भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 395, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 395

३५६ | कादम्बरी- | [ कथायाम्-

पाण्डुतां क्षितिक्षोदेन। बहुलरजोधूसरितमशिशिरकिरणबिम्बमवचूलचामरमिव निष्प्रभमभवत्। दुकूलपटे धवला कदलिकेव कलुषतानाजगाम गगनापगा। नरपाल-बलभरमतिगुरुमसहमाना पुनरिव भारावतारणार्थममरलोकमरुराह रजोमिषेणं मही। निःशेषनिपीतातपम्, अन्तर्दह्यमानमिव जलधिजलेषु धूसरित-रवि-रथ-ध्वज-पटमपतदवनिरजः। मुहूर्तेन च गर्भवासमिव, संहारसागरजलमिव, कृतान्तजठरमिव, महाकालमुखमिव, नारायणोदरमिव ब्रह्माण्डमिव विवेश पृथिवी। मृन्मय इव बभूव दिवसः, पुस्तमय्य इव चकाशिरे ककुभः, रेणुरूपेणेव परिणतमम्बरतलम्, एकमहाभूतमयमिव त्रैलोक्यमासीत्।

बहुलेति । बहुलैः सातिशयैः रजोभिः पांसुभिः धूसरितं धूम्रवर्णीकृतम्, अशिशिरकिरणबिम्बं रविमण्डलम्, अवचूलचामरमिव पताकाग्रलम्बितवसनबद्धं बालव्यजनमिव । उपमा ।

दुकूलेति । दुकूलं पटः सूक्ष्मवस्त्रं तद्वत् धवला शुक्ला, गगनापगा वियन्नदी मन्दाकिनी, कदलिका रम्भापताकेव, कलुषताम् आविलताम् आजगाम प्राप्तवती, तद्रेणुसंपातादित्याशयः ।

इह 'दुकूलपटधवला' इत्यत्र लुप्तोपमा, 'कदलिकेव' इत्यत्र च श्रौतोपमा । आभ्यां च मन्दाकिन्याः कालुष्यप्राप्तिसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिरलङ्कारः सङ्कीर्यते ।

नरपालेति । अतिगुरु नितान्तविस्तृतं नरपालबलभरं राजसैन्यभारम् असहमाना वोढुमसमर्था मही वसुन्धरा, भारावतारणार्थं रजोमिषेण रेणुव्याजेन, पुनर्मूयः अमरलोकं स्वर्गम् आरोहेव अवरोहणं चकारेत्र । दशाननकंसप्रभृतिभारावतारणाय प्रथमारोहणवदित्याशयः । सापह्नवा क्रियोत्प्रेक्षा ।

निःशेषेति । धूसरितो धूम्रवर्णीकृतः रविरथस्य सूर्यस्यन्दनस्य ध्वजपटः पताका येन तत्तादृशम्, तथा निःशेषेण साकल्येन निपीतो ग्रस्त आतपः रविप्रकाशो येन तत्तादृशम्, अत एव आतपग्रसनाद् अन्तरभ्यन्तरे दह्यमानमिव सन्तप्यमानमिव सत्, अवनिरजः भूरेणुः, जलधिजलेषु, समुद्रसलिलेषु अपतत् पपात, दह्यमानस्य शीतोपचारस्य शान्तिदायित्वादित्याशयः ।

इह अतिशयोक्ति-पदार्थहेतुककाव्यलिङ्ग-क्रियोत्प्रेक्षाणां परस्परमङ्गाङ्गिभावसङ्करः ।

मुहूर्तेनेति । किञ्चेति चार्थः । पृथवा मही मुहूर्तेन क्षणेनैवं गर्भवासं जनन्या गर्भाशयं विवेशेव सर्वत्र प्रविष्टवतीव । एवमग्रेऽपि सम्बन्धः । तद्बह्वन्धकारित्वादित्याशयः । संहारे प्रलयकाले यः सागरः समुद्रः तस्य जलं सलिलमिव, कृतान्तजठरमिव यमोदरमिव, महाकालमुखमिव अखण्डदण्डायमानमहाकालवदनमिव, नारायणोदरमिव श्रीविष्णोर्जठरमिव, ब्रह्माण्डं ब्रह्मकोपं विवेशेव । सर्वत्र क्रियोत्प्रेक्षा ।

मृन्मय इति । दिवसो वासरो मृन्मयो मृत्तिकाविकार इव बभूव जातः, ककुभो दिशः पुस्तमय्यो रजोलेपविकारा इव मायः चकाशिरे शुशुभिरे ।

'मृदा वा दारुणा वाथ वस्त्रेणाप्यथ चर्मणा ।
लोहरत्नः कृतं चापि पुस्तमित्यभिधीयते ॥'

इति रामाश्रमी टीका । अम्बरतलं गगनतलं कर्तृ, रेणुरूपेण धूलिस्वरूपेण परिणतमिव तन्मयतां गतमिव । तथा त्रैलोक्यं त्रिभुवनं कर्तृ, एकमहाभूतलयमिव केवलभूतमयमिव आसीत्, अन्येषाम् अगगनादीनां रेणुभिराच्छादितत्वादित्याशयः ।


समान शुभ्रवर्ण मन्दाकिनीका जल, उस सैन्यदलकी पताकाके समान धूलिसमूहसे मलिन हो गया। राजवंशोंकी सेनाका गुरुतर भार सहन करनेमें असमर्थ होकर पृथिवी मानो उस भारको उतारनेके लिए इस धूलिके बहाने फिरसे स्वर्गमें चढ़ी। सूर्यरथकी पताकाको धूसर-वर्ण (मटमैला) करके सूर्यके समस्त किरणोंका पान करनेसे भीतर मानो जलता हो, ऐसा वह धूलिसमूह समुद्रके जलमें जाकर पड़ा। एवं एक क्षणकालमध्यमें ही पृथिवी मानो माताके गर्भमें, प्रलयकालीन समुद्रके जलमें, मृत्युके उदरमें, महाकालके मुखमें, नारायणके उदरमें एवं ब्रह्मकोपके अन्दरमें घुस गई। एवं सब दिन मानो मृत्तिकामय हो गया। दिशाएँ ऐसी दीप्ति पाने लगीं मानो उन पर कुछ लिप्त कर दिया गया हो। आकाशने मानो धूल रूप ही धारण कर लिया और सब त्रिभुवनमें मानो एक ही महाभूत व्याप्त हो गया।


१. क्षीरोदपाण्डुना क्षणाव क्षीरोदपाण्डुता ।
२. दुकूलपट्ट...।
३. ...मरणसहमना ।
४. रजोनिभेन ।
५. ...पीतातपम् ।
६. प्रस्तमय्य इव ।
७. दिशः ।
८. अम्बरम् ।
९. महाभूतमिव ।