कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 387, कुल 709 में से
संदर्भ में पढ़ें| ३४८ | कादम्बरी- | [ कथायाम्- |
|---|
दिवसः, जयशब्दमयमिव त्रिभुवनमभवत् । सर्वतश्च कुलपर्वताकारैः प्रचलद्भिर्मत्तवारणैः उत्पातचन्द्रमण्डलनिभैश्च प्रेङ्खद्भिरातपत्रैः संवर्तकाम्भोदगम्भीरभीमनादेन च ध्वनता दुन्दुमिना, तारकावर्षसदृशेन विसर्पता गजशीकरनिकरेण, धूमकेतुधूसरैश्चोल्लसद्भिरवनिरजोदण्डकैः, निर्घात-पात-परुषगम्भीरघोषैश्च करिकण्ठगज्जितैः, क्षतज-कण-वर्ष-बभ्रुंणा च भ्रमता मतङ्गजकुम्भसिन्दूरेण, संक्षुभित-जलधि-जल-कल्लोल-चञ्चलाभिश्च विसर्पन्तीभिः तुरङ्गमालाभिः, अन्धकारितदिगन्तरेण चानवरतं क्षरता गज-मदजल-धारादुर्दिनेन, कलकलेन च भुवनान्तरव्यापिना महाप्रलयकाल इव सञ्जज्ञे ।
सामन्ततृपतीनां भूषणरश्मिमयीव, आतपः आलोकः किरीटमयमिव मुकुटमयमिव, दिवसो वासरः चामरमय इव बालव्यजनमय इव, त्रिभुवनं त्रिविष्टपं जयशब्दमयमिव मागधानां शुभसूचकरवमयमिव अभवत् अजायत ।
इह सर्वत्र विकारार्थे मयट्प्रत्ययविधानाद् विकारस्य च अन्यथाप्रवृत्त्वेन गुप्तत्वाद् गुणोत्प्रेक्षा ।
सर्वत इति । किञ्चेति चार्थः । कुलपर्वताकारैः महेन्द्रादिसप्तकुलाचलाकृतिभिः, सर्वतः समन्तात् प्रचलद्भिः गच्छद्भिः मत्तवारणैः मत्तहस्तिभिः । अत्युद्धत्वसाम्यात् प्रलये कुलपर्वतानामपि चलन सद्भावात् समस्तसाहश्यमित्याशयः । उत्पातकाले उत्पातसमये यानि चन्द्रमण्डलानि शशिचक्रवालानि तन्निभैः तादृशैः प्रेङ्खद्भिः प्रचलद्भिः आतपत्रैः छत्रैः प्रलयसमये जगतामुत्पातद्योतनायैव चन्द्रमण्डलसञ्चलन-मिति सूचनाथैमुत्पातग्रहणम् । संवर्तकाम्भोदवत् प्रलयकालीनमहामेघवद् गम्भीरो भीषणः भयानकश्च नादो ध्वनिर्यस्य स तेन तादृशेन । ध्वनता शब्दायमानेन दुन्दुभिना पटहेन । तारकावर्षसदृशेन नक्षत्रवृष्ट्यनुकारिणा, विसर्पता समन्तात प्रसरता गजशीकरनिकरेण हस्तिशुण्डनिःसृतसलिलबिन्दुसमूहेन । धूमकेतुर्ग्रहविशेषः तद्वद् धूसरैर्धूम्रैः, उल्लसद्भिः उत्तिष्ठद्भिः अवनिरजोदण्डकैः दण्डवद्भवन्मानवसुन्धरा रेणुपंक्तिभिः । निर्घातः पूर्वप्रतिपादितस्वरूपः पवनः तस्य पातवत् परुषाः कठिनाः गम्भीराश्च घोषा निनादा येषां तैः तादृशैः करिणो हस्तिनो यः कण्ठो गलः तद्वत् गर्जितैः रसितैः । क्षतजकणः शोणितबिन्दुः तस्य वर्षवत् वृष्टिवत् बभ्रुना पिङ्गलवर्णेन मतङ्गजकुम्भसिन्दूरेणुना गजकुम्भस्थित सिन्दूरबिन्दुना । संक्षुभिता उद्वेलिता ये जलधिकल्लोलाः समुद्रतरङ्गाः तद्वत् चञ्चलाभिः चपलाभिः, विसर्पन्तीभिः प्रसरन्तीभिः तुरङ्गमालाभिः अश्वपंक्तिभिः । अन्धकारितानि समुत्पन्नान्धकारीणि दिगन्तराणि येन तेन तादृशेन, अनवरतं निरन्तरं चरता स्रवता गजमदजलधारादुर्दिनेन हस्तिमदसलिलधारावर्षेण । तथा भुवनान्तरव्यापिना विष्टपविवरप्रसरशीलेन कलकलेन सैनिकानां कोलाहलेन च करणेन, महाप्रलयकालः कल्पान्तसमयः सञ्जज्ञे सञ्जात इव, तत्रापि पूर्वप्रतिपादितकुलपर्वतसञ्चलनाद्यवश्यम्भावादित्याशयः ।
इह 'कुलपर्वताकारैः,' इत्यत्र 'उत्पातचन्द्रमण्डलनिभैश्च' इत्यत्र चार्थोपमा । 'संवर्त्तकाम्भोदगम्भीरे' त्यत्र लुप्तोपमा । 'तारकावर्षसदृशेन' इत्यत्रार्थोपमा । 'धूमकेतुधूसरैः,' 'क्षतजकणबभ्रुना,' 'संक्षुमितजलधि-
प्रसन्नय हो ऐसा दीखने लगा। एवं कुलपर्वतों के समान बड़े-बड़े स्वरूपवाले मत्तहस्तिगण सब दिशाओंमें व्याप्त होकर जाने लगे, औत्पातिक चन्द्रमण्डल के समान छत्रसमूह चलने लगे; ताड्यमान दुन्दुभी, प्रलयकालके मेघ के समान गम्भीर और भयङ्कर शब्द करने लगी, हाथियोंकी सूँड़ों से जलविन्दुसमूह गिरने लगे, पृथिवी में से धूमकेतु के समान धूसरवर्ण धूलके गुब्बारें उठने लगे, हाथियों निर्घात-वायुपतन (वज्रपात) के समान कठोर और गम्भीर शब्द से गर्जना करने लगीं, हाथियोंके कुम्भस्थल से रुधिरकणों वर्षी के समान सिन्दूर की धूलियाँ उड़ने लगीं, क्षुभित हुए समुद्रजलकी महातरंगों के समान तुरङ्ग-पङ्क्तियाँ चलने लगीं, हाथियों की मद-जल धारा, सब दिशाओंमें अन्धकार कर दिन-रात क्षरित होने लगी, एवं सैनिकोंके कोलाहल से जगत् व्याप्त हो गया, इन सब कारणों से उस समयमें मानो महाप्रलयकाल उपस्थित हुआ हो—ऐसा दीखने लगा।
१. किरीटमय इव दिवसः, जय... । २. प्रहसितातपत्रैः । ३... प्रविस्तृण्वतीभिः । ४. तुरङ्गम । ५. अनवरतक्षरता । ६. क्वचित् गद्यपदं न विद्यते ।