कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 397, कुल 709 में से
संदर्भ में पढ़ें३५८ -कादम्बरी- [कथामुखम्-
द्यान्युपार्जयिष्यसि; के वा न प्रणता राजानः, कैर्न विरचितः शिरसि बाल-कमलकुड्मल- कोमलः सेवाञ्जलिः कैर्न^१ मसृणीकृताः प्रतिबद्धहेमपट्टैर्ललाटैः सभागुवः, कैर्न घृष्टाः पाद- पीठे चूडामणयः, कैर्न प्रतिपन्ना वेत्रयष्टयः^२ कैर्नोद्धूतानि^३ चामराणि, कैर्नोच्चारिता जयशब्दाः, केषां न पीताः किरीटपत्रमकरैः सलिलधारा इव निर्मलास्तच्चरण^४-नख-मयूख-राजयः । एते हि^५ चतुरुदधइजलावगाहदुर्ललित-बल^६-मदावलिप्ता दशरथ-भगीरथ-भरत-दिलीपालर्क-मान्धा- तृप्रतिमाः कुलाभिमानशालिनः सोमपायिनो मूर्द्धाभिषिक्ताः पृथिव्यां सर्वपार्थिवा रक्षामूति-
क्व इति । अथवा के राजानो नृपा न प्रणताः नमस्कृतवन्तः-देवस्तारापीडप्रतापादित्याह । अपि तु सर्व एव नमस्कृतवन्त इत्यर्थः । कैः राजभिः शिरसि मस्तके बालम् अभिनवं यत्-कमलकुड्मलं पङ्कजमुकुलं तद्वत् कोमलः मृदुलः, सेवा उपासना तत्सूचकोऽञ्जलिः पाणियोजनं न विरचितः विहितः, अपि तु सर्वैरेव विरचित इत्यर्थः । तथा कैः राजभिः प्रतिवद्धो भूषणाय योजितो हेमपट्टः कनकपट्टकं येषु तयोक्तैः-ललाटैर्मालैः सभागुवः परिषत्स्थलानि, न मसृणीकृताः न श्लक्ष्णीकृताः, अपि तु सर्वैरेव मसृणीकृता इत्यर्थः, द्वयमुत्तरत्रापि ज्ञेयम् । कैः राजभिः पादपीठे पादासने चूडामणयः शिरोरत्नानि न घृष्टानि घर्षणं प्रापिताः । कैः राजभिः वेत्रयष्टयः वेतसदण्डा न प्रतिपन्नाः प्रतिहारिभावेन गृहीताः । कैः चामराणि बालव्यजनानि नोद्धूतानि नान्दोलितानि । कैः जयशब्दा मङ्गलशब्दा नोच्चारिता नोदीरिताः । केषां भूपतीनां किरीटेषु मुकुटेषु यानि पत्राणि पर्णसदृशांशाः तानि मकराः स्वनामविख्याता जलजन्तुविशेषा इव तैः तादृशैः, सलिलधारा इव जलसम्पाता इव, निर्मलाः स्वच्छाः, तस्य तारापीडस्य चरणनखानां पादपुनर्भूणां मयूखराजयः रश्मिपङ्क्तयः, न पीताः प्रणामसमये न ग्रस्ताः, अपि तु सर्वेषामेवेत्यर्थः ।
इह 'के वा न प्रणता राजानः' इत्यारभ्य प्रतिवाक्ये अर्थापत्तिरलङ्कारः । 'किरीटपत्रमकरैः' इत्यत्र लुप्तोपमा, 'सलिलधारा इव' इत्यत्र श्रौतोपमा, 'केषां न पीताः' इत्यत्रार्थापत्तिश्चेति परस्परमेषामङ्गाङ्गिभावसङ्करः ।
महाराजतारापीडेन विजिता नृपतयस्त्वामपि प्रणिपतन्तीत्याह-एत इति । हि तथाहि । चत्वारः श्रुतुःसंख्याका ये उदधयः समुद्राः तेषां जलेषु सलिलेषु यः अवगाहः अन्यद्वीपविजयगमनायावतरणं तदेव दुर्ललितं दुष्कारिता येषां तेषां तादृशानां बलानां सैन्यानां मदेन गर्वेण अवलिप्ता गर्विताः । दशरथो रामपिता, भगीरथः सगरपौत्रः, भरत आर्यभिः, दिलीपो रघुपिता, अलर्को दानगर्वितः कश्चित् राजर्षिः, अस्येतिवृत्तम् अश्वमेधपर्वणि महाभारते प्रसिद्धम् ; मान्धाता युवनाश्वतनयः तत्प्रतिमाः तैः सदृशाः। कुलाभिमानशालिनो महाकुलप्रसूतत्वेन गर्वयुक्ताः । सोमपायिनः सोमयागं कृत्वा सोमरसपायिनो नियतयज्ञविधायिन इत्यर्थः । मूर्द्धसु शिरस्सु अभिषिक्ताः राज्यप्राप्तिसमये कृताभिषेकाः, पृथिव्यां भूतले सर्वपार्थिवाः समस्तराजानः, अभिषेकपयः अभिषेकीयसलिलं तस्य पातेन सम्पर्केण पूतैः पवित्रैः, चूडामणिपल्लवैः विस्तृतशिरोरत्नैः, रक्षामूर्तिमिव रक्षार्थं कषागीयमस्मेव, मङ्गल्यां, श्रेयस्करीम्, भवतः एव चरणयोः पादयोः रज संहति रेणुनिकरम् उद्वहन्ति प्रणामसमये धारयन्ति ।
नहीं हुए ? कौन-कौन राजाने अपने मस्तक पर अभिनव कमलके समान कोमल सेवाञ्जलि नहीं बनाई ? कनककिरीटधारी अपने-अपने ललाटसे (प्रणाम कर-करके) किसने सभामण्डपकी भूमिको चिकना नहीं किया ? किसने नमस्कार करनेके समय महाराज तारापीडके पादपीठ (चरणासन) पर अपनी चूडामणि नहीं रगड़ी ? किसने [प्रतिहारोंके समान] छड़ियां नहीं पकड़ीं ? किसने चंवर नहीं डुलाया ? किसने जयशब्द उच्चारण नहीं किया ? एवं मकर जिस प्रकार समुद्र-जलधारा पान करता है, उसी प्रकार किसने मुकुटके स्वर्णविनिर्मित मकराकार चिह्नसे, महाराज तारापीडके निर्मल चरणनखरश्मियोंकी राशिका पान नहीं किया ? । जो सैन्यगण अन्यान्द्व दीपकी जय करनेके लिये चारों समुद्रोंके जलमें स्नानकर अत्यन्त साहसिकता प्रकट किये हैं उन सेनाओंके गर्वसे मदमत्त हुए एवं दशरथ, भगीरथ, भरत, दिलीप, अलर्क और मान्धाताके तुल्य गुणवान्, कुलगौरवसम्पन्न, सोमरस पीनेवाले राज्यमें अभिषिक्त पृथिवीके ये सब अधिपति, अभिषेक जलके संस्पर्शसे पवित्र अपने-अपने चूडामणि द्वारा, यज्ञीय रक्षा भस्मके समान मङ्गलकारक तुम्हारे चरणधूलिसमूहको वहन करते (रखते)
१. केन ।
२. वेत्रलताः ।
३. उद्धूतानि ।
४. तच्चरण०००।
५. एते हि ते ।
६. दुर्ललितमद ।