कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 386, कुल 709 में से
संदर्भ में पढ़ेंचन्द्रापीडदिग्विजयप्रस्थानम्० ३८ ] चन्द्रकला-विद्योतिनीसहिता । ३४७
न्यैश्च प्रणमद्भिर्भूमिपालैः, अंशुलता-जाल-जटिल-चूलिकानां मणिमुकुटानामालोकेनोन्मिषि- तवहुलरोचिषाञ्च पत्रभङ्गिनीनां' केयूरमण्डलीनां प्रभासन्तानेन क्वचिद्विकीर्यमाण-चाप- पक्ष-क्षोदा इव, क्वचिदुत्पतित-शिखि-कुलचन्द्रक-शत-शारा इव, क्वचिदकाल-जलधर-तडि- स्तरला इव, क्वचित् सकलपतरुपल्लवा इव, क्वचित् सशक्तऋतुचापा इवे, क्वचित् सवालातपा इवाक्रियन्त३ दश दिशः । धवलान्यपि विविध-मणि-निकर-कल्माषैरूत्सर्पिभिश्चूडामणिमरीचि- भिर्मयूराणीवाराजन्त४ राज्ञामातपत्राणि ।
क्षणेन च तुरगमयमिव महीतलम्, कुञ्जरमयमिव दिक्कचक्रवालम्, आतपत्रमण्ड- लमयमिवान्तरिक्षम् , ध्वजवनमयमिवान्बरतलम् , इभमदगन्धमय इव समीरणः, भूपाल- मयीव प्रजासृष्टिः, आभरणांशुमयीव दृष्टिः५, किरीटमय इवातपः, चामरमय इव
कुर्वद्भिः भूमिपालैः पृथिवीपतिभिर्हेतुभिः, अंशुलता रश्मिपंक्तयः तासां जालेन समूहेन जटिला विषमाः चूलिकाः चूडाः प्रान्तभागा येषां तेषां तादृशानां मणिमुकुटानां स्वकिरीटानाम् आलोकेन प्रकाशेन, तथा उन्मिषितानि उद्गतानि बहुलानि सातिशयानि रोचींषि कान्तयो यासां तासां नादृशीनां पत्रभङ्गिनीनां पत्रलताविशिष्टानां केयूरमण्डलीनाम् अङ्गदश्रेणीनां प्रभासन्तानेन कान्तिप्रवाहेन च कर्त्रा, क्वचिद्देशे कस्मिंश्चित्प्रदेशे विक्षीर्यमाणा विक्षिप्यमाणाः चापाणां किकीदिवीनां पक्षक्षोदाः पत्रचूर्णानि यासु ता इव, दश दिशः अक्रियन्त इति सम्बन्धः। इत्थमुत्तरत्र । क्वचित् उत्पतितस्य उड्डीनस्य शिखिकुलस्य मयूर- गणस्य चलता दीप्यमानेन चन्द्रकशतेन मेचकगणेन पुच्छगतकर्बुरितचिह्नगणेनेति तात्पर्यम् शारा विचित्रा इव। क्वचित् अकाले असमये यो जलधरो मेघः तस्य तडिता विद्युता तरलाश्चञ्चला इव। क्वचित् कल्पतरुपल्लवैः देववृक्षकिसलयैः सह विद्यमाना इति सकल्पतरुपल्लवा इव। क्वचिच शतऋतुचापः इन्द्र- धनुर्भिः सह इति सशक्तऋतुचापा इव। क्वचिच्च बालातपः प्रभाकालीनोदितसूर्यरश्मिः तेन सहेति सपाला- तपा इव दश दिशः दशककुभः अक्रियन्त ।
इह 'विकीर्यमाणे' त्यादौ क्रियोत्प्रेक्षाऽलङ्कारः। 'उत्पतिते' त्यारभ्य 'सबालातपा इव' इत्यन्तं यावत् सर्वत्र गुणोत्प्रेक्षालङ्कारः।
धवलानीति । धवलानि श्वेतान्यपि राज्ञां सामन्ततृपतीनाम् आतपत्राणि छत्राणि, विविधानामनेक- रूपाणां मणीनां रत्नानां तद्रश्मीनामित्यर्थः, निकरेण समूहेन कल्माषैः कर्बुरितैः नानावर्णैः, उत्सर्पिभिः ऊर्ध्वप्रसारिभिः चूडामणिमरीचिभिः शिरोरत्नरश्मिभिः करणैः, मायूराणि मयूरपिच्छरचितानीव। अराजन्त अशोभन्त । क्रियोत्प्रेक्षा ।
क्षणेनेति। क्षणेन क्षणमात्रेण च महीतलं पृथिवीतलं तुरगमयमिव अश्वमयमिव, दिक्चक्रवालं दिक्- मण्डलं कुञ्जरमयमिव, हस्तिमयमिव, अन्तरिक्षम् आकाशम् आतपत्रमण्डलमयमिव छत्रमण्डलमयमिव अम्बरतलं गगनतलं ध्वजवनमयमिव पताकासमूहमयमिव, समीरणो वायुः दृभमदगन्धमयमिव गजदा- नवारिसुगन्धमयमिव, प्रजासृष्टिः प्रकृतिसर्गः भूपालमयीव राजमयीव, दृष्टिर्दर्शनम् आभरणांशुमयीव
लगे । उस समय उनके-किरणजालसे चमकती कलँगीवाले-मणिमय मुकुटोंके प्रकाशसे एवं अत्यन्त-दीप्तिशाली नानाविध पत्र-भङ्ग-युक्त केयूरसमूह (बाजूबन्दों) के प्रभाओंसे दशों दिशाएँ ऐसा प्रतीत होने लगीं मानो किसी स्थानमें नीलकण्ठके परों का चूर्ण विक्षिप्त (बिखरा) हुआ हो, किसी स्थानमें उड़ते मयूरोंके हिलते हुए चन्द्रकोंसे विचित्र की हुई हों, किसी स्थानमें असामयिक मेघकी बिजलीसे चमकने लगी हों, किसी स्थानमें कल्पवृक्षके पल्ल- वोंते, किसी स्थान में इन्द्र-धनुषोंसे और किसी स्थानमें नवोदित सूर्य के प्रकाश से समन्वित हों। राजाओं के छत्र श्वेतवर्ण होने पर भी, नानाविध मणियोंके किरणसमूहसे विचित्र होनेसे एवं ऊपर की ओर फैलती हुई चूडामणिके किरणोंसे मानो मयूर-पुच्छ-निर्मित के समान शोभायमान होने लगे ।
क्षणभरमें पृथिवीतल मानो तुरङ्गमय हो, दिङ्मण्डल मानो हस्तिमय हो, अन्तरिक्ष मानो छत्र-मय हो, आकाश मानो केतु-मय हो, वायु मानो हाथीके मदजल-गन्धमय हों, सब लोग मानो राजमय हों, दृष्टिपात मानो अलङ्कार-किरण-मय हो, आतप मानो मुकुटमय हो, दिन मानो चामरमय हो एवं त्रिभुवन मानो जय-जय
१. पत्रभङ्गीनां ।
२. सशक्तपक्षचापा इव ।
३. क्रियन्ते ।
४. राजन्ते, अरज्यन्त ।
५. दृष्टिः ।