भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 499, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 499
४६०कादम्बरी-[कथायाम्-

न्मीलितं-लोचनमेव 'सखे ! पुण्डरीक ! कथय किमिदम्' इत्यपृच्छम्। अथ सुचिरसम्मोलनाल्लग्नमिव कथर्माप प्रयत्नेन अनवरतरोदनवशात् समुपातारुणं भावमश्रुजलपूर-प्लावि-तम् उत्कुपितमिव सवेदनमिव स्वच्छ्रांशुुकान्तरितरक्तकमलवनच्छायां चक्षुरुन्मील्य मन्थर-मन्थरया दृष्ट्या सुचिरं विलोक्य माम् आयततरं निश्वस्यै लज्जाविशीर्यमाणविरलाक्षरं 'सखे ! कपिञ्जल ! विदितवृत्तान्तोऽपि किं मां पृच्छसि' इति कृच्छ्रेण शनैः शनैः अवदत् ! अहन्तु तदाकर्ण्य तदवस्थस्यैवाप्रतीकारविकारोऽयम्, तथापि सुहृदा सुहृदसन्मार्गप्रवृत्तो यावच्छक्तिः सर्वात्मना निवारणीय इति मनसावधार्याब्रवम्-'सखे पुण्डरीक ! सुविदित-

तथोक्तः सन्, अनुन्मीलिते मुद्रिते लोचने नयने यस्य तमेव, तं पुण्डरीकं 'सखे पुण्डरीकं' मित्र पुण्ड-रीक ! इदं तव दृश्यमानस्वरूपम् ? कथय निवेदय' इति एवम् अपृच्छं प्रश्नमकरवम् ।

अथेति। सुचिरसंमेलनाद् बहुकालं यावन्मुद्रणात् लग्नमित्र मिथः संसक्तावरणयुगलमिव, कृच्छ्रे-णोन्मीलनादित्याशयः। अनवरतं निरन्तरं यद्रोदनमश्रुपातस्तद्वशात् समुपाजातः समुत्पन्नः अरुणभावो लौहित्यं यस्य तत्तादृशम् अश्रुजलस्य रोदनजनितनयनाम्बुनः पूरेण ओघेन प्लावितम्, उत्कुपितमिव उत्कोपो नेत्ररोगविशेषस्तद्युक्तमिव लौहित्यादित्याशयः। सवेदनमिव सव्यथमिव, कृच्छ्रेणोन्मीलनादि-स्याशयः। स्वच्छ्रांशुकेन निर्मलसूक्ष्मवस्त्रेण अन्तरितम् आच्छादितं यत् रक्तकमलवनं रक्तपद्मारण्यं यस्य छाया इव छाया कान्तिर्यस्य तत्तादृशम्, 'छाया सूर्यप्रिया कान्तिः' इत्यमरः। चक्षुर्नेत्रं कथमपि प्रयत्नेन महतोद्योगेन उन्मील्य विमुद्रय, मन्थरमन्थरया नितान्तालसया दृष्ट्या वीक्षणेन सुचिरं बहु-कालं मां विलोक्य दृष्ट्वा, निश्वस्य दीर्घोच्छ्वासं विधाय, आयततरं नितान्तदीर्घ यथा स्यात्तथा लज्जया त्रपया विशीर्यमाणानि अस्फुटमुदीर्यमाणानि विरलानि अल्पानि च अक्षराणि वर्णा यत्र क्रियायां तद् यथा स्यात्तथा, 'सखे कपिञ्जल वयस्य कपिञ्जल ! विदितवृत्तान्तोऽपि ज्ञातोदन्तोऽपि मां किं पृच्छसि किं प्रश्नं करोषि' इति एवं शनैः शनैः मन्दं मन्दं, कृच्छ्रेणं कष्टेन अवदत् अवोचत् ।

इह 'लग्नमिव' 'उत्कुपितमिव' इत्युभयत्र क्रियोत्प्रेक्षालङ्कारः । 'सव्यथमिव' इत्यत्र गुणोत्प्रेक्षा । 'स्वच्छांशुुकान्तरितरक्तकमलवनच्छायम्' इत्यत्र लुप्तोपमा। अश्रुजलपूरप्लावनसादृश्यनिरूपणाय 'स्वच्छां-शुकान्तरिते'ति विशेषणमिदम् । अनुचितार्थत्वदोषपरिहाराय वनपदस्यानिवेश एव युक्त इत्यालोचकाः।

अहमिति । तदवस्थस्यैवेत्यतः पूर्वं यद्यपीतिपदं निवेशनीयम् । तु किन्तु अहं कपिञ्जलः तदाकर्ण्य तच्छ्रुत्वा, अयं पुण्डरीको यद्यपि तदवस्थस्यैव ममोपदेशमात्रेणैव अभिलषितां दयितां विनेत्यर्थः, नास्ति प्रतीकारः प्रतिक्रिया उपशम इत्यर्थः यस्य स तथोक्तो विकारो यस्य स तादृशः सञ्जातः। तथापि सुहृदा मित्रेण असन्मार्गप्रवृत्तः असाधुपथानुगः सुहृत् यावच्छक्तिः यथाशक्ति, सर्वात्मना सर्वप्रयत्नेन निवार-णीयः प्रतिषेधनीय इति एवं मनसा हृदयेन अवधार्य निश्चित्य अब्रवम् अवोचम्-

'आत्मा कलेवरे यत्ने स्वभावे परमात्मनि। चित्ते घृतौ च बुद्धौ च परय्यावर्त्तनेऽपि च ॥' इति धरणिः।

सखे इति। एतन्मम सुविदितं सुज्ञातम् । इदं वक्ष्यमाणमेव पृच्छामि जिज्ञासां करोमीत्यर्थः।

करवट रख कर मुद्रित नयनावस्था (आंख मिची) होने पर भी उससे मैंने पूछा-'मित्र पुण्डरीक ! कहो तो सही आपको यह क्या हुआ है ?' उसके बाद वे बहुत देर तक मुद्रित (बन्द) रखनेके कारण ऊपरके दोनों चर्मावरण मानो परस्पर संलग्न (चिपक) हो गई हों, ऐसी अविश्रान्त रुदन करनेसे रक्तवर्ण, अश्रु-जलके प्रवाहमें डूबी हुई, अत एव प्रतीत होती थीं कि सूजी हों अथवा व्यथा पाती हों, ऐसी निर्मल सूक्ष्मवस्त्रसे आच्छादित रक्त-कमल-वनके समान सौन्दर्य-सम्पन्न, किसी प्रकारसे यत्नपूर्वक अपनी आंखें खोल कर, अत्यधिक लम्बी सांस लेकर अत्यन्त मन्थर (अलसयुक्त) दृष्टिसे बहुत देर तक मुझे देख कर, लज्जाके कारण टूटे फूटे अल्प अक्षरोंसे धीरे धीरे क्लेशपूर्वक अस्फुट कहने लगे-'मित्र कपिञ्जल ! तुम सब समाचार जान कर भी मुझसे क्या पूछते हो ?' यह सुनते ही उसकी अवस्था देख कर मुझे प्रतीत हुआ कि यद्यपि केवल मेरे उपदेश से ही इसके असाध्य मदन-विकारका उपशम हो नहीं सकता, तथापि एक मित्र को असत्पथमें गमन करते देख कर, दूसरे मित्रको चाहिए कि उसे यथाशक्ति प्रयत्न करके रोके । यह स्थिर विचारकर मैंने कहा-'मित्र पुण्डरीक ! यह समाचार मैं भली भांति


१. अहमनुन्मीलित ००० । २. सालग्नमिव । ३. उपात्तारुणभावम् । ४ ०००पटलं ००० । ५. उत्कूपितम् । ६. क्वचिद् द्विरुक्तिर्नास्ति । ७. निःश्वस्य । ८. क्वचिद 'विरल' इति पदं नोपलभ्यते । ९. क्वचिद् द्विरुक्तिर्नास्ति ।