कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 399, कुल 709 में से
संदर्भ में पढ़ें३६० कादम्बरी- [ कथायाम्-
वारिणि निरन्तरमग्ना^१ निपतिते^२ मधुकल-कलकलकलिता^३ कालिन्दी-जल-कल्लोल-कलि- तेव^४ भाति भूतधात्री । सैन्यभरसंक्षोभभयान्^५ सरित इव गगनतलम्^६ उत्पतन्त्य आच्छाद- यन्त्य^७ एता दिक्चक्रवालमिन्दुधवला ध्वज-पङ्क्तयः । सर्वथा चित्रम्, यन्नाद्यविघटित-सकल- कुल-शैल-सन्धि-बन्धाः^८ सहस्रशः शकलीभवते बलभरेण धरित्री, यद्वा बलभर-पीडित- वसुधा-धारण-विधुरा न चलन्ति^१० फणिनां पत्युः फणाभित्तयः । इत्येवं वदत एव तस्य युवराजः समुच्छ्रितानेकत्तोरणां तृणमय-प्राकार-मन्दिरसहस्र- सम्बाधाम्,^११ उल्लासित-धवल-पट-मण्डप-शोभिनीम्^१२ आवासभूमिमवाप । तस्याञ्चावतीर्य-
एलायाः चन्द्रशालायाः परिमलवत सुगन्धवत् सुरभिणि सुगन्धवति वेगिकावाहिनि धाराया सम्भारिणि दानवारिणि, निरन्तरमग्ना निरवकाशं क्लिन्नेत्यर्थः, तया निपतितस्य तद्दानवार्युपरि प्राप्तस्य मधुकर-कुलस्य भ्रमरगणस्य कलकलैः कोलाहलैः कलिता गहना दुष्प्रवेशा, भूतधात्री धारिणी, कालिन्दीजलस्य यमुनासलिलस्य कल्लोलैः बृहत्तरङ्गैः कलिता' व्याप्तेव सती भाति शोभते । हस्तिनां दानवारिधारायाः यमुनासलिलसदृशश्यामवर्णत्वादित्याशयः । 'कलिठं गहनं समे' इत्यमरः ।
इह 'एलापरिमलसुरभिणि' इत्यत्र लुप्तोपमा, मदजले निरवकाशमग्नत्वसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः, 'कलितेव' इत्यत्र क्रियोत्प्रेक्षा चेत्येतेषामङ्गाङ्गिभावसङ्करः ।
सैन्येति । सैन्यभरसंक्षोभभयात् बलभारजनितक्षुब्धतालक्षणत्रासात् गगनतलम् आकाशतलम् उत्पतिता उड्डीनाः सरितो नद्य एव एता इन्दुधवलाः शशिशुभ्राः ध्वजपङ्क्तयः केतुश्रेण्यः दिक्चक्रवालं दिङ्मण्डलम् आच्छादयन्ति आवृण्वन्ति ।
इह 'सरित इव' इत्यत्र जात्युत्प्रेक्षा, सा च 'इन्दुधवले' त्यत्र लुप्तोपमया सङ्कीर्यते ।
सर्वथेति । सर्वथा सर्वप्रकारेण चित्रं महदाश्चर्यम्, यदद्य धरित्री वसुन्धरा बलभरेण सैन्यभारेण विघटिता विश्लेषिताः सकलानां समस्तानां कुलशैलानां महेन्द्रप्रभृतिकुलपर्वतानां सन्धिबन्धाः संयोगबन्धनानि यस्याः सा तथोक्ता सती, सहस्रशः सहस्रधा न शकलीभवति न खण्डखण्डतां प्राप्नोति । एतच्छङ्कापाकरणाय पक्षान्तरमाह- यद्वेति । बलभरेण सैन्यभारेण पीडिताया वसुधायाः पृथिव्या धारणेन विधुरा विह्वलाः, फणिनां सर्पाणां पत्युः स्वामिनः शेषनागस्य फगाभित्तयः प्रसृतफणामण्डलानि न चलन्ति न स्खलन्ति, तदपि महदाश्चर्यमित्यर्थः ।
इह पूर्वत्र शकलीभवनसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनात्, उत्तरत्र सर्पराजस्य विस्तृतफणामण्डलानां कदाचिच्चलनेऽपि तदप्रतिपादनादतिशयोक्तिरलङ्कारः ।
इत्येवमिति । इत्येवं पूर्वोक्तप्रकारेण वदतो गदव एव तस्य वैशम्पायनस्य अनादरे षष्ठी, विनिवृत्तयतः परावर्तने तद्वाक्यमूहलङ्घ्येत्यर्थः युवराजश्चन्द्रापीडः, समुच्छ्रितानि अत्युच्छ्रितानि अनेकानि विविधानि तोरणानि बहिर्द्वाराणि यस्याः तां तादृशीम्, तृणमये यवसप्राये प्राकारे वप्रे तदन्तराल इत्यर्थः, मन्दिरसहस्रेण भवनसमूहेन सम्बाधा व्याप्ता तां तादृशीम्, उल्लासितेन उत्थापितेन धवलेन शुभ्रेण पटमण्डपशतेन
निरन्तर डूबी हुई पृथिवी, गिरे हुए भ्रमरोंके कलकलसे ऐसा शब्द करती है मानो यमुना-जलकी तरङ्गोंसे व्याप्त हो गई हो। सैन्यगणके पदभारसे उत्पन्न हुए क्षोभके भयके कारण आकाशमें चड़ी हुई नदियोंके समान, यह चन्द्र-धवल ध्वजाओंकी पंक्तियां सब दिशाओंको आच्छादनकर (ढक) लेती है। सर्वथा महा आश्चर्यका विषय यह है कि - सैन्यगणके पदभारसे समस्त कुलपर्वतगणका सन्धिबन्धन विश्लेषित हो (टूट) जानेके कारण पृथिवी आज हजारों टुकड़ों से विभक्त नहीं हो जाती है, अथवा सैन्यगणके पदभारसे पीड़ित हुई पृथिवीको धारण करनेमें असमर्थ होकर शेषनागके फनरूपी दीवारें स्थानच्युत नहीं हो जाती हैं।
वैशम्पायनके इस प्रकार कह चुकते ही युवराज (चन्द्रापीड) पूर्वनिर्दिष्ट वासस्थान (डेरे) में आ पहुंचे, जिस स्थानमें अनेक तोरण लटकाए गए थे, घासके अहाते बनाकर हजारों भवन बनाए गए थे; उत्तोलित शुभ्रवस्त्रके सैकड़ों पटमण्डप शोभायमान थे। चन्द्रापीडने उस स्थानमें हस्तिनीके पृष्ठपरसे उतरकर राजाके समान सब
१. मेदवारिणि मग्ना। २. निरन्तरनिपतित••••। ३. ०'कलिता' कलङ्ककालिका, ललिता। ४. कलितेव, कवलितेव। ५. सैन्यसंक्षोमभयाद् धरणिमपहाय। ६. गगनम्। ७. संच्छादयन्ति। ८. द्विजपङ्क्तयः। ९. शैलदन्ता। १०. दलन्ति। ११. ०'मन्दिरसन्तापाम्। १२. ०'संशोभिनीम्।