तरभ्यन्तरे दह्यमानमिव सन्तप्यमानमिव सत्, अवनिरजः भूरेणुः, जलधिजलेषु, समुद्रसलिलेषु अपतत् पपात, दह्यमानस्य शीतोपचारस्य शान्तिदायित्वादित्याशयः ।

इह अतिशयोक्ति-पदार्थहेतुककाव्यलिङ्ग-क्रियोत्प्रेक्षाणां परस्परमङ्गाङ्गिभावसङ्करः ।

मुहूर्तेनेति । किञ्चेति चार्थः । पृथवा मही मुहूर्तेन क्षणेनैवं गर्भवासं जनन्या गर्भाशयं विवेशेव सर्वत्र प्रविष्टवतीव । एवमग्रेऽपि सम्बन्धः । तद्बह्वन्धकारित्वादित्याशयः । संहारे प्रलयकाले यः सागरः समुद्रः तस्य जलं सलिलमिव, कृतान्तजठरमिव यमोदरमिव, महाकालमुखमिव अखण्डदण्डायमानमहाकालवदनमिव, नारायणोदरमिव श्रीविष्णोर्जठरमिव, ब्रह्माण्डं ब्रह्मकोपं विवेशेव । सर्वत्र क्रियोत्प्रेक्षा ।

मृन्मय इति । दिवसो वासरो मृन्मयो मृत्तिकाविकार इव बभूव जातः, ककुभो दिशः पुस्तमय्यो रजोलेपविकारा इव मायः चकाशिरे शुशुभिरे ।

'मृदा वा दारुणा वाथ वस्त्रेणाप्यथ चर्मणा ।
लोहरत्नः कृतं चापि पुस्तमित्यभिधीयते ॥'

इति रामाश्रमी टीका । अम्बरतलं गगनतलं कर्तृ, रेणुरूपेण धूलिस्वरूपेण परिणतमिव तन्मयतां गतमिव । तथा त्रैलोक्यं त्रिभुवनं कर्तृ, एकमहाभूतलयमिव केवलभूतमयमिव आसीत्, अन्येषाम् अगगनादीनां रेणुभिराच्छादितत्वादित्याशयः ।


समान शुभ्रवर्ण मन्दाकिनीका जल, उस सैन्यदलकी पताकाके समान धूलिसमूहसे मलिन हो गया। राजवंशोंकी सेनाका गुरुतर भार सहन करनेमें असमर्थ होकर पृथिवी मानो उस भारको उतारनेके लिए इस धूलिके बहाने फिरसे स्वर्गमें चढ़ी। सूर्यरथकी पताकाको धूसर-वर्ण (मटमैला) करके सूर्यके समस्त किरणोंका पान करनेसे भीतर मानो जलता हो, ऐसा वह धूलिसमूह समुद्रके जलमें जाकर पड़ा। एवं एक क्षणकालमध्यमें ही पृथिवी मानो माताके गर्भमें, प्रलयकालीन समुद्रके जलमें, मृत्युके उदरमें, महाकालके मुखमें, नारायणके उदरमें एवं ब्रह्मकोपके अन्दरमें घुस गई। एवं सब दिन मानो मृत्तिकामय हो गया। दिशाएँ ऐसी दीप्ति पाने लगीं मानो उन पर कुछ लिप्त कर दिया गया हो। आकाशने मानो धूल रूप ही धारण कर लिया और सब त्रिभुवनमें मानो एक ही महाभूत व्याप्त हो गया।


१. क्षीरोदपाण्डुना क्षणाव क्षीरोदपाण्डुता ।
२. दुकूलपट्ट...।
३. ...मरणसहमना ।
४. रजोनिभेन ।
५. ...पीतातपम् ।
६. प्रस्तमय्य इव ।
७. दिशः ।
८. अम्बरम् ।
९. महाभूतमिव ।

चन्द्रापीडदिग्विजयप्रस्थान० ३८ ] चन्द्रकला-विद्योतिनीसहिता । ३५७

अथ निजमदोष्मसन्तप्तानां दन्तिनां दिशि दिशि करविवरविनिःसृतैः क्षरद्भिः क्षीरोद-ओद-धवलैः शीकरासारैः कर्णपल्लव-प्रहति-विस्तृतेनं च विसर्पता दानजलविन्दुदुर्दिनेन, हेपारवविप्रकीर्णैश्च वाजिनां लालाजल-लवजालकैरुपशमिते रजसि, पुनरपि जातालोकासु दिक्षु, सागरसलिलादिवोन्मग्नमालोक्य तदपरिमाणं बलमुपजातविस्मयः सर्वतो दत्तदृष्टिर्वै-शम्पायनश्चन्द्रापीडमभाषत-

'युवराज ! किं न जितं देवेन महाराजाधिराजेन तारापीडेन यज्जेष्यसि; का दिशो न वशीकृताः या वशीकरिष्यसि; कानि दुर्गाणि न प्रसाधितानि यानि प्रसाधयिष्य-सि; कानि द्वीपान्तराणि नात्मीकृतानि यान्यात्मीकरिष्यसि; कानि रत्नानि नोपार्जितानि

इह 'मृन्मय इव' 'पुस्तमय इव' 'एकमहाभूतमयमिव' एषु हि गुणोत्रेक्षालङ्कारः । 'अम्बरतल रेणुरूपेण परिणतमिव' इत्यत्र तु क्रियोत्प्रेक्षालङ्कारः ।

अथेति । निजमदोष्मणा स्वीयतेजस्तापेन सन्तप्तानां प्रज्वलितानां दन्तिनां गजानाम् , दिशि दिशि प्रतिदिशं करविवरविनिःसृतैः शुण्डादण्डच्छिद्रयहाद्बहिरागतैः, चरद्भिर्गलद्भिः, क्षीरोदवोद्धवलैः क्षीरसमुद्र-सलिलकणवत् शुभ्रैः शीकरासारैः अम्बुकणवृष्टिभिः, तथा कर्णपल्लवाभ्यां विस्तृतश्रवणाभ्यां प्रहत्या ताडनेन विसृते विशालं तेन तादृशेन, विसर्पता प्रसरता, दानजलविन्दूनां मदवारिवृषनां दुर्दिनेन मेघ-जनिततमसा, तथा हेपारवैः हेषाशब्दैः विप्रकीर्णानि विक्षिप्तानि तैः तादृशैः वाजिनां घोटकानां ये लाला जललवाः वदननिःसृतसलिलविन्दवः तेषां जालकैः समूहैश्च, रजसि तस्मिन् रेणुपुञ्जे उपशमिते निवारिते सति, तथा दिक्षु आशासु पुनरपि भूयोऽपि जात उत्पन्न आलोकः प्रकाशो यासु तासु सतीषु, तत् अपरि-माणम् अगणितं वलं सैन्यम् , सागरसलिलात् समुद्रजलात् उन्मग्नम् उत्थितमिव आलोक्य निरीक्ष्य उपजातविस्मयः समुत्पन्नाश्चर्यो वैशम्पायनः, सर्वतः समन्तात् दत्तदृष्टिः प्रेरितदृष्टिः सन् चन्द्रापीडम् आचभाषे अभिदधौ इति सम्बन्धः ।

इह 'रजसि उपशमिते' इत्यत्र तैस्तथाविधरजसामुपशमनसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादना-दतिशयोक्तिः । 'उन्मग्नमिव' इत्यत्र च क्रियोत्प्रेक्षा ।

युवेति । हे युवराज ! देवेन पूज्येन महाराजाधिराजेन नृपेन्द्रेण तारापीडेन किं न जितं वशीकृतं ? सर्वमेव जितमित्यर्थः, यत् जेप्यसि वशीकरिष्यसि त्वमिति शेषः । का दिशः ककुभो न वशीकृता नारम-सात्कृताः यास्त्वं वशीकरिष्यसि। स्वायत्तीकरिष्यसि । कानि दुर्गाणि परिखादीनि न प्रसाधितानि जयसाध-नेन स्वाधीनीकृतानि यानि स्वं प्रसाधयिष्यसि । जयसाधनेन स्वाधीनीकरिष्यसि । तया कानि द्वीपान्त-राणि नात्मीकृतानि जयेनाङ्गीकृतानि स्वत्वास्पदीकृतानीत्यर्थः 'सप्त वित्तागमा धर्मा दायो लाभः क्रयो-जयः' इत्यादि मनुवचनादिति भावः । कानि अनिदिष्टनामधेयानि रत्नानि मणयो नोपार्जितानि नोपार्जना-विषयीकृतानि यानि त्वम् उपार्जयिष्यसि उपार्जनां विधास्यसि ।

तदनन्तर अपने मदके उत्ताप ( गरमी ) से संतप्त हुए हाथियोंके सूँड़के छेदोंमेंसे क्षीरसागरके जलबिन्दुके समान शुभ्रवर्ण जलबिन्दुसमूह निकल कर सब दिशाओंमें गिरने लगा, विशाल कर्णयुगलके टकरानेसे गलकर बहने मद-जलकी बूँदोंकी वर्षा सब दिशाओंमें होने लगी और घोटोंकी हिनहिनाहटसे टपकती लारकी बूँदें निकलने लगीं उससे उस धूलिराशिके दब जानेपर दिशाएँ फिर दीखने लगीं और समुद्र-जलमें से उठकर मानों बाहर आई हो ऐसी उस अगनित सेनाओंको देख; विस्मयसे सब दिशाओंमें दृष्टिपात कर; वैशम्पायन, चन्द्रापीडसे कहने लगाः-

'युवराज ! महाराजाधिराज तारापीडने क्या नहीं जीता है जिसे तुम जीतोगे ?, किन दिशाओंको इन्होंने अधिकारमें नहीं किया जिन्हें तुम अधिकारमें करोगे ? कौन से दुर्ग ( किले ) नहीं लिये जिन्हें तुम लोगे ? कौन-कौनसे द्वीप अपने अधीन नहीं किये जिन्हें तुम अपने अधीन करोगे ? कौन-कौनसे रत्न उपार्जन ( इकट्ठे ) नहीं किये जिन्हें तुम उपार्जन ( इकट्ठे ) करोगे; एवं [ उनके प्रतापसे ] कौन-कौनसे राजा उनके समक्ष अवनत ( नम्र )


१. क्वचित् दन्तिनामिति पाठो न विद्यते । २. ०० निःसृतैः । ३. क्षीरोदधवलैः । ४. ०००विहतेन । ५. पुनरुपजातालोकासु । ६. सागरादिव । ७. किमजितं किं किमजितम् ।

३५८ -कादम्बरी- [कथामुखम्-

द्यान्युपार्जयिष्यसि; के वा न प्रणता राजानः, कैर्न विरचितः शिरसि बाल-कमलकुड्मल- कोमलः सेवाञ्जलिः कैर्न^१ मसृणीकृताः प्रतिबद्धहेमपट्टैर्ललाटैः सभागुवः, कैर्न घृष्टाः पाद- पीठे चूडामणयः, कैर्न प्रतिपन्ना वेत्रयष्टयः^२ कैर्नोद्धूतानि^३ चामराणि, कैर्नोच्चारिता जयशब्दाः, केषां न पीताः किरीटपत्रमकरैः सलिलधारा इव निर्मलास्तच्चरण^४-नख-मयूख-राजयः । एते हि^५ चतुरुदधइजलावगाहदुर्ललित-बल^६-मदावलिप्ता दशरथ-भगीरथ-भरत-दिलीपालर्क-मान्धा- तृप्रतिमाः कुलाभिमानशालिनः सोमपायिनो मूर्द्धाभिषिक्ताः पृथिव्यां सर्वपार्थिवा रक्षामूति-

क्व इति । अथवा के राजानो नृपा न प्रणताः नमस्कृतवन्तः-देवस्तारापीडप्रतापादित्याह । अपि तु सर्व एव नमस्कृतवन्त इत्यर्थः । कैः राजभिः शिरसि मस्तके बालम् अभिनवं यत्-कमलकुड्मलं पङ्कजमुकुलं तद्वत् कोमलः मृदुलः, सेवा उपासना तत्सूचकोऽञ्जलिः पाणियोजनं न विरचितः विहितः, अपि तु सर्वैरेव विरचित इत्यर्थः । तथा कैः राजभिः प्रतिवद्धो भूषणाय योजितो हेमपट्टः कनकपट्टकं येषु तयोक्तैः-ललाटैर्मालैः सभागुवः परिषत्स्थलानि, न मसृणीकृताः न श्लक्ष्णीकृताः, अपि तु सर्वैरेव मसृणीकृता इत्यर्थः, द्वयमुत्तरत्रापि ज्ञेयम् । कैः राजभिः पादपीठे पादासने चूडामणयः शिरोरत्नानि न घृष्टानि घर्षणं प्रापिताः । कैः राजभिः वेत्रयष्टयः वेतसदण्डा न प्रतिपन्नाः प्रतिहारिभावेन गृहीताः । कैः चामराणि बालव्यजनानि नोद्धूतानि नान्दोलितानि । कैः जयशब्दा मङ्गलशब्दा नोच्चारिता नोदीरिताः । केषां भूपतीनां किरीटेषु मुकुटेषु यानि पत्राणि पर्णसदृशांशाः तानि मकराः स्वनामविख्याता जलजन्तुविशेषा इव तैः तादृशैः, सलिलधारा इव जलसम्पाता इव, निर्मलाः स्वच्छाः, तस्य तारापीडस्य चरणनखानां पादपुनर्भूणां मयूखराजयः रश्मिपङ्क्तयः, न पीताः प्रणामसमये न ग्रस्ताः, अपि तु सर्वेषामेवेत्यर्थः ।

इह 'के वा न प्रणता राजानः' इत्यारभ्य प्रतिवाक्ये अर्थापत्तिरलङ्कारः । 'किरीटपत्रमकरैः' इत्यत्र लुप्तोपमा, 'सलिलधारा इव' इत्यत्र श्रौतोपमा, 'केषां न पीताः' इत्यत्रार्थापत्तिश्चेति परस्परमेषामङ्गाङ्गिभावसङ्करः ।

महाराजतारापीडेन विजिता नृपतयस्त्वामपि प्रणिपतन्तीत्याह-एत इति । हि तथाहि । चत्वारः श्रुतुःसंख्याका ये उदधयः समुद्राः तेषां जलेषु सलिलेषु यः अवगाहः अन्यद्वीपविजयगमनायावतरणं तदेव दुर्ललितं दुष्कारिता येषां तेषां तादृशानां बलानां सैन्यानां मदेन गर्वेण अवलिप्ता गर्विताः । दशरथो रामपिता, भगीरथः सगरपौत्रः, भरत आर्यभिः, दिलीपो रघुपिता, अलर्को दानगर्वितः कश्चित् राजर्षिः, अस्येतिवृत्तम् अश्वमेधपर्वणि महाभारते प्रसिद्धम् ; मान्धाता युवनाश्वतनयः तत्प्रतिमाः तैः सदृशाः। कुलाभिमानशालिनो महाकुलप्रसूतत्वेन गर्वयुक्ताः । सोमपायिनः सोमयागं कृत्वा सोमरसपायिनो नियतयज्ञविधायिन इत्यर्थः । मूर्द्धसु शिरस्सु अभिषिक्ताः राज्यप्राप्तिसमये कृताभिषेकाः, पृथिव्यां भूतले सर्वपार्थिवाः समस्तराजानः, अभिषेकपयः अभिषेकीयसलिलं तस्य पातेन सम्पर्केण पूतैः पवित्रैः, चूडामणिपल्लवैः विस्तृतशिरोरत्नैः, रक्षामूर्तिमिव रक्षार्थं कषागीयमस्मेव, मङ्गल्यां, श्रेयस्करीम्, भवतः एव चरणयोः पादयोः रज संहति रेणुनिकरम् उद्वहन्ति प्रणामसमये धारयन्ति ।


नहीं हुए ? कौन-कौन राजाने अपने मस्तक पर अभिनव कमलके समान कोमल सेवाञ्जलि नहीं बनाई ? कनककिरीटधारी अपने-अपने ललाटसे (प्रणाम कर-करके) किसने सभामण्डपकी भूमिको चिकना नहीं किया ? किसने नमस्कार करनेके समय महाराज तारापीडके पादपीठ (चरणासन) पर अपनी चूडामणि नहीं रगड़ी ? किसने [प्रतिहारोंके समान] छड़ियां नहीं पकड़ीं ? किसने चंवर नहीं डुलाया ? किसने जयशब्द उच्चारण नहीं किया ? एवं मकर जिस प्रकार समुद्र-जलधारा पान करता है, उसी प्रकार किसने मुकुटके स्वर्णविनिर्मित मकराकार चिह्नसे, महाराज तारापीडके निर्मल चरणनखरश्मियोंकी राशिका पान नहीं किया ? । जो सैन्यगण अन्यान्द्व दीपकी जय करनेके लिये चारों समुद्रोंके जलमें स्नानकर अत्यन्त साहसिकता प्रकट किये हैं उन सेनाओंके गर्वसे मदमत्त हुए एवं दशरथ, भगीरथ, भरत, दिलीप, अलर्क और मान्धाताके तुल्य गुणवान्, कुलगौरवसम्पन्न, सोमरस पीनेवाले राज्यमें अभिषिक्त पृथिवीके ये सब अधिपति, अभिषेक जलके संस्पर्शसे पवित्र अपने-अपने चूडामणि द्वारा, यज्ञीय रक्षा भस्मके समान मङ्गलकारक तुम्हारे चरणधूलिसमूहको वहन करते (रखते)


१. केन ।
२. वेत्रलताः ।
३. उद्धूतानि ।
४. तच्चरण०००।
५. एते हि ते ।
६. दुर्ललितमद ।

चन्द्रापीडदिग्विजयप्रस्तानव० ३८] चन्द्रकला-विद्योतिनीसहिता । ३५६

विधाभिषेक-पयः-पात-पूतेश्चूडामणिपल्लवैरूद्वहन्ति मङ्गल्यं¹ भवच्चरणरजःसंहतिम् । एभिरियम्रादिपर्वतैरिवार्परैर्धृता धरित्री, एतानि चाप्यमीयामप्लाचितदशदिगन्तरालानि सैन्यानि भवन्तमुपासते । तथाहि पश्य²-यस्यां यस्यां दिशि विक्षिप्यते चक्षुः, तस्यां तस्यां रसातल· मिवोद्भिरति, वसुधेव सूते, ककुभ इव वमन्ति, गगनमिव वर्षति, दिवस इव सृजति बलानि । अपरिमितबलभराक्रान्ता मन्ये स्मरति महाभारत-समर-संक्षोभस्ये अद्य क्षितिः । एष शिम्बरदेशेषु परिस्खलित-मण्डलो ध्वजान् गणयन्निव कुतूहलाद्द्मति कदलिकावनान्त-रेषु मयूखमाली । सर्वतश्च मदजलमुचां करिणामेलापरिमल-सुरभिणि वेणिकावाहिनि मद-

इह तेषां मूर्तीनां मुख्यप्रतिपादनकार्य प्रति अनेकनरहेतुनिदर्शनात् समुच्चयालङ्कारः, 'रत्न· मूर्तिमिव' इत्यत्र श्रौतोपमा च । तयोरङ्गाङ्गिभावसङ्करः ।

एभिरिति । अपरैः अप्राकृतिकैः आदिपर्वतैः महेन्द्रप्रभृतिभिः कुलपर्वतैरिव एभिः पूर्वोक्त्यावर्जित-स्वरूपैः भूपतिभिः, इयं धरित्री भूमिः धृता धारिता रक्षिता च । आप्लाविनानि व्याप्तानि दशानां दिशां अन्तरालानि अन्तरालानि मध्यप्रदेशा येस्तानि तादृशानि, एतानि अवलोक्यमानानि अमीषां नृपाणां बलानि च भवन्तं स्वाम् उपागते दिग्विजयसहायताविधानाय सहानुसरणेन सेवन्ते । एतदपि महाराज-तारापीडस्यैव प्रतापादित्याशयः । कुलपर्वतैरिवेत्यत्र जात्युत्प्रेक्षा ।

तदेवोपपादयति—तथाहिति । पश्य विलोकय यस्यां यस्यां दिशि आशायां चक्षुः विक्षिप्यते-प्रेर्यते तस्यां तस्यां दिशि रसातलं पातालं कर्तृ, बलानि सैन्यानि उद्गिरतीव, सीमानवलोकनादित्या-शयः । वसुधा पृथिवी बलानि सूते प्रसवतीव । ककुभ आशाः बलानि वमन्तीव उद्गिरन्तीव । गगनं कर्तृ, बलानि वर्षतीव वृष्टिं करोतीव । दिवसो वामरो बलानि सृजति उत्पादयतीव ।

इह 'उद्भिरतीव' सृजतीव' इत्यन्तं यावत् क्रियोत्प्रेक्षालङ्कारः ।

अपरिमितैति । अपरिमितम् असंख्यां यद् बलं सैन्यं तस्य भरेण भारेण आक्रान्ता व्याप्ता क्षितिः, अद्य अस्मिन्नहनि महाभारते एतन्नामके प्रसिद्धेतिहासग्रन्थे व्याख्यातो यः समरः कुरुपाण्डवसंग्रामः स महाभारतममरः शाकप्रियः पार्थिवः शाकपार्थिव इतिवत् मध्यमपदलोपिसमासः, तस्य संक्षोमः सम्मर्दः तस्य स्मरति स्मरणं करोति, इत्यहं मन्ये जाने, तत्सदृशनानाभिमूभत्वादित्याशयः । 'संक्षोभस्य' इत्यत्र कर्मणि षष्ठी ।

इह 'मन्ये' इत्युपादानात् 'मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादयः' इत्युक्तिदिशा वाच्या क्रियोत्प्रेक्षा ।

एष इति । शिम्बरदेशेषु वेतूनामेवोर्ध्वप्रदेशेषु परिस्खलितं प्रतिबिम्बितत्वान् पतितं मण्डलं बिम्बं यस्य स तादृशः, एष मयूखमाली दिनकरः, कुतूहलात् कौतुकात् गणयन्निव ध्वजानामेव गणनां विदध-दिव, कदलिकावनान्तरेषु पताकामूहमध्येपु ध्वजान् सुवर्णवेष्टितोर्ध्वप्रदेशान् केतून् वमति उद्गिरतीव । प्रनिध्वजस्योर्ध्वप्रदेशे सूर्यबिम्बस्य प्रतिबिम्बितत्वात् ते ध्वजाः सूर्येणोद्गममाना इव दीप्यन्ति इति स्पष्टार्थः । 'कदली हरिजानन्द्रे रम्भायां वैजयन्तयां च।' इति हैमः ।

इह 'गणयन्निव' इति वाच्या क्रियोत्प्रेक्षा, 'वमतीव' इत्यत्र प्रतीयमानोत्प्रेक्षा । उभयोरङ्गा-ङ्गिभावसङ्करः ।

सर्वत इति । अपि चेति चार्थः । सर्वतश्चतुर्दिक्षु, मदजलमुचां दानवारिस्त्राविणां करिणां हस्तिनाम्,

है । अपर कुलपर्वतके समान ये नरपति ही इस पृथिवीको रक्षा करते हैं एवं दसों दिशाओंमें फैली हुई इनकी यह सेना भी आज तुम्हारी सेवामें है। यह देखो—जिस दिशामें दृष्टिपात करते हैं उसमें ही ऐसा प्रतीत होता है कि मानो सेना पातालमेंसे निकली चली आती है, पृथिवीमेंसे मानो उत्पन्न होती है, दिशायें मानो उनको वगलती हैं, आकाशमेंसे मानो उनकी वर्षा होती है और दिवस मानो उन्हे उत्पन्न करता है।'

मुझे ऐसा प्रतीत होता है कि—आज पृथिवी, तुम्हारी ऐसा असंख्य सेनाके भारसे आक्रान्त होकर ( दब कर ) महाभारत वर्णित उस कुरुपाण्डवके युद्धसङ्घर्षके क्षोमका स्मरण करती है। ध्वजाओंके चौकियोंमें प्रतिबिम्बित हुआ यह सूर्य मानो कौतूहलवश उनको गिनता हो इस प्रकार पताकाओंके अभ्यन्तर में घूमता है। मदजल ढालते हाथियोंके-इलायचीके सुगन्धके समान सुगन्धित और महावेगसे बहते-मदजलसे सब दिशाओंमें


१. मङ्गल्यम्, मङ्गलप्रदम् । २. पश्य पश्य । ३. गगनमिवैव । ४. महाभारतमंक्षोभस्य, महाभारतोक्तसमरसंक्षोभस्य । ५. मचेतस्कररचितोर्ध्वदेशेषु । ६. स्खलित... ।

३६० कादम्बरी- [ कथायाम्-

वारिणि निरन्तरमग्ना^१ निपतिते^२ मधुकल-कलकलकलिता^३ कालिन्दी-जल-कल्लोल-कलि- तेव^४ भाति भूतधात्री । सैन्यभरसंक्षोभभयान्^५ सरित इव गगनतलम्^६ उत्पतन्त्य आच्छाद- यन्त्य^७ एता दिक्‌चक्रवालमिन्दुधवला ध्वज-पङ्क्तयः । सर्वथा चित्रम्, यन्नाद्यविघटित-सकल- कुल-शैल-सन्धि-बन्धाः^८ सहस्रशः शकलीभवते बलभरेण धरित्री, यद्वा बलभर-पीडित- वसुधा-धारण-विधुरा न चलन्ति^१० फणिनां पत्युः फणाभित्तयः । इत्येवं वदत एव तस्य युवराजः समुच्छ्रितानेकत्तोरणां तृणमय-प्राकार-मन्दिरसहस्र- सम्बाधाम्,^११ उल्लासित-धवल-पट-मण्डप-शोभिनीम्^१२ आवासभूमिमवाप । तस्याञ्चावतीर्य-

एलायाः चन्द्रशालायाः परिमलवत सुगन्धवत् सुरभिणि सुगन्धवति वेगिकावाहिनि धाराया सम्भारिणि दानवारिणि, निरन्तरमग्ना निरवकाशं क्लिन्नेत्यर्थः, तया निपतितस्य तद्दानवार्युपरि प्राप्तस्य मधुकर-कुलस्य भ्रमरगणस्य कलकलैः कोलाहलैः कलिता गहना दुष्प्रवेशा, भूतधात्री धारिणी, कालिन्दीजलस्य यमुनासलिलस्य कल्लोलैः बृहत्तरङ्गैः कलिता' व्याप्तेव सती भाति शोभते । हस्तिनां दानवारिधारायाः यमुनासलिलसदृशश्यामवर्णत्वादित्याशयः । 'कलिठं गहनं समे' इत्यमरः ।

इह 'एलापरिमलसुरभिणि' इत्यत्र लुप्तोपमा, मदजले निरवकाशमग्नत्वसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः, 'कलितेव' इत्यत्र क्रियोत्प्रेक्षा चेत्येतेषामङ्गाङ्गिभावसङ्करः ।

सैन्येति । सैन्यभरसंक्षोभभयात् बलभारजनितक्षुब्धतालक्षणत्रासात् गगनतलम् आकाशतलम् उत्पतिता उड्डीनाः सरितो नद्य एव एता इन्दुधवलाः शशिशुभ्राः ध्वजपङ्क्तयः केतुश्रेण्यः दिक्‌चक्रवालं दिङ्‌मण्डलम् आच्छादयन्ति आवृण्वन्ति ।

इह 'सरित इव' इत्यत्र जात्युत्प्रेक्षा, सा च 'इन्दुधवले' त्यत्र लुप्तोपमया सङ्कीर्यते ।

सर्वथेति । सर्वथा सर्वप्रकारेण चित्रं महदाश्चर्यम्, यदद्य धरित्री वसुन्धरा बलभरेण सैन्यभारेण विघटिता विश्लेषिताः सकलानां समस्तानां कुलशैलानां महेन्द्रप्रभृतिकुलपर्वतानां सन्धिबन्धाः संयोगबन्धनानि यस्याः सा तथोक्ता सती, सहस्रशः सहस्रधा न शकलीभवति न खण्डखण्डतां प्राप्नोति । एतच्छङ्कापाकरणाय पक्षान्तरमाह- यद्वेति । बलभरेण सैन्यभारेण पीडिताया वसुधायाः पृथिव्या धारणेन विधुरा विह्वलाः, फणिनां सर्पाणां पत्युः स्वामिनः शेषनागस्य फगाभित्तयः प्रसृतफणामण्डलानि न चलन्ति न स्खलन्ति, तदपि महदाश्चर्यमित्यर्थः ।

इह पूर्वत्र शकलीभवनसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनात्, उत्तरत्र सर्पराजस्य विस्तृतफणामण्डलानां कदाचिच्चलनेऽपि तदप्रतिपादनादतिशयोक्तिरलङ्कारः ।

इत्येवमिति । इत्येवं पूर्वोक्तप्रकारेण वदतो गदव एव तस्य वैशम्पायनस्य अनादरे षष्ठी, विनिवृत्तयतः परावर्तने तद्वाक्यमूहलङ्घ्येत्यर्थः युवराजश्चन्द्रापीडः, समुच्छ्रितानि अत्युच्छ्रितानि अनेकानि विविधानि तोरणानि बहिर्द्वाराणि यस्याः तां तादृशीम्, तृणमये यवसप्राये प्राकारे वप्रे तदन्तराल इत्यर्थः, मन्दिरसहस्रेण भवनसमूहेन सम्बाधा व्याप्ता तां तादृशीम्, उल्लासितेन उत्थापितेन धवलेन शुभ्रेण पटमण्डपशतेन


निरन्तर डूबी हुई पृथिवी, गिरे हुए भ्रमरोंके कलकलसे ऐसा शब्द करती है मानो यमुना-जलकी तरङ्गोंसे व्याप्त हो गई हो। सैन्यगणके पदभारसे उत्पन्न हुए क्षोभके भयके कारण आकाशमें चड़ी हुई नदियोंके समान, यह चन्द्र-धवल ध्वजाओंकी पंक्तियां सब दिशाओंको आच्छादनकर (ढक) लेती है। सर्वथा महा आश्चर्यका विषय यह है कि - सैन्यगणके पदभारसे समस्त कुलपर्वतगणका सन्धिबन्धन विश्लेषित हो (टूट) जानेके कारण पृथिवी आज हजारों टुकड़ों से विभक्त नहीं हो जाती है, अथवा सैन्यगणके पदभारसे पीड़ित हुई पृथिवीको धारण करनेमें असमर्थ होकर शेषनागके फनरूपी दीवारें स्थानच्युत नहीं हो जाती हैं।

वैशम्पायनके इस प्रकार कह चुकते ही युवराज (चन्द्रापीड) पूर्वनिर्दिष्ट वासस्थान (डेरे) में आ पहुंचे, जिस स्थानमें अनेक तोरण लटकाए गए थे, घासके अहाते बनाकर हजारों भवन बनाए गए थे; उत्तोलित शुभ्रवस्त्रके सैकड़ों पटमण्डप शोभायमान थे। चन्द्रापीडने उस स्थानमें हस्तिनीके पृष्ठपरसे उतरकर राजाके समान सब


१. मेदवारिणि मग्ना। २. निरन्तरनिपतित••••। ३. ०'कलिता' कलङ्ककालिका, ललिता। ४. कलितेव, कवलितेव। ५. सैन्यसंक्षोमभयाद् धरणिमपहाय। ६. गगनम्। ७. संच्छादयन्ति। ८. द्विजपङ्क्तयः। ९. शैलदन्ता। १०. दलन्ति। ११. ०'मन्दिरसन्तापाम्। १२. ०'संशोभिनीम्।

चन्द्रापीडदिग्विजयवर्णना ३९ ] चन्द्रकला-विद्योतिनीसहिता । ३६१

राजवत् सर्वाः क्रियाश्चकार । सर्वैश्च तैः समेत्य नरपतिभिरमात्यैश्च विविधाभिः कथाभिर्वि- नोद्यमानस्तं दिवसमशेषमभिनवपितृवियोगजन्मना शोकावेगेनास्यमानहृदयो दुःखेनवात्य- वाहयत् । अतिवाहितदिवसश्च यामिनीमपि स्वशयनीयस्य नातिदूरे निहितशयननिषण्णेन¹ वैशम्पायनेन, अन्यतश्च समीपे² क्षितितलविन्यस्त³ कुथप्रसुप्तया पत्रलेखया सह, अन्तरा पितृभक्तम्, अन्तरा मातृसम्बद्धम्, अन्तरा शुकनासमयं कुर्वन्नालापनातिजातनिद्रः⁴ प्रायेण जाग्रदेव निन्ये । प्रत्यूषे⁵ चोत्थाय तेनैव क्रमेणानवरतप्रयाणकैः प्रतिप्रयाणकमुपचीयमानेन सेनासमुदायेन जर्जयन् वसुन्धराम्, आकम्पयन् गिरीन्, उत्सिञ्चन्⁶ सरितः, रिक्तीकुर्वन् सरांसि, चूर्णयन् काननानि, समीकुर्वन् विषमाणि, दलयन् दुर्गाणि, पूरयन्निम्नानि, निम्नयन् स्थलानि प्रातिष्ठत⁷ ।

वस्त्रमयमवनसमूहेन शोभते चञ्चास्ति दूति तां तादृशीम्, आश्रयभूमिं प्रागवचितनिवासम्पत्यम् अवाप प्राप ।

तस्यामिति । तस्याम् आावासभूमौ अवतीर्य अवतरणं विधाय राजवत् तारापीडवत् सर्वाः क्रियाः बलपर्यवेक्षणसेनापतिसम्भाषणनियोगप्रभृतीनि समग्रकृत्यानि चकार कृतवान् । तैः पूर्वोक्तैः सर्वैः समस्तैः नरपतिभिः राजभिः मचिदेश्व सह समेत्य मिलित्वा विविधाभिः अनेकप्रकाराभिः कथाभि-र्वात्तीभिः विनोद्यमानः प्रमाद्यमानः अभिनवपितृवियोगत् प्रत्यग्रानुभूतजनकविश्लेषात् जन्म उत्पत्ति-र्यस्य तेन तादृशेन शोकावेगेन विषादमरेण आयास्यमानहृदयः सन्तप्यमानचित्तः चन्द्रापीडः, अशेषं-समस्तं तं दिवसं दिनं दुःखेन महता क्लेशेन अत्यवाहयत् व्यगमयत् ।

अतिवाहितेति । अपिचेति चार्शः । अतिवाहितोऽतिक्रमिनो दिवसो वासरो येन तादृशश्चन्द्रापीडः, स्वशयनीयस्य स्वकीयशय्यायाः, नातिदूरे नान्तिद्वेीयपि प्रदेशे निहितं स्थापितं यत् शयनं शयनीयं तत्र निषण्णेन स्थितेन वैशम्पायनेन । अन्यतो निजशयनस्यस्य अन्यस्मिन् पार्श्वे समीपे निकटे, क्षितितले पृथिव्यां विन्यस्तं स्थापितं यत् कुथं विचित्रकम्बलं तत्र प्रसुप्ता कृतशयना तथा तादृश्या च पत्रलेखया तन्नामप्रसिद्धया ताम्बूलकरङ्कवाहिन्या च सह । अन्तरा मध्ये मध्ये पितृभक्तं तारापीडसम्बद्धम्, अन्तरा शुकनासमयं वैशम्पायनपितृविषयकम् आलापं परस्परं प्रीतिमापन्नं कुर्वन् विदधत् नातिजाता बाहुल्येन उपयाता निद्रा प्रमीला यस्य सः तादृशः, अत एव प्रायेण आधिक्येन जाग्रदेव निद्राभाववान्नेव सन् यामिनीमपि तां त्रियामामपि निन्ये यापयामास ।

प्रत्यूष इति । प्रत्यूषे प्रातःकाले च उत्थाय उत्थानं विधाय तेनैव क्रमेण पूर्वोक्तपरिपाट्या अनवरत-प्रयाणकैः अविश्रान्तप्रस्थानैः । प्रतिप्रयाणकःप्रतिवासरिकयात्राकाल इत्यर्थः । अज्ञातेऽर्थे कपूशयो ह्यत्रयत्र ज्ञेयः । उपचीयमानेन वृद्धिं प्राप्यमाणेन, तत्तत्सामन्तर्राजगगगणसैन्यसम्मेलनादित्याशयः । सेमासमुदायेन वाहिनीगणेन । वसुन्धरां पृथिवीं जर्जयन् शिथिलतामापादयन् भारेण पीडयन्नित्यर्थः । गिरीन् पर्वतान् आकम्पयन् तरलतां नयन्, सरितो नदीः उत्सिञ्चन् सलिलोत्तोलनेन स्तोकमलिलानि विदधत् । सरांसि तटाकानि रिक्तीकुर्वन् पानाद्यर्थसलिलानयनादिना मलिलरहितीकुर्वन् । काननानि वनानि चूर्णयन् छोदी-कुर्वन् । विषमाणि उत्न्नावताननानि स्थानानि समीकुर्वन् सरलीकुर्वन् । दुर्गाणि दुर्गमानि मार्गस्थायिपर्व-तादिस्थानानि दलयन् विनाशयन् । निम्नानि मार्गस्थायिद्रहादीनि पूरयन् मृत्तिकादिभिः समीकुर्वन् ।


क्रियायें सम्पादन कीं, पूर्व समस्त राजगण प्रधानमन्त्रियोंके साथ इकट्ठे होकर नाना प्रकारके कथोपकथन (बातचीत) से उसका मनोरंजन करने लगे, किन्तु वह सब दिन पिताके नए वियोगके कारण उत्पन्न हुए शोकावेगसे हृदयमें खिन्न होकर उसने कठिनता से बिताया। दिनके बिता लेनेपर रात्रि भी—अपनी शय्याके पासमें ही एक पलंग पर बैठे हुए—वैशम्पायनके साथ और—दूसरी ओर निकटमें ही पृथिवीपर बिछे हुए एक विचित्र कम्बल (गलीचे) पर सोती हुई—पत्रलेखाके साथ बीच-बीचमें पिता-माता एवं शुकनासके सम्बन्धमें कथोपकथन (बातचीत) करते, उसने निद्रा न आनेसे प्रायः जागरणमें ही बिताई । पुनः प्रातःकालमें उठकर पहले की भाँति ही कहीं ठहरे बिना गमन (कूच) करने लगा प्रत्येक दिन प्रस्थान करनेके समयमें नए नए आकर योग देने लगे इससे अपनी सेना अत्यधिक बढ़ गई, इस प्रकार मंजिल-मंजिल पर बढ़ती सेनासे वह पृथिवीको जर्जरित करता हुआ, पर्वतोंको


१. नातिदूरनिषण्णेन । २. शयनीयसमीपे । ३. क्षितितले विन्यस्त... । ४. नान्त्युपजातनिद्रः । ५. प्रत्यूषसि । ६. उत्तिक्षिपन् । ७. न्यायवर्त्मनि प्रजाः प्रतिष्ठिपदन् । २३ का०